Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 464
________________ ४५८ पारस्करगृह्यसूत्रम्। [श्राद्धसूत्ररक्षोनी: पञ्च, पित्र्यमन्त्रान् अग्नयेकव्यवाहनायेत्यादीन् । पुरुपसूक्तं सहस्रशीपा इति पोडमर्चम् । अप्रतिरथम् आशुः शिशान इति सप्तदश । अन्यानि च पवित्राणि जपेत् रुद्रप्रभृतीनीति | 'तृप्ता "विति च ' तृप्तान ज्ञात्वा ब्राह्मणानामग्रतोऽनं प्रकिरत् । सकृत्सकृदपो दद्यात् । वीप्सा ब्राह्मणापेक्षया । गायत्री सप्रणवा सव्याहृतिको सकृन् त्रिर्वा जपित्वा । मधुमतीरिति मधुबाता इति तिस्र ऋच उच्यन्ते । मधु मध्विति च त्रिः। एतच केचित् द्विरुचारयन्ति, एतावद्रुपदेशात् । तद्युक्तम् । यतः प्रावर्गिक्रस्य मन्त्रस्यायमुपदेश इति । तस्मात् त्रिरुचारणम् । 'तृप्ताः स्येति पृच्छति ब्राह्मणान् पत्रिमूर्धन्यं वा । केचित् तृप्तिप्रश्नत्य तृप्तिसंवेदनार्थत्वात्सर्वे प्रष्टव्या इति मन्यन्ते । तदन्याय्यम् । अष्टार्थत्वात् प्रश्नस्य । कथमदृष्टार्थता । तृप्तिसंवेदनस्य प्रयोजनाभावात् । अतृ भ्यः पुनर्दीयत इति चेन्न । उन्मुक्तपात्रत्वात् । यच्च सकृत्सकृदपोदानं तत्पात्रोन्मोचनायैत्र । तस्मादनियम इत्यपरे । तस्मिन्पक्षे तृप्ताः स्थति बहुवचनं पूजाथै द्रष्टव्यम् । अत्रोच्यते । सत्यपि धर्ममात्रत्वे बहुवचनान्तोपदेशात्सर्वे प्रष्टव्याः, अत्रगमात् । अवगम्यते हि मन्त्रोचारणवलाद्वहुत्वम् । नचावगम्यमानोऽर्थः शक्योऽपनेतुम् । तस्मात्सर्वे प्रष्टव्याः । यत्तु पशिमूर्धन्यं पृछतीति तदबहुवचनान्तेषु कृतार्थम्, अग्नौ करिष्य इत्येवमादो। चिन्तायाः प्रयोजनं सर्वेषां प्रतिप्रश्नः । 'तृप्ताः" द्यात्' तृप्ताः स्म इति ब्राह्मणैरनुज्ञातः शेपमन्नमनुज्ञाप्य शेपत्यान्नस्यानुज्ञां दापयित्वा सर्वमन्नमेकस्मिन्पाने उद्धरेन् । स चायं सर्वशब्दः शालिसूपापूपापेक्षया, न तु यावत्परिमाणं किंचित्सिद्धं तत्सर्वमिति । उच्छिष्टसमीप इति स देशो लक्ष्यते, नोच्छिष्टमेव प्रतिपिद्धत्वात्तस्य । दर्भेपु त्रीस्रीन पिण्डानवनेज्य दद्यादिति दर्भग्रहणमिहोपमूलसकहाच्छिन्नोपलक्षणार्थम् । पिण्डपितृयज्ञबदुपचार इति सूत्रितत्वात् । परिसंख्यानार्थमिति चेन्न । उच्छिष्टसमीनोपदेशान् । त्रीस्त्रीन पिण्डानिति वीप्सा मातामहविपया । 'आचान्तेष्वित्येके ' उभयशास्त्रत्वादिकल्पः । 'आचान्तेपूदकं पुष्पाण्यक्षतानक्षय्योदकञ्च दद्यादित्येवमादि-बहुदेयञ्च नोऽस्तु । इत्येवमन्तं सूत्रम् । आचान्तेपु ब्राह्मणेयु तेभ्य उद्कादिदानम् । तच पूर्व देवे । ततोऽयसव्यं पिन्ये । पित्र्ये अपि केचित्सव्येनेच्छन्ति दानसंयोगात् । तन्न । पिण्डपितृयज्ञवदुपचार इति ह्युपदेशात् । अक्षय्योदकदानं तु पित्र्य एव औचित्यान् । देवस्य खत एव रक्षोनत्वात् । अघोराः पितरः सन्वितीमं मन्त्रमुदाहरेन् । सन्निति प्रत्युक्ते गोत्रं नो वर्धतामित्याह वर्धतामित्युक्ते दातारो नोऽभिवर्धन्तामिति ब्रूयात् । 'आशि ‘'च्छति ' स्वधावाचनीया नाम कुशाः, ते च सपवित्राः साना भवन्तीत्यर्थः । 'वाच्य"तृभ्य इति । इमं मन्त्रमुदीरयेत् । 'अस्तु स्त्र"त्यूर्जमिति अस्तु स्वधेति ब्राह्मणैरुच्यमाने स्ववावाचनीयेपु कुशेष्वपो निषि चेत् ऊर्जमितिमन्त्रेण । 'उत्तानं 'णेभ्यः' निगदव्याख्यातम् । 'विश्वेदे "सृज्य ' वाजे बाजे वन इत्यनेन मन्त्रेण विप्रान् विसर्जयेत् । 'आमात्राजस्येति । अनेन अनुव्रजेन् । 'प्रदक्षिणीकृत्य ' नमस्कृत्य च ' उपविशेत् ।।३।। (गदाधरः)-'उद्धृ'रिव्य इति । वैश्वदेवादनादुदत्य घृताक्तमन्नं घृतप्लुतं पात्रान्तरं कृत्वा ततः पृच्छति, अग्नौ करिष्य इत्यनेन मन्त्रेण । प्रश्नस्वरूपनिर्देशार्थ इतिकारः । अतश्च पर्यायान्तरण प्रश्नाभावः । घृताक्तमिति निष्टा भूतेऽयें । ततश्चाधिश्रितस्यैवाभिवारणम् । श्रुतिः । तासुंअपयति तस्मिन्नविश्रित आज्यं प्रत्यानयत्यग्नौ वै देवेभ्यो जुह्वत्युद्धरन्ति मनुष्येभ्योऽथैवम्पितॄणामिति पिण्डपितृयने हेतूपन्यासात् पित्र्यत्वस्यात्रापि तुल्यत्वान् । घृताक्तग्रहणं सूपशाकादिनिवृत्त्यर्थम् । तया च विष्णुपुराण-जुहुयाद्वाचनक्षारवर्जमिति । 'कुरुष्वे "स्वाहेति' ततः पशिमूर्धन्येन सर्वैर्वा कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञबद्धत्वा हुतशेपं ब्राह्मणभाजनपु दत्त्वा पात्रमालभ्य समन्तास्पृष्ट्वा पृथिवीतइति मन्त्र जपन् । पात्रमालभ्य जपः, न तुमन्त्रान्त मालमत, पात्रस्योद्देश्यमानत्वात्प्रतिपात्रमालम्भनम् ।

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560