________________
४५८ पारस्करगृह्यसूत्रम्।
[श्राद्धसूत्ररक्षोनी: पञ्च, पित्र्यमन्त्रान् अग्नयेकव्यवाहनायेत्यादीन् । पुरुपसूक्तं सहस्रशीपा इति पोडमर्चम् । अप्रतिरथम् आशुः शिशान इति सप्तदश । अन्यानि च पवित्राणि जपेत् रुद्रप्रभृतीनीति | 'तृप्ता "विति च ' तृप्तान ज्ञात्वा ब्राह्मणानामग्रतोऽनं प्रकिरत् । सकृत्सकृदपो दद्यात् । वीप्सा ब्राह्मणापेक्षया । गायत्री सप्रणवा सव्याहृतिको सकृन् त्रिर्वा जपित्वा । मधुमतीरिति मधुबाता इति तिस्र ऋच उच्यन्ते । मधु मध्विति च त्रिः। एतच केचित् द्विरुचारयन्ति, एतावद्रुपदेशात् । तद्युक्तम् । यतः प्रावर्गिक्रस्य मन्त्रस्यायमुपदेश इति । तस्मात् त्रिरुचारणम् । 'तृप्ताः स्येति पृच्छति ब्राह्मणान् पत्रिमूर्धन्यं वा । केचित् तृप्तिप्रश्नत्य तृप्तिसंवेदनार्थत्वात्सर्वे प्रष्टव्या इति मन्यन्ते । तदन्याय्यम् । अष्टार्थत्वात् प्रश्नस्य । कथमदृष्टार्थता । तृप्तिसंवेदनस्य प्रयोजनाभावात् । अतृ
भ्यः पुनर्दीयत इति चेन्न । उन्मुक्तपात्रत्वात् । यच्च सकृत्सकृदपोदानं तत्पात्रोन्मोचनायैत्र । तस्मादनियम इत्यपरे । तस्मिन्पक्षे तृप्ताः स्थति बहुवचनं पूजाथै द्रष्टव्यम् । अत्रोच्यते । सत्यपि धर्ममात्रत्वे बहुवचनान्तोपदेशात्सर्वे प्रष्टव्याः, अत्रगमात् । अवगम्यते हि मन्त्रोचारणवलाद्वहुत्वम् । नचावगम्यमानोऽर्थः शक्योऽपनेतुम् । तस्मात्सर्वे प्रष्टव्याः । यत्तु पशिमूर्धन्यं पृछतीति तदबहुवचनान्तेषु कृतार्थम्, अग्नौ करिष्य इत्येवमादो। चिन्तायाः प्रयोजनं सर्वेषां प्रतिप्रश्नः । 'तृप्ताः" द्यात्' तृप्ताः स्म इति ब्राह्मणैरनुज्ञातः शेपमन्नमनुज्ञाप्य शेपत्यान्नस्यानुज्ञां दापयित्वा सर्वमन्नमेकस्मिन्पाने उद्धरेन् । स चायं सर्वशब्दः शालिसूपापूपापेक्षया, न तु यावत्परिमाणं किंचित्सिद्धं तत्सर्वमिति । उच्छिष्टसमीप इति स देशो लक्ष्यते, नोच्छिष्टमेव प्रतिपिद्धत्वात्तस्य । दर्भेपु त्रीस्रीन पिण्डानवनेज्य दद्यादिति दर्भग्रहणमिहोपमूलसकहाच्छिन्नोपलक्षणार्थम् । पिण्डपितृयज्ञबदुपचार इति सूत्रितत्वात् । परिसंख्यानार्थमिति चेन्न । उच्छिष्टसमीनोपदेशान् । त्रीस्त्रीन पिण्डानिति वीप्सा मातामहविपया । 'आचान्तेष्वित्येके ' उभयशास्त्रत्वादिकल्पः । 'आचान्तेपूदकं पुष्पाण्यक्षतानक्षय्योदकञ्च दद्यादित्येवमादि-बहुदेयञ्च नोऽस्तु । इत्येवमन्तं सूत्रम् । आचान्तेपु ब्राह्मणेयु तेभ्य उद्कादिदानम् । तच पूर्व देवे । ततोऽयसव्यं पिन्ये । पित्र्ये अपि केचित्सव्येनेच्छन्ति दानसंयोगात् । तन्न । पिण्डपितृयज्ञवदुपचार इति ह्युपदेशात् । अक्षय्योदकदानं तु पित्र्य एव औचित्यान् । देवस्य खत एव रक्षोनत्वात् । अघोराः पितरः सन्वितीमं मन्त्रमुदाहरेन् । सन्निति प्रत्युक्ते गोत्रं नो वर्धतामित्याह वर्धतामित्युक्ते दातारो नोऽभिवर्धन्तामिति ब्रूयात् । 'आशि ‘'च्छति ' स्वधावाचनीया नाम कुशाः, ते च सपवित्राः साना भवन्तीत्यर्थः । 'वाच्य"तृभ्य इति । इमं मन्त्रमुदीरयेत् । 'अस्तु स्त्र"त्यूर्जमिति अस्तु स्वधेति ब्राह्मणैरुच्यमाने स्ववावाचनीयेपु कुशेष्वपो निषि
चेत् ऊर्जमितिमन्त्रेण । 'उत्तानं 'णेभ्यः' निगदव्याख्यातम् । 'विश्वेदे "सृज्य ' वाजे बाजे वन इत्यनेन मन्त्रेण विप्रान् विसर्जयेत् । 'आमात्राजस्येति । अनेन अनुव्रजेन् । 'प्रदक्षिणीकृत्य ' नमस्कृत्य च ' उपविशेत् ।।३।।
(गदाधरः)-'उद्धृ'रिव्य इति । वैश्वदेवादनादुदत्य घृताक्तमन्नं घृतप्लुतं पात्रान्तरं कृत्वा ततः पृच्छति, अग्नौ करिष्य इत्यनेन मन्त्रेण । प्रश्नस्वरूपनिर्देशार्थ इतिकारः । अतश्च पर्यायान्तरण प्रश्नाभावः । घृताक्तमिति निष्टा भूतेऽयें । ततश्चाधिश्रितस्यैवाभिवारणम् । श्रुतिः । तासुंअपयति तस्मिन्नविश्रित आज्यं प्रत्यानयत्यग्नौ वै देवेभ्यो जुह्वत्युद्धरन्ति मनुष्येभ्योऽथैवम्पितॄणामिति पिण्डपितृयने हेतूपन्यासात् पित्र्यत्वस्यात्रापि तुल्यत्वान् । घृताक्तग्रहणं सूपशाकादिनिवृत्त्यर्थम् । तया च विष्णुपुराण-जुहुयाद्वाचनक्षारवर्जमिति । 'कुरुष्वे "स्वाहेति' ततः पशिमूर्धन्येन सर्वैर्वा कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञबद्धत्वा हुतशेपं ब्राह्मणभाजनपु दत्त्वा पात्रमालभ्य समन्तास्पृष्ट्वा पृथिवीतइति मन्त्र जपन् । पात्रमालभ्य जपः, न तुमन्त्रान्त मालमत, पात्रस्योद्देश्यमानत्वात्प्रतिपात्रमालम्भनम् ।