Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 485
________________ fore ३] परिशिष्टम् । Yué अवनेज्येति स्वार्थिको णिच् । दद्यादिति स्मृत्युक्तवाक्यं दर्शयति गोत्रादिप्रकाशकम् । ततश्च सर्वमदनीयमेकपात्र उद्धृत्य पत्न्या पिण्डास्तु मुङ्गीयात्रिवर्गस्य सहायिनीति । अत्र यद्यपि सामान्येन सर्वमित्युक्तं तथापि मापान्नवर्ज द्रष्टव्यम् । तथा च वृद्धयाज्ञवल्क्यः - माषान् सर्वत्र नैवेद्ये पिण्डेन च विवर्जयेत् । यथा मद्यं तथा मापा निषिद्धाञ्चाग्निपिण्डयोरिति । अन्नैतत्संदिद्यते पिण्ड • पितृयज्ञवदुपचारः पित्र्य इत्यवनेजयत्यपसव्यं सव्येन वोद्धरणसामर्थ्यादसाववनेनिक्ष्वेति यजमा - नस्य पितृप्रसृतित्रीनुपमूलधं सकृदाच्छिन्नानि रेखायां कृत्वा यथावनिक्तं पिण्डान्ददात्यसावेतत्त इत्यादि । अनैक आहुः पिण्डपितृयज्ञे लेखायामेवाव निज्य दर्भेषु पिण्डदानमिह तु दुर्भेष्वेवावनेजनमित्येतदर्थमिति । तथाच - अपः क्षिपेन्मूलदेशेऽवने निक्ष्वेति पात्रतः । परिसंख्योपलक्षणे न स्याताम् । ततश्च पिण्डपितृयज्ञवदेव पिण्डदानमिति हलायुधाभिप्रायः । कर्कोपाध्यायास्तु उच्छिष्टसामीप्योपदेशान परिसंख्येत्याहुः । एवं च सति कथमियं पुनरुक्तिः सूक्तेति । अत्रोच्यते---यदुक्तं कुशोपर्य - वनेजनार्थं पुनरुक्तिरिति तदयुक्तं तथाविधावनेजनस्य छन्दोगविषयत्वात् । तथा च तत्परिशिष्टम् -- प्रागप्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् । अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिला: । इति । प्रागग्रत्वं निस्तिलत्वं च वृद्धिश्राद्धविषयम् । न च तथा शङ्कनीयम् । अवनेज्य दर्भेषु दद्यादित्यन्वयप्रतिभानात् । तथा च पिण्डपितृयज्ञसूत्रम् असाववनेनिक्ष्वेत्यादि । अपि च कात्यायनस्कन्दसंवादवचनम् --- नामगोत्रे समुच्चार्य प्रदद्यादवनेजनम् । कुशैरास्तरणं कुर्याद्दक्षिणायैस्ततः परम् । द्विगुणांस्तु कुशान्कृत्वा सतिलानर्घसंयुतान् । अवनेनिक्ष्व चोक्वाथ कुशान् भूमौ परिस्तरेदिति । यत्त्वभिहितमुपलक्षणपरिसंख्ये इति तदुभयमपि हलायुधेनैव दूषितमित्युपेक्षणीयम् । न च तथेष्टम् 1 वेद्यादिकरणोपपत्तेः । तथा च देवलः -- मण्डलं चतुरस्रं वा दक्षिणावर्तकं महत् । एकदुर्भेण तन्मध्य उल्लिखेत्रिश्च तं त्यजेत् । ब्रह्माण्डेऽपि — सव्योत्तराभ्यां पाणिभ्यां कुर्यादुलेखनं बुधः । वत्रेणाथ कुशैर्वापि उल्लिखेत्तु महीं द्विजः । इति । यश्च हलायुधेनैव पिण्डपितृयज्ञवत्पिण्डदानविधिरित्युक्तं तत्पौनरुक्त्या परिहारा - द्विषयान्तरानुपलब्धेश्च मन्दमिवाभाति । पिण्डपितृयवदुपचार इत्यनेनैव तद्विधेः प्राप्तत्वात् । तस्माद्विषयान्तरबोधनेन पौनरुक्त्यं परिहर्तव्यम् । तद्यथा — पिण्डपितृयज्ञवदित्यतिदेशो यद्यपि साग्निनिरन्योरविशेषेण प्राप्तस्तथाऽपि निरग्नेर्विषयान्तरदर्शनाद्यथोचितं साग्निपर एव । तस्यैव सर्वागोपसं हारस्य न्याय्यत्वात् । निरग्नेस्तु हस्तानौकरणादिविषयान्तरदर्शनात्तदर्थमेवैतत्सूत्रारम्भ इत्यपुनरु क्तिः । अतश्च निरग्नेरुपमूललूनकुशादिप्रतिषेधार्थमिदं सूत्रमिति सिद्धम् । तेन निरग्नेर्महालयादिश्राद्वेषूपमूललूनकुशास्तरणं हस्तद्वयेनावनेजनमेतत्तेऽन्नं स्वधेति प्रयोगश्च न भवतीत्यर्थः । तथा च श्रुतिः साग्नेरासनादौ समूलता पिण्डेषु सकृदाच्छिन्नतेति । किं च समूलस्तु भवेदर्भ इति प्रागुक्तम् । यत्तु शातपथश्रुतौ — सकृदाच्छिन्नान्युपमूलं दितानि भवन्तीत्युक्तं तदपि साग्निपरमेव । सुमन्तुरपि - असाववनेनिक्ष्वेति प्रतिपुरुषं त्रिखिरेकेन हस्तेन विदधीतावनेजनम् । अपसव्येन हस्तेन निर्वपेदुदकं भुवीति मनूक्तेश्च । तथा श्रद्धे पिण्डे विवाहेच दाने चैकेन दीयते । तर्पणे तूभयेनैव जलं देयं तु नान्यथेति । धर्मप्रदीपेऽपि गङ्गायां दशपिण्डे च पिण्डशब्दो विधीयते । अतोऽन्यत्रान्नशब्दः स्यादङ्गादिपु सरित्सु च । चशब्दो महालयादिसमुच्चयार्थः । तथा च हेमाद्रिपद्धती - महालये गया श्राद्धे प्रेतश्राद्धे दशाहिके । पिण्डशब्दप्रयोगः स्यादन्नमन्यत्र कीर्तयेदिति । अत्रैक आहु:- असावेतत्त इति श्रुत्या सूत्रकृता चैतत्त इत्युक्तत्वाद्वाजसनेयिनां पिण्डेषु नपुंसकप्रयोग: । अन्ये तु पिण्डशव्ददर्शनाप ते पिण्ड. स्वधेति सर्वत्र प्रयोग इत्याहुः । तदुभयमपि विषयानवलोकननिवन्धनमित्यवगन्तव्यम् । अतश्च विहितेषु पिण्डशब्दस्तदतिरिकेष्वन्नशब्द इति सूक्तम्। यदि तु श्रुतिविरुद्धभियैतस्मिन् विषये विचिकित्सा तहों प्रयोगोऽस्तु - एतत्ते पिण्डान्नं स्वधेति । तथाच श्राद्धकल्पलतायां

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560