Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 432
________________ ४२६ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र 1 रब्दत्येह निर्वपेत् । हेमन्तग्रीष्मवषासु पाञ्चयज्ञियमन्वहम् " ऋत्वपेक्षया हेमन्तग्रीष्मवर्षास्विति यदुक्तं तद्विवेचित्तम् मत्स्यपुराणे । अनेन विधिना श्राद्धरिव्यस्येह निर्वपेत् । कन्याकुम्भ वृपस्थेऽर्के कृष्णपक्षेषु सर्वदा । कन्यासम्वन्धिनि ऋतुपक्षेऽयं विशेष: । तस्या उभयथा संकीर्तनमस्ति कापि प्रोष्ठपदाद्यपरपक्षत्वेन क्वाप्याश्वयुकृष्णपक्षत्वेन । तथा च विष्णुधमोंत्तरे मार्कण्डेयः । उत्तरात्वयनाच्छ्राद्धे श्रेष्टं स्याद्दक्षिणायनम् । चातुर्मास्यश्च तत्रापि प्रसुप्ते केशवेऽधिकम् । प्रोष्ठपद्यपरः पक्षस्तत्रापि च विशेषतः । पञ्चम्यूर्व्वं ततश्चापि दशम्यूर्ध्व ततोऽप्यति । शस्ता त्रयोदशी राजन् मघायुक्ता ततोऽधिका । शङ्खेनाप्युक्तम् । प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं हि कर्तव्यं मधुना पायसेन तु । ब्रह्मपुराणे । आश्वयुकृष्णपक्षस्य श्राद्धं कार्यन्दिने दिने । त्रिभागहीनं पक्षं वा त्रिभागं त्वर्द्धमेव वा । आश्वयुज्याश्च कृष्णायां त्रयोदश्यां मधासु च । प्रावृद्धृतौ यमः प्रेतान्पितॄंश्चापि यमालयमिति । त्रिभागहीनमिति प्रतिपदादिचतुष्टयं चतुर्दशीञ्च विहाय पञ्चम्यादिपक्ष उक्तः । त्रिभागमिति पक्षतृतीयभागम् अनेन दशम्यादिरुक्तः । अर्द्धमिति अष्टम्यादि यथाशक्ति कुर्यादापरपक्षिकमिति । प्राच्यास्तु | पञ्चम्यूर्ध्वश्च तत्रापि दशम्यूत्रं ततोऽप्यति इति विष्णुधर्मोत्तरवाक्यैकवाक्यत्वाय त्रिभागहीनं पष्ट्यादिविभागमेकादश्यादीत्याहुः । यत्तु तैरर्द्धमित्यस्य तृतीयभागाद्धै त्रयोदश्यादीत्येवं व्याख्यानङ्कृतम्, तत्पक्षमित्यस्यानन्वयदोपपत्तेरुपेक्ष्यमिति कमलाकरभट्टाः । सूत्रे कुर्वीतेति विधायकं पदम् । अथेदानी विचार्यते । कि श्राद्धे सान्निकस्यैवाधिकार उत निरग्निकस्यापीत्यन्न कर्काचार्येण निर्णीतम् । अनौकरणरूपस्याङ्गस्याग्न्यधिकरणत्वात्तदुपसंहारं साग्निकस्यैव शक्तिर्तेतरस्य “ न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते " इति निषेधात् । अन्त्र च दारसङ्ग्रहपूर्वकङ्कर्माचसध्याधानं तत्पूर्विका च कर्मान्तरप्रवृत्तिरित्यतोऽपि नानग्निमतोऽधिकार इति । I तूक्तम् अग्न्यभावेऽपि विप्रस्य पाणावेवोपपादयेदिति तदप्यकृतावसथ्याभ्युदयिकविपयम् । अनग्निमतोऽपि श्राद्धेऽधिकार इत्येवं विधा प्रसिद्धिस्तु इह वृक्षे यक्षस्तिष्ठतीतिवदनिश्चितमूलेति नानग्निमतः श्राद्धाधिकारे प्रमाणमिति । तदिदमनुपपन्नम् । नित्यनैमित्तिकेषु हि यथा शक्नुयात्तथा कुर्या - दिति न्यायात्सर्वाङ्गोपसंहाराशक्तस्याप्यधिकारात् । अग्न्यभावे तु पाणौ होमविधानात् । अस्य विधानस्य चोक्तविपयविशेपव्यवस्थायाः प्रमाणशून्यत्वात् । सन्ति चाग्नौकरणरहितानि श्राद्धानि तेष्वधिकारानिवृत्तेश्च । स्त्रीशूद्रानुपनीतानामपि श्रद्धोपदेशात्सानिकानग्निकोभयाधिकारेण विहितं श्राद्धं सिद्धमिति हेमाद्रिः । अपरपक्षे प्रतिपत्प्रभृतिदर्शान्तं प्रत्यहङ्कर्तव्यमित्युक्त्वाऽधुना पक्षान्तरमाह । 'ॐ वा चतुर्थ्याः ' वाशन्दो विकल्पार्थः । चतुर्थ्या ऊर्द्धमुत्तरकालं पश्चमीप्रभृति वा कुर्यात् । तदुक्तङ्क्षौतमेन । अथ श्राद्धममावस्यायां पञ्चमीप्रभृति वाऽपरपक्षस्येति । मनुस्मृतौ विशेपः । कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतरा इति । तिथिविषयकं पक्षान्तरमाह । ' यदहः संपद्येत तदहर्ब्राह्मणानामन्त्र्य पूर्वेद्युर्वा ' तत्र चतुर्दशी विना सर्वासु तिथिषु पचम्यादिपु वा तदहर्यस्मिन्नहनि द्रव्यत्राह्मणयोः सम्पत्तिः स्यात्तदहस्तस्मिन्नहनि यथोदितान्त्राणानामन्त्र्य श्राद्धं कुर्यात् । अथ वा यद्दिने मृताहसंज्ञिका तिथिरपरपक्षे स्यात्तदहे पूर्वेद्युर्वा ग्राह्मणानिमन्त्र्य श्राद्धं कुर्यादिति सम्बन्धः । तथा च पुराणसमुच्चये । या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते । सा तिथिः प्रेतपक्षस्य पूजनीया प्रयत्नत इति । यदहरिति विभत्त्यर्थेऽव्ययीभावः । नपुंसकादन्यतरस्यामिति(न)ढच्प्रत्ययः । ब्राह्मणग्रहणं क्षत्रियादिप्रतिपेधार्थम् । पूर्वेद्युर्वेति व्यवस्थितचिकल्पः । असम्भावितमैथुनान् यत्यादींस्तदहरामन्त्रयेत् । अङ्गाना प्रधानधर्मत्वादिति न्यायेन । सम्भावितमैथुनान् पूर्वेद्युरेवेति व्यवस्था । एतच व्यक्तीकृतं मार्कण्डेयपुराणं । निमन्त्रयेत्तु पूर्वशः पूर्वोक्तानु द्विजोत्तमान् । आप्राप्तौ तद्दिने वाऽपि हित्वा योषित्प्रसनिमिति । स्मृति. । प्रार्थयीत प्रोपान्ते

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560