________________
४८०
पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रएतत्ते, पिण्डानमित्यलं प्रपञ्चेन । एतच्च पिण्डदानं प्रत्येकमेकश्वासेन कार्यम् । यावदेवोचरेन्मन्त्रास्तावप्राणान्निरोधयेदिति वचनात् । अत्रैतच्चिन्त्यते-किं पिण्डपतयः प्रागुपक्रमाः पश्चादपवर्गा उत पश्चादुपक्रमाः प्रागपगर्वा इति। अत्रैक आहुः-पूर्वभागे पित्रादिवर्गास्तरणं पश्चाद्भागे तुमात्रादिवर्गार्थमित्यास्तम्बगृह्यवचनात्स्त्रीभ्यश्च पिण्डा इह पश्चिमाः स्युरिति भाज्यार्थसंग्रहकारवचनाच्च पश्चादपवर्गा, इति । तथा पिण्डान्पश्चिमेन तत्पत्नीनां किंचिदन्तर्धायेति शासायनगृह्यादपीति । अन्ये वाहःपित्र्यकर्सत्वात्पतीनां प्राक् संस्थताया अनुपपत्तेः प्रत्यक्संस्थैवेति । अत्रोच्यते-यदुक्तं प्रागुपक्रमा इति तत्र तथा सति पिन्यकर्मणि प्रदक्षिणोपचारः स्यात् । पितृणामप्रदक्षिणमित्यादिवचनाना च वैयर्थ्यांपत्तेः । द्वितीयेऽपि स एव दोषः । न चैवमिष्टं 'प्रत्यगुपक्रमाः प्रागपवर्गाः पितृब्राह्मणसंस्था भवन्ति दक्षिणदिगुपक्रमा उद्गपवर्गा वैश्वदेवद्विजसंस्था भवन्ति' इति वौधायनेन ब्राह्मणोपवेशनस्मृत्या पसीनामपि तथैव ज्ञापितत्वात् । अन्यथा वैपन्यथाव्युत्क्रमोपपत्तेः। सदाचारादपि प्रासंस्थतैवेति । यत्त्वापस्तम्बादिगृह्यद्वयं यच्च अग्नेर्दक्षिणदेशे तु स्थानं कुर्वीत सैकतम् । मण्डलं चतुरखं वा दक्षिणावनतं, तथा । तत्र स्थाने ततो दर्भानेकमूलान्छिवान्वहून् । दक्षिणायानुदक्यान्द्विधा तांस्तृणुयात्समम् । पूर्वभागस्थदर्भपु पितृपिण्डान्विनिक्षिपेत् । पश्चात्स्तृतेपु दूर्भेषु मातृपिण्डान्विचक्षणः । इति वृद्धवसिष्ठवचनं तत्तच्छाखिनामेवेत्यविरोधा । पुनश्चिन्त्यते-किं पिण्डानां प्रमाणं नियतमुतानियतमिति । अत्रैक आहुः-कपित्थविल्वमात्रांश्च दद्यादामलकै समान् । कुकुटाण्डप्रमाणं वा वदरेण समानथ । नालिकेरसमान्वापि अधिकान्न प्रदापयेत् । प्रमाणमेतत्पिण्डानामशिरा मुनिरब्रवीत् । इत्यनेन विकल्पितत्वादनियतमिति । तद्युक्तम् । अस्य वचनस्य श्राद्धविशेपविषयत्वेन व्यवस्थितत्वात् । तथा च मरीचि:-आमलकमात्रांस्तु पिण्डान् कुर्वीत पार्वणे । एकोद्दिष्टे विल्वमानं पिण्डमेकं तु निर्वपेत् । नवश्राद्धे स्थूलतरं तस्मादपि तु निर्वपेत् । तस्मादपि स्थूलतरमाशीचे प्रतिवासरमिति । अत्रैक आक्षिपन्तिपिण्डदानं केवलपिण्डैरेव न भुग्नकुशैरिति । तद्युक्तम् । अंशभागिपत्नीनां कुशैरेव श्वशुरान्तर्धानोपपत्तेः । तथा-श्वशुरस्याग्रतो यस्माच्छिरःप्रच्छादनक्रिया। पुत्रैर्दभैण सा कार्या मातुरभ्युदयार्थिभिरिति । मत्स्यपुराणेऽपि-ततः कृत्वान्तरे दद्यात्तत्पत्नीभ्यः कुशान्बुधः । इति । 'आचान्तेष्वित्येके' एकग्रहणं स्वस्वशाखोक्तविधिज्ञापनार्थम् । मुनिभिभिन्नकालं तु पिण्डदाने तु यत्स्मृतम् । तत्स्वशाखागतं यत्र तत्तत्कुर्याद्विचक्षणः। इतिवचनात् । संग्रहकारोऽपि-यान्यत्र कालभेदेन कर्माणि मुनयो जगुः । स्वस्वगृह्यानुसारेण विकल्पं तेपु युज्यते । इति । ततश्चाचान्तेषु द्विजेषु पिण्डदानमित्येक मन्यन्ते । न कात्यायन इत्यर्थः । विकल्प एवायमिति कर्कादयः । अत्रैतत्संदिह्यते-कि लेपमुजां दर्भमूलेपु दद्यादुत दर्भाग्रेष्विति । अत्रैक आहुः-दर्भमूले लेपमुजः प्रीणयेल्लेपघर्षणैरित्यादिवचनादभमूलेष्विति । तद्युक्तम् । लेपभाजश्चतुर्थाद्या इति मात्स्यवचनेन चतुर्थपुरुषादीना लेपभागित्वेन दर्भमूले वैपम्योपपत्तेः । मार्कण्डेयोऽपि-लेपसंबन्धितश्चान्ये पितामहपितामहादिति । एवं तर्हि तदर्भमूले लेप भुञ्जत इत्यर्थकमिति चेत् । न । अतश्च कराववर्षणविषयत्वात् । तथा च विष्णुः-दर्भमूलेपु करावघर्पणमिति, । अतश्च दर्भाग्रेषु लेपभुजां दत्वा दर्भमूलेपु करप्रोञ्छनमित्यविरोधः । तथा च याज्ञवल्क्यः-दत्ते पिण्डे ततो हस्तं त्रिज्यालेपभागिनाम् । कुशाग्रे संप्रदातव्यं प्रीयन्तां लेपभागिनः इति । पठन्ति च-उत्तरे कुशमूलं तु पितृमूलं तु दक्षिणे । कुशमूलेपु यो दद्यानिराशाः पित. रो गताः । ददाति लेपभागेभ्यः पिण्डानामग्रतः सदा । प्रपितान्ते च यो दद्यात्तृप्तिः पञ्चदशाहिकीति । 'आचान्तेपूदकं पुष्पाण्यक्षतानक्षय्योदकं च दद्यात्। चकारः शास्त्रान्तरोक्तमन्त्रैरुदकादिदानार्थः । तथा च पुराणम्-- अपांमध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् । ब्राह्मणस्य कर न्यस्ताः शिवा आपो भवन्तु मे । इत्युदकदानम् । लक्ष्मीसति पुष्येषु लक्ष्मीवसति पुष्करे ,लक्ष्मीवसति