________________
fore ३]
परिशिष्टम् ।
Yué
अवनेज्येति स्वार्थिको णिच् । दद्यादिति स्मृत्युक्तवाक्यं दर्शयति गोत्रादिप्रकाशकम् । ततश्च सर्वमदनीयमेकपात्र उद्धृत्य पत्न्या पिण्डास्तु मुङ्गीयात्रिवर्गस्य सहायिनीति । अत्र यद्यपि सामान्येन सर्वमित्युक्तं तथापि मापान्नवर्ज द्रष्टव्यम् । तथा च वृद्धयाज्ञवल्क्यः - माषान् सर्वत्र नैवेद्ये पिण्डेन च विवर्जयेत् । यथा मद्यं तथा मापा निषिद्धाञ्चाग्निपिण्डयोरिति । अन्नैतत्संदिद्यते पिण्ड • पितृयज्ञवदुपचारः पित्र्य इत्यवनेजयत्यपसव्यं सव्येन वोद्धरणसामर्थ्यादसाववनेनिक्ष्वेति यजमा - नस्य पितृप्रसृतित्रीनुपमूलधं सकृदाच्छिन्नानि रेखायां कृत्वा यथावनिक्तं पिण्डान्ददात्यसावेतत्त इत्यादि । अनैक आहुः पिण्डपितृयज्ञे लेखायामेवाव निज्य दर्भेषु पिण्डदानमिह तु दुर्भेष्वेवावनेजनमित्येतदर्थमिति । तथाच - अपः क्षिपेन्मूलदेशेऽवने निक्ष्वेति पात्रतः । परिसंख्योपलक्षणे न स्याताम् । ततश्च पिण्डपितृयज्ञवदेव पिण्डदानमिति हलायुधाभिप्रायः । कर्कोपाध्यायास्तु उच्छिष्टसामीप्योपदेशान परिसंख्येत्याहुः । एवं च सति कथमियं पुनरुक्तिः सूक्तेति । अत्रोच्यते---यदुक्तं कुशोपर्य - वनेजनार्थं पुनरुक्तिरिति तदयुक्तं तथाविधावनेजनस्य छन्दोगविषयत्वात् । तथा च तत्परिशिष्टम् -- प्रागप्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् । अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिला: । इति । प्रागग्रत्वं निस्तिलत्वं च वृद्धिश्राद्धविषयम् । न च तथा शङ्कनीयम् । अवनेज्य दर्भेषु दद्यादित्यन्वयप्रतिभानात् । तथा च पिण्डपितृयज्ञसूत्रम् असाववनेनिक्ष्वेत्यादि । अपि च कात्यायनस्कन्दसंवादवचनम् --- नामगोत्रे समुच्चार्य प्रदद्यादवनेजनम् । कुशैरास्तरणं कुर्याद्दक्षिणायैस्ततः परम् । द्विगुणांस्तु कुशान्कृत्वा सतिलानर्घसंयुतान् । अवनेनिक्ष्व चोक्वाथ कुशान् भूमौ परिस्तरेदिति । यत्त्वभिहितमुपलक्षणपरिसंख्ये इति तदुभयमपि हलायुधेनैव दूषितमित्युपेक्षणीयम् । न च तथेष्टम् 1 वेद्यादिकरणोपपत्तेः । तथा च देवलः -- मण्डलं चतुरस्रं वा दक्षिणावर्तकं महत् । एकदुर्भेण तन्मध्य उल्लिखेत्रिश्च तं त्यजेत् । ब्रह्माण्डेऽपि — सव्योत्तराभ्यां पाणिभ्यां कुर्यादुलेखनं बुधः । वत्रेणाथ कुशैर्वापि उल्लिखेत्तु महीं द्विजः । इति । यश्च हलायुधेनैव पिण्डपितृयज्ञवत्पिण्डदानविधिरित्युक्तं तत्पौनरुक्त्या परिहारा - द्विषयान्तरानुपलब्धेश्च मन्दमिवाभाति । पिण्डपितृयवदुपचार इत्यनेनैव तद्विधेः प्राप्तत्वात् । तस्माद्विषयान्तरबोधनेन पौनरुक्त्यं परिहर्तव्यम् । तद्यथा — पिण्डपितृयज्ञवदित्यतिदेशो यद्यपि साग्निनिरन्योरविशेषेण प्राप्तस्तथाऽपि निरग्नेर्विषयान्तरदर्शनाद्यथोचितं साग्निपर एव । तस्यैव सर्वागोपसं हारस्य न्याय्यत्वात् । निरग्नेस्तु हस्तानौकरणादिविषयान्तरदर्शनात्तदर्थमेवैतत्सूत्रारम्भ इत्यपुनरु क्तिः । अतश्च निरग्नेरुपमूललूनकुशादिप्रतिषेधार्थमिदं सूत्रमिति सिद्धम् । तेन निरग्नेर्महालयादिश्राद्वेषूपमूललूनकुशास्तरणं हस्तद्वयेनावनेजनमेतत्तेऽन्नं स्वधेति प्रयोगश्च न भवतीत्यर्थः । तथा च श्रुतिः साग्नेरासनादौ समूलता पिण्डेषु सकृदाच्छिन्नतेति । किं च समूलस्तु भवेदर्भ इति प्रागुक्तम् । यत्तु शातपथश्रुतौ — सकृदाच्छिन्नान्युपमूलं दितानि भवन्तीत्युक्तं तदपि साग्निपरमेव । सुमन्तुरपि - असाववनेनिक्ष्वेति प्रतिपुरुषं त्रिखिरेकेन हस्तेन विदधीतावनेजनम् । अपसव्येन हस्तेन निर्वपेदुदकं भुवीति मनूक्तेश्च । तथा श्रद्धे पिण्डे विवाहेच दाने चैकेन दीयते । तर्पणे तूभयेनैव जलं देयं तु नान्यथेति । धर्मप्रदीपेऽपि गङ्गायां दशपिण्डे च पिण्डशब्दो विधीयते । अतोऽन्यत्रान्नशब्दः स्यादङ्गादिपु सरित्सु च । चशब्दो महालयादिसमुच्चयार्थः । तथा च हेमाद्रिपद्धती - महालये गया श्राद्धे प्रेतश्राद्धे दशाहिके । पिण्डशब्दप्रयोगः स्यादन्नमन्यत्र कीर्तयेदिति । अत्रैक आहु:- असावेतत्त इति श्रुत्या सूत्रकृता चैतत्त इत्युक्तत्वाद्वाजसनेयिनां पिण्डेषु नपुंसकप्रयोग: । अन्ये तु पिण्डशव्ददर्शनाप ते पिण्ड. स्वधेति सर्वत्र प्रयोग इत्याहुः । तदुभयमपि विषयानवलोकननिवन्धनमित्यवगन्तव्यम् । अतश्च विहितेषु पिण्डशब्दस्तदतिरिकेष्वन्नशब्द इति सूक्तम्। यदि तु श्रुतिविरुद्धभियैतस्मिन् विषये विचिकित्सा तहों प्रयोगोऽस्तु - एतत्ते पिण्डान्नं स्वधेति । तथाच श्राद्धकल्पलतायां