________________
४७८ पारस्करगृह्यसूत्रम्
[श्राद्धसूत्रसर्वे प्रष्टव्या इति । तथा च यमः-यथा युस्तथा कुर्यादनुज्ञातस्तु तैर्द्विजैरिति । अत्रैतञ्चिन्त्यतेभोक्तविप्राणां वमने किं श्राद्धं समापनीयमुत किं कर्तव्यमिति । अत्रैके समापनीयमित्याहुः । तद्युक्तम् । तस्य स्मृतिविरुद्धत्वात् । तथा च हेमाद्रिकल्पे-अकृते पिण्डदाने तु ब्राह्मणो वमते यदि । पुनः पाकं प्रकुर्वीत श्राद्धं कुर्याद्यथाविधि । धर्मप्रदीपेऽपि-अकृते पिण्डदाने तु भुञ्जानो ब्राह्मणो वमेत् । पाकं कृत्वा पुनः श्राद्ध कर्तव्यं तु यथाविधीति । आत्राकृत इत्युपादानात्कृते समापनमिति चेत्, मैवम् । वमनस्य श्राद्धविनरूपोपपातकत्वात् । अतश्चोत्तरेयुरेव पुनः श्राद्धमित्युचितम् । तथा च स्मार्तलिङ्गम्-वमने वा विरेके वा तद्दिनं परिवर्जयेदिति । न चैतन्निमन्त्रणानन्तरं श्राद्धात्पूर्व वमनविपयमिति वाच्यम् । श्राद्धविन्ने समुत्पन्ने अन्तरा मृतसूतके । वदन्ति शुद्धौ तत्कायै दशैं वापि विचक्षणाः । इति उत्तरेयुर्विधानोपपत्तेः । दाक्षिणात्याः पुनरत्र प्रायश्चित्तमाहुः । तथा च पठन्ति, पित्र्यद्विजानां मध्ये तु पितुश्च वमनं यदि । तहिने चोपवासश्च पुनः श्राद्धं परेऽहनीति । सर्वमन्नं समादाय मन्त्रैः प्राणादि पञ्चकैः । द्वात्रिंशदाहुती त्या शेपं कर्म समाचरेदिति । अवानूचानाः प्रमाणम् । 'तृप्ताः स्म इत्यनुज्ञातः शेपमन्नमनुज्ञाप्य' ततस्तृप्ताः स्मेति द्विजैरुत्त्वा शेषमन्नं किं क्रियतामिति भोक्तृन्पृष्टवा इटैः सह भुज्यतामिति अनुज्ञापयेदित्यर्थः । एतदपि सर्वापेक्षं न पत्रिमूर्धन्यस्यैव । ननु च श्राद्धार्थोद्धृतपाक एव शेषशब्दः न पाकान्तरे तत्कथं पाकांतरभोजनं तदानं चेति । उच्यतेगृहसिद्धस्य सर्वस्यापि शेषत्वेन दानभोजनत्वापत्तेः । तथा च यमः-भक्ष्यं भोज्यं तथा पेयं यत्किचित्पच्यते गृहे । न भोक्तव्यं पितॄणां तदनिवेद्य कथंचनेति । अतश्च शेपस्यापि पितुरुद्देशेन दानमित्युक्तम् । अत्रैतचिन्त्यते-किं निरग्नेरुल्मुकनिधानं स्यादुत नेति । अत्रैक आहुः-उल्मकस्य दक्षिणाग्निसंभूतत्वात्तदभाव उन्मुकं नेति । अन्येत्वाहुः-पिण्डपितृयज्ञस्य विहितत्वात्स्मार्ताग्नेन, न च निरमेरिति । अपर आहुः-न देवताग्निशब्दक्रियाः परार्थत्वादिति पारिभाषिकसूत्रान्निषिद्धत्वादग्न्यन्तरेण न स्यादिति । निरनेरपि श्राद्धाधिकारित्वान्निषादस्थपतीष्टिवल्लौकिकाग्नेरविरुद्धत्वात्तदग्मिनेत्येके । एवं च सति उल्मुकनिधानमनियतमिति । अनोच्यते यदुक्तं दक्षिणाग्नेरभावे तन्नेति तद्युक्तम् । पिण्डपितृयज्ञवदुपचार इत्यनेन स्मातग्नेिः प्राप्तत्वात् । यच्चोक्तं-पितृयज्ञेऽस्य विहितत्वा निरग्नेर्नेति । तदप्यसारम् । अकरणे प्रत्यवायस्मरणान्नित्यत्वोपलब्धः । यच्चाभिहितं न देवताग्नीत्यादिनाग्नेः प्रतिनिधिर्नेति तदप्यनुचितम् । पिण्डपितृयज्ञवदित्यतिदेशेन लौकिकाग्न्युपादानस्य वैयर्यापत्तेः । यच्चानायि निषादस्थपतीष्टिवदविरुद्धमिति तदपि नित्यत्वानुपलब्धेर्न संतुष्टिकरम् । तस्माद्गुणफलविधेरुल्मुकनिधानं साग्निनिरग्न्योर्नित्यमिति सिद्धम् । तथा च वृद्धयाज्ञवल्क्यः-पितृरूपास्त असुराः पिशाचा राक्षसाश्च ये । तेषां वै रक्षणार्थाय क्षिपेदग्नि तु नैत्रते । मण्डलेष्वग्निदाहं ये न कुर्वन्ति द्विजोत्तमाः । निराशाः पितरस्तेषां पैशाचं श्राद्धमुच्यते । स्कन्दसंवादे-ये रूपाणीतिमन्त्रेण न्यसेदुल्मुकमन्तिके । शुष्कगोमयसंभूतं यावच्छ्राद्धं समाप्यते । अजीर्णदोपनाशाय पितृणामग्निवर्धनम् । श्रुतिरपि स यदनिधायोल्मुकमथैतपितृभ्यो दद्यादसुरक्षसानिहेषामेतद्विरनीरं तथोहैतत्पितॄणामसुररक्षसानि न विमग्नते, तस्मात्पुरस्तादुल्मुकं निदधातीति । 'सर्वमन्नमेकतोद्धृत्योच्छि• टसमीपे दर्भेपु त्रीस्त्रीन्पिण्डानवनेज्य दद्यात्। एकतोद्धत्येति छान्दसः सन्धिः । सर्वशब्दः सूपाद्यपेक्षो न यावद्वाचकः । उच्छिष्टसमीप इति सद्देशोपलक्षणं पारिभाषिकम् । तथा चात्रिः-पितॄणामासनस्थानादप्रतस्त्रिरनिच्छर । उच्छिष्टसंनिधाने नोच्छिष्टासनसंनिधौ । व्यासोऽपि-अरनिमात्रमुत्सृज्य पिण्डांस्तत्र प्रदापयेत् । यत्रोपस्पृशतां वापि प्राप्नुवन्ति न बिन्दव इति । अत्र यथासंभवं विकल्पः-विकरपिण्डविवक्षयासनस्थानाततोदुच्छिष्टं ततो विकरस्ततः पिण्डा वा त्रिरात्रिव्यवस्था वा । व्याममात्रं समुत्सृज्य पिण्डांस्तत्र प्रदापयेदिति जातूकर्ण्यवचनात् । वीप्सा मातामहविपया ।