Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 493
________________ कण्डिका ४] परिशिष्टम् ।। ४८७ मिति विसर्गोऽभिरताः स्म इतीतरे ' स्पष्टमेतत् । अत्राग्नौकरणनिषेधादेव पात्रालम्भनिषेधो हुतशेपदानानन्तरं तस्य विहितत्वात् । अमृतंजुहोमीति मन्त्रलिङ्गाद्भुतशेषस्यैव परामर्शात् । हुतशेपाभावे पात्रालम्भाभाव इति निश्चीयते । इति हलायुधभाष्ये ॥ चतुर्थी कण्डिका ॥ ____ अथ प्रयोगः । निमन्त्रणम् । ततो मध्याहनानम् । ततः कर्माङ्गस्नानम् । द्विजेभ्य उदकदानम् । मण्डलकरणम् । द्विजैराचमनकरणम् । पादप्रक्षालनम् । ब्राह्मणस्योपवेशनम् । दीपस्थापनम् । देवताभ्यश्चेति पाठः । सङ्कल्पः । ततो निहन्मि सर्वमिति पाठः । नीवीवन्धनम् । तिला रक्षन्त्वित्यारभ्य दिशि दिशि प्रकिरणान्तम् । जलाभिमन्त्रणम् । पाकप्रोक्षणम् । आसनदानम् । हस्तप्रक्षालनम् । नावाहनम् । नावकिरणम् । जपः एकस्यार्घस्य पूरणम् दानम् । न पात्रन्युन्जीकरणं न संस्रवदानम् । ततो गन्धादिदानम् । नाग्नौकरणम् । पात्रालम्भो न भवतीति हलायुधमतम् । अन्येषां मते तु भवत्येव । अङ्गुष्ठस्यान्नेऽवगाहनम् । तिलविकिरणम् । परिवेषणम् । सङ्कल्पः । उदकदानम् । जपः । अन्नप्रकिरणम् । आचमनम् । उदकदानम् । जपो यथोक्तः । न स्वदितमिति तृप्तिप्रश्नः। सुस्वदितमिति ब्राह्मणा बेयुः । शेषान्नस्यानुज्ञापनादि पिण्डपूजान्तं च पूर्ववत् । एकः पिण्डो देयः । ततः सुप्रोक्षिताद्यक्षतदानान्तम् । अक्षय्योदकदानम् । उपतिष्ठतामित्यक्षय्यस्थाने । प्रार्थनादि उदकासेकान्तम् । दक्षिणादानम् । न विश्वदेवाः प्रीयन्तामिति प्रैषः । प्रार्थनापि न । तिलकम् । पिण्डप्रत्यवधानम् । सव्यम् । अवघ्राणम् । अग्निमत उल्मुकसकदाच्छिन्नयोरग्नौ प्रक्षेपः । पात्रचालनम् । सञ्चराभ्युक्षणम् । ततोऽद्य पूर्वोच्चरितेत्यादि । अभिरम्यतामिति विसर्जनम् । अभिरताः स्म इति प्रत्युक्तिः । अनुगमनम् । गृहप्रवेशः ।। इति नवकण्डिकागदाधरभाष्ये एकोद्दिष्टपद्धतिः । अथैकोद्दिष्टप्रसङ्गाक्रियापद्धतिलिख्यते-तत्र सायमाहुत्यां हुतायां यजमानस्य मरणशङ्का वेत्तदैव प्रातराहुतिर्दातव्या । जीवेत्पुनः काले प्रातराहुति व होतव्या । पौर्णमासट्यानन्तरं प्राग्दर्शाद्यदा यजमानस्य मरणशङ्का स्यात्तदैव पिण्डपितृयज्ञवर्जिताममावास्येष्टिं कुर्यात् । तत्पर्यन्तं पक्षहोमः । आह्रियमाणे हविपि चेम्रियेत तदा हविपो दक्षिणाग्नौ प्रक्षेपः । ग्रहणप्रभृतिप्राग्धविरासादनान्मरणं चेद्गार्हपत्ये हविपां दहनम् । आसादनोत्तरकालमाहवनीये । एवं वैश्वदेवपर्वणि कृते यजमानस्य मरणशङ्कायामवशिष्टपर्वणां समापन कार्यम् । सकलेट्यसंभवे वाऽऽज्यं संस्कृत्य पुरोनुवाक्यायाच्याभ्यां स्वस्वहविषा यागः कार्यः । तदसंभवे च केवलेनाज्येन चतुर्ग्रहीतेन प्रधानदेवतायागमानं कुर्यात् । तस्याप्यसंभवे प्रतिदैवतं पूर्णाहुतिंजुहुयात् । अग्नये स्वाहा विष्णवे स्वाहा इन्द्राय स्वाहेनि। असन्नयतस्तु अग्नये विष्णवे इन्द्राग्निभ्यामिति । एवं स्माते पक्षादि सकलङ्कर्म ज्ञेयम् । चरहोमासंभवे देवतानामाज्याहुतिमानं वा । यद्यमावास्यापर्यन्तं यजमानो जीवति तदाऽमावास्यायां दक्षिणाग्निमुद्धृत्य पिण्डपितृयज्ञः कार्यों नाम्यन्वाधानम् । न ब्रह्मासनम् । न चामावास्येष्टिः । कृतत्वात् । सर्वधर्म मरणान्तंभवति । कर्तुरसंभवात् । हविःप्रतिपत्तिविधानाच । अग्निहोत्रहोमेऽप्याहृते हविषि दक्षिणाग्नौ ग्रहणादिप्रागासादनाद्गार्हपत्ये दहनम् । आसादनाद्याहवनीये, एवमेव पशुयागसोमयागादावारब्धेऽन्तरा मरणशङ्कायां यथासंभवं समापनकार्यम् । मृते पुत्रादिः स्नातः कृतापसव्यः सकृत्सकृत्परिसमूहनादिसंस्कारान्कुर्यात् । गार्हपत्यादाहवनीयदक्षिणाग्न्योर्विहरणम् । तिस्र एव स्थालीरेष्टवै इत्यध्वर्युराह । गार्हपत्याहवनीयदक्षिणाग्निपु तिसृणां गोमयशंबलवतीनां मृन्मयीनामुखानामधिश्रयणम् । अत्र सर्वकर्मापसव्येन दक्षिणामुखेन कर्तव्यम् । सभ्यावसथ्ययोरुखाधिश्रयणं न कुर्यात् ।। तौ प्रत्यक्षावेव स्थाल्योर्मध्ये निधाय नीयेत । सर्वासु स्थालीपु चिह्नकरणम् । अथ मरणस्थाने एको द्दिष्टविधिना श्राद्धम्-तत्र सङ्कल्प. । मरणस्थाने एकोदिष्टाद्धमहङ्करिष्ये । उपहारप्रोक्षणम् ।।

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560