Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
४८२
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
स्कंदसंवादे -- समभ्यर्च्य धूपदीपनैवेद्यानि निवेदयेत् । प्रकुर्यादथ संकल्पं कृत्याक्षय्योदकं ततः इति । ततः सुप्रोक्षितमस्त्वित्यादिनोदका दिकं दत्त्वाऽक्षय्योदकं तन्त्रेण दद्यात् । तथा च कात्यायनः---अक्षथ्योदकदानं तु अर्धदानं विशिष्यते । पष्ठचैव नित्यं तत्कुर्यान्न चतुर्थ्या कदाचनेति । अतिदेशस्तन्त्रनिषेधार्थः । अक्षय्यमस्त्विति प्रोक्तः प्रत्येकं पितृतः क्रमात् । इति शङ्खवचनात् । अघोराः पितरः सन्तु सन्तु इत्युक्ते गोत्रं नो वर्धतां वर्धतामित्युक्ते दातारो नोऽभिवर्धतां वेदाः सन्ततिरेव च । श्रद्धाचनो मा व्यगमद्बहु देयं च नोऽस्त्वित्याशिपः प्रतिगृह्य । इतिशब्द आद्यर्थे । तेन स्मृत्युक्तमन्यदप्याशी:प्रार्थनमिति श्लोककरणमित्यर्थः । सन्त्वित्युक्त इति प्रतिवचनग्रहणं सर्वत्रप्रात्यर्थम् । तथा च स्कन्दसंवादे—-अघोराः पितरः सन्तु सन्त्वित्युक्ते पुनर्द्विजैः । गोत्रं तथा वर्धतां नस्तथेत्युक्तत्र्व तैः पुनः ॥ दातारो नोऽभिवर्धतां वेदा: संततिरेव च । श्रद्धा च नो मा व्यगमद्वहुदेयं च नोऽस्त्विति । अन्नं चनो वहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कंचन । इत्येता आशिषः सर्वा गृहीयात्प्रतिभाषितमिति । अथ चेतिशब्दः प्रकारे । तेन तिलकमूर्धाभिषेकसव्यपूजादिप्रकारेणाशीःप्रार्थनं कर्तव्यमित्यर्थः । तथा च वृद्धयाज्ञवल्क्यः -- ततश्च तिलकं कुर्यान्मत्रेणानेन यत्नतः । मत्रश्च नित्यानुष्टानेत्यागि (१) प्रागेव दर्शितः । एतच्चाशीः प्रार्थनं पित्र्येष्वेव यज्ञोपवीतिना कार्यमिति प्रागुक्तम् । दक्षिणां दिशमाकाङ्क्षन्याचे ते मान्वरान्पितॄनिति मनुवचनात् । स्कंदसंवादेऽपि — अक्षय्यं सर्वमेवास्त्वित्युक्तत्वा भूयः समर्चयेदिति मूर्धाभिषेकञ्चाक्षय्यदानात्पूर्वमिति केचित् । 'स्वधावाचनीयान्सपवित्रान्कुशानास्तीर्य स्वधां वाचयिष्य इति पृच्छति' स्वधावाचनीया न्युजोपरिस्थापिताः कुशाः पवित्राणि तदधःस्थापितानि । तेपां कृतप्रयोजनत्वादन्यानि पवित्राणि कार्याणीत्यन्ये । तत्कर्कादिभिरनादृतमित्युपेक्षणीयम् । ततश्च सपवित्रान्स्वधावाचनीयकुशानादायास्तीर्य स्वधां वाचयिष्य इति पङ्क्तिमूर्धन्यं सर्वान्वा पृच्छेदित्यर्थः । अत्रैतत्संदिह्यते - किमेषामास्तरणं पङ्क्तिमध्ये उत पार्श्व इति । अत्रैक आहुः पिण्डपुरस्तादिति । पिण्डान्तराल इत्यन्ये । एतदुभयमप्ययुक्तं, प्रमाणाभावात् । अतश्च पिण्डोपरि परिस्तीर्यापोऽभिनिषिश्चेदित्यर्थः । तथा च गोभिलसूत्रम् - स्वधावाचनीयान्पिण्डोपरि समास्तीर्येति । परिशिष्टेऽपि — पवित्रान्तर्हितान्पिण्डान्सिश्चेदुत्तानपात्रकृदिति । न चैतस्य पारशात्रिकत्वान्नैवमिति वाच्यम् । स्त्रधावाचनिकं सर्वे पिण्डोपरि समाचरेदिति मस्त्यपुराणोक्तेः । स्वधावाचनमेष्विति स्वधावाचनीया इति छप्रत्ययान्तेन परप्रयुक्तास्तन्नाशे प्रतिनिधि: कर्तव्य इत्युक्तं मुख्यद्रव्यापचारत्वात् । तथा ह्युत्तरं सूत्रं - स्वधावाचनीयेष्वपो निपिश्वतीति । 'वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च स्वघोच्यता★ मित्यस्तुस्वधेत्युच्यमाने स्वधावाचनीयेष्वपो निषिध्वति चकारो मात्रादिसमुच्चयार्थः । पृथङ् - निर्देशस्तन्त्राभावप्रदर्शनार्थः । स्वधावाचन एव चेत्युक्तेः वाच्यतामिति । 'उत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्याद्राह्मणेभ्यो विश्वेदेवाः प्रीयन्तामिति देवैर्वाचयित्वा' पात्रं न्युब्जम्, यथाशक्तीति ग्रहणं समापनदक्षिणाया अपि विव्यर्थ, ब्राह्मणेभ्य इति स्मृत्यन्तरोक्तपिनुदेशव्युदासार्थम् । तेन ब्राह्मगोडेशेनैव दक्षिणादानं सूत्रकृदभिप्रेतम् । तथा च देवलः -- आचान्तेभ्यो द्विजेभ्यश्च प्रयच्छेदक्षिणामिति । पित्रुदेशपक्षस्तु — पितृभ्यः प्रथमं भक्त्या तन्मनस्कः समाहितः । सुखघेत्यागिपा युक्तो दद्याच्छक्त्या तु दक्षिणामित्यादि विष्णुपुराणाद्युतोऽन्यशाखिविषयः । वाचयित्वेति कारितार्थन - देशाद्विश्वेदेवा. प्रीयन्तामिति ब्रूतेति द्विजान्प्रत्यध्येषणमुक्तम् । अत्रायं प्रयोग. - अस्मत्पितुरमुकशर्मणोऽमुकसगोत्रस्य वसुरूपस्य श्राद्धप्रतिष्ठार्थममुकगोत्रायामुकशर्मणे ब्राह्मणायेत्यादि तुभ्यमहं संप्रदद् इति । तत्रत्वे त्वस्मत्पितॄणामिति पष्टीबहुवचनम् । पित्रुहेशपक्षे तु अस्मत्पित्रे पितृभ्य इति वा चतुथ्योंहिश्य न ब्राह्मणोद्देश इति विशेषः । सतिलं नामगोत्राभ्यां दद्याच्छक्त्या तु दक्षिणाम् । स्व
I

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560