Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 498
________________ ४९२ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र 1 तस्य च श्रपणानुपदेशात्सिद्ध एवोपादीयते । होतुर्वखयुग्मं सुवर्णकांस्यादिदक्षिणा च । ब्रह्मणः पूर्णपात्र वरो वा दक्षिणा । इति पात्रासादनम् । चरुस्थालीमेक्षणयोरुपकल्पनम् । पवित्रकरणम् । प्रोक्षणीसंस्कारः । ततो यथाssसादितानां प्रात्राणां प्रोक्षणम् । असभ्चरे प्रोक्षणीनान्निधानम् । आज्यस्थाल्यामाज्य निर्वापः । चरुस्थाल्यां प्रणीतोदकं पय आसिच्य सपवित्रायां तण्डुलावाप: । ब्रह्मण आयाधिश्रयणम् । स्वयमेव चरोरधिश्रयणम् । उभयोः पर्यनिकरणम् स्रुवप्रतपनम् । स्रुवं संमृज्य I पुनः प्रतपनम् । प्रणीतोदकेनाभ्युदय देशे निधानम् आज्योद्वासनम् । उत्पूयावेक्षणम् । प्रोक्षण्युत्पवनम् । उपयमनकुशाढानम् | समिधोऽभ्याधानम् । प्रोक्षण्युदकेनं पर्युक्षणम् । तत इहरतिरिति पडाहुतीर्जुहुयात् । ॐ इहरति स्वाहा ॐॐॐ इह रमध्वः स्वाहा आँ धृतिः स्वाहा ॐॐॐ इह स्वधृतिः स्वाहा । एतेषामिदं पशुभ्यः इति त्यागः । इहरतिः पशुदेवत्य इति सर्वामुकमण्यामुक्तत्वात् । ॐ उपसृजन्धरुणम्मात्रे धरुणो मातरं धयन्स्वाहा । इदमग्नये । ॐ रायस्पोषमस्मासुदीधरत् स्वाहा । इदमग्नये । तत आधारावाज्यभागौ । ॐ प्रजापतये स्वाहा । ॐ इन्द्राय स्वाहा । ॐ अग्नये स्वाहा । ॐ सोमाय स्वाहा । ततः पायसचरोहोंमः । ॐ अग्नये स्वाहा ॐ रुद्राय स्वाहा । ॐ शर्वाय स्वाहा ॐ पशुपतये स्वा ॐॐ उग्राय स्वाहा ॐ अशनये स्वाहा ॐ भवाय स्वाहा ॐ महादेवाय स्वाहा ॐ ईशानाय स्वाहा । यथा दैवतं त्यागाः । ततः पिष्टचरुहोमः । ॐ पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । पूपा वाजान्सनोतु नः स्वाहा । इत्येकामाहुतिं जुहुयात् । इदं पूष्णे । ततः पायसपिष्टच - रुभ्यां स्विष्टकृत् । ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते ० । ततो भूराद्या नवाहुतयः । ॐॐॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा ॐ त्वन्नो अग्ने० ॐ सत्वन्नो अग्ने० ॐ अयाञ्चाग्ने० ॐ ये ते शतं० ॐ ॐॐ उदुत्तमम् ० भवतन्न० । ॐ प्रजापतये स्वाहा | संस्त्रवप्राशनम् । आ० पवित्राभ्यां मार्जनम् । अग्नौ पवित्रप्रतिपत्तिः । ब्रह्मणे पूर्णपात्रवरयोरन्यतरस्य दक्षिणात्वेन दानम् । प्रणीताविमोकः । ततोऽश्वत्थपत्रयुक्तकलशे रुद्रमावाह्य गन्धमाल्यादिभिः संपूज्य हस्तेन कलशं स्पृशन् रुद्राध्यायं जपेत् ततः पुरुषसूक्तम् । कुष्माण्डीसंज्ञिकम् । यद्देवादेव हेडनमिति तिस्रऋचः । पडसरुद्रजपो वा । गरुडपुराणवचनात् । ततो वृषवत्सतरीणां लापनम् अलङ्करणम् । चक्रत्रिशूलकरणम् । अङ्कनम् । वृपस्य कर्णे जपः । वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः । वृणे हितमहं भक्त्या समा रक्षतु सर्वतः । ततो गृहीतपुष्पाञ्जलिर्वृषं त्रिः प्रदक्षिणीकृत्य नमस्कुर्यात् । ततो वृषवत्सतरीणां वस्त्रेण संश्लेपः । अयं हि तो मया दत्तः सर्वासां पतिरुत्तमः । तुभ्यं चैता मया दत्ता परन्यः सर्वा मनोरमाः । ततश्चतुः कृत्वोऽग्निं प्रदक्षिणीकृत्य वत्सतरीणामग्निप्रदक्षिणाश्चतस्रः कारयित्वा पुच्छे पुरुसूक्तेन प्रेतनाम्ना च तर्पणं कार्यम् । तत उत्सर्गः । अद्येत्यादिदेशकालौ स्मृत्वा एतं वृषं रुद्रदैवतं यथाशक्त्यलंकृतं गन्धाद्यर्चितमेवंविधवत्सतरीसहितममुकगोत्रस्यामुकप्रेतस्य प्रेतत्वमुक्तयेऽहमुत्सृजामि । एवं युवानं पतिं वो ददामि तेन क्रीडन्तीश्चरथ प्रियेण । सा नः साप्तजनुषा सुभगा रायस्पोषेण समिषा मदेमेति सव्येन पाणिना वृषपुच्छं गृहीत्वा दक्षिणेन कुशतिलसहिता अप आदाय अमुकगोत्रायामुकप्रेताय एष एवं मया दत्तः सन्तारयितुं सर्वदा इत्युच्चार्य तिलहिरण्यसहितमुदकं भूमौ निक्षिपेत् । ततो वत्सतरीमध्यस्थितस्य वृषस्य मयोभूरभिमा वाहिस्वाहेत्यादि स्वर्णसूर्यः स्वाहेत्यन्तेनानुवाकशेपेणाभिमन्त्रणम् । ततो दक्षिणस्कन्धेन वृपप्रेरणम् । यथेष्टपथं पर्यटेति । ततः शक्त्यनुसारेण पायसेन ब्राह्मणानां भोजनम् । सहिरण्यस्य रुद्रकुम्भस्य घेनोश्च होत्रे प्रदानम् । इति वृषोत्सर्गः ॥ ॥ ततस्तन्त्रेण चत्वारि श्राद्धानि । आद्यन्नवश्राद्धं प्रथमदिनवत् । तदुक्तहरुडपुराणे स्मृतौ च -- प्रथमेऽह्नि तृतीये वा पञ्चमे सप्तमेऽपि वा । नवमैकादशे चैव नवश्राद्धानि कारयेत् इति । पूर्वदिवसमारभ्य न कृत चेदेकाशे हि कुर्यात् । नवश्राद्धानामन्त्यमासिकानामाद्यं स्वतन्त्र मे कोद्दिष्टमेवेति तत्र स्वतन्त्रैकोद्दिष्टे क्रियमाणे

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560