________________
कण्डका ३]
परिशिष्टम् ।
४८१
गोष्ठेषु सौमनस्यं सदाऽस्तु मे । इत्यादिना पुष्पादिदानम् | अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिर्मम | यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा ममेत्यक्षतदानम् । एतच यज्ञोपवीतिना वोध्यम् । आशीरूपत्वात् । तथा सुप्रोक्षितादि यत्कर्म तत्कर्तव्यं यवादिना । सव्येनेत्यर्थः तथा विसर्जनं सौमनस्यमाशिषां प्रार्थनं विना । पित्र्यमन्यत्प्रकर्तव्यं प्राचीनावीतिना सदेत्युक्तम् । अत्राचान्तेष्वित्यवृत्तौ पुनस्तद्ग्रहणं वेत्या संकल्पान्तं पिण्डोपयुक्तं कर्माचमनात्पूर्वमेवेति ज्ञापनार्थम् । अतश्च अनाचान्तेषु तत्सर्वं कृत्वाचान्तेषु उदकादिकं दत्त्वाऽक्षय्योदकं दद्यादित्यर्थः । तत्रोक्तं पिण्डयज्ञसूत्रे --तथा च पिण्डान्ददातीत्युपक्रम्यात्र पितर इत्युक्तवोदास्त आतमनादमीमदन्त इति अवनेज्य पूर्ववत्रीवीं विस्रस्य नमो व इत्यञ्जलिं करोत्येतद् इत्युपास्यति सूत्राणि प्रतिपिण्डमूर्णादृशां वा वयवस्युत्तरे यजमानलोमानि वोर्जमित्यपो निश्चित्यवधायावजिनति यजमान उल्मुकथं सकृदाच्छिन्नान्यग्नावाधत्त इति मध्यमं पिण्डं पत्नी प्राश्नाति पुत्रकामेति । अस्यार्थः -- पिण्डान्दत्त्वाऽऽचम्य यवानादायात्र पितर इत्यादि वृषायध्वमित्यन्तं मन्त्रं जपित्वाऽप्रदक्षिणं वामेनावृत्योदङ्मुखो यथाशक्ति श्वासमनुरुन्धञ्छुभं ध्यायेत् । तथा च परिशिष्टम् - वामेनावर्तनं केचिदुद्गन्तं प्रचक्षते । स्कन्दसंवादेऽपि --- प्रक्षाल्य हस्तावाचम्य शुभं ध्यायेदुदङ्मुख इति । अत्रैके शुभध्यानं सत्र्येनेत्याहुः । तन्न, प्रमाणाभावात् । आवृत्य तेनैव प्रदक्षिणमावृत्यामीमदन्तेत्यादिमन्त्रं जपित्वाक्षतान् भुवि पिण्डमूले क्षिपेदित्यर्थः । प्रदक्षिणमथावृत्य पूजयेदक्षतैर्यवैरिति वचनात् । पिण्डांश्च मनसा ध्यात्वा अक्षतानिक्षिपेडुवीति वृद्धयाज्ञवल्क्योक्तेश्च । अवनेज्य पूर्ववदिति गोत्राचारविधिनेत्यर्थः । तथा च श्रुतिः - अथोदपात्र - मादायावनेजयत्यसाववनेनिक्ष्वेत्येव यजमानस्य पितर इत्यादि । यत्तु तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेदिति वचनं यच्च हस्तान्न वारिणा कार्ये पुनः प्रत्यवनेजनमिति स्कन्दसंवादवचनं तदन्यशाखित्रिपयम् । इह तु पूर्ववदवने ज्येत्यतिदेशात्, अतिदेशविधेरनित्यत्वादत्रापि प्रक्षालनजलेनैवेति वा । aat विस्रस्य नमो व इति मन्त्रेण षडञ्जलीन्करोतीत्यर्थः । नन्त्रञ्जलिमित्येकत्वात्कथं पडञ्जलीनिति । पहृतुनमस्काररूपत्वादश्ञ्जले रित्यदोषः । तथा च श्रुतिः - प्रकृत्वो नमस्करोति षड्वा ऋतवः पितर इत्यादि । एतद्व इत्यनेन मन्त्रेण प्रतिपिण्डं सूत्राण्युपास्यति ददातीत्यर्थः । ननु च प्रतिपिण्ड - मिति पृथग्विधेरेतद् इति कथं तन्त्रविधिः । एकग्रहणेनैव त्रिषु दानेन सकृन्मन्त्रविधानार्थमित्यदोषः । एकद्रव्ये कर्मावृत्तौ इति परिभाषित्वात् । केचित्प्रतिपिण्डमित्युक्तत्वान्मन्त्रावृत्त्यैव सूत्रदानमित्याहुः ।
1
शांति सूत्राभावइत्यर्थः । यत्तु दशांतु वर्जयेत्प्राज्ञो यद्यप्यहतवस्त्रजामिति तत्सूत्रसंभवे द्रष्टव्यम् । दशाया अभावविपयत्वात् । तथा च शौनकः — सूत्राभावे दशासूर्णा वेति । यत्तु नमो वः पितरो मन्त्रं जपन्सूत्रं प्रदापयेदिति सूत्रे मन्त्रान्तरमुक्तं तदन्यशाखिविषयम् । वाजसनेयिनां त्वेतद् इति, कात्यायनोक्तत्वात् । तथा च व्यानोऽपि - एतद्वः पितरो वासो दशां दद्यात्पृथक्पृथगिति । दशाद्यभावे सूतवाक्यम् - ततः सूत्रं प्रदातव्यं कार्पासमथवाननम् (?) । दुकूलपट्ट्चत्रं वा तदभावे कुशान्यसेदिति । स्कंदसंवादेऽपि ---- कुशानभावे वयसि तूत्तरे लोम वा स्वकमिति । उत्तरे वयसि, पंचाशदू हृल्लोमेति विशिष्टविधिः । ऊर्जमित्यपो निषिंचतीत्यत्र गोत्राद्युच्चारपूर्वकं तिलोदकदानमित्येके । ऊर्जदाने तिलादिद्रव्यस्य गोत्राद्युच्चारस्य चानुक्तत्वात् केवल जलेनेत्यन्ये । तथा च वृहस्पतिः - अन्ययों - दपात्रं (?)तु तेषामुपरि निक्षिपेत् । पठन्ति च । सर्वत्रैव पवित्राणि पयो मधु तिलास्तथा । ऊर्जकाले न दातव्याः केवलं चोदकं क्षिपेदिति । अत्रभवतो भूदेवाः प्रमाणम् । अवधायेत्यत्र यजमानग्रहणं ऋत्विव्युदासार्थम् । अवधायेति पात्र इति शेनः । पात्रे पिण्डान्समुद्धृत्य आत्राय पितृपिण्डवदिति वृद्धयाज्ञवल्क्योक्ते: । उल्मुकं सकृदाच्छिन्नान्यग्नावाधत्त इति क्षिपतीत्यर्थः । सकृद्वाच्छिन्नानीति साग्निपरमिति प्रागुक्तम् । एवं पिण्डोपयुक्तं पूजनांतं कृत्वा चतुर्थ्यन्तसंकल्पेन धूपादिकं निवेदयेत् । तथा च
૬
/