________________
कण्डिका ३] परिशिष्टम्।
४५९ पिण्डपितृयज्ञवदुपचार इत्यनेन पिण्डपितृयज्ञातिदेशश्चोक्तः, पुनः पिण्डपितृयज्ञग्रहणं परिस्तरणादिपदार्थनिवृत्त्यर्थ द्रष्टव्यम् । होममात्रस्यात्रातिदेशः । स चायमग्नौकरणहोमः साग्निनाऽऽवसथ्येऽग्नौ कर्तव्यः । तथा च याज्ञवल्क्यः-कर्म स्मात विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वाऽपि
औतं वैतानिकाग्निध्विति । स्मार्तमत्र श्राद्धं तदङ्गभूतः अग्नौकरणहोम आवसथ्येऽनौ भवति । न च प्रकृतिविकृतिभावेनास्य श्रौतत्वम् । कार्यातिदेशात् । स्वरूपातिदेशे तु अवहननफलीकरणपूर्वक चादिप्रवृत्तिरपि स्यात् । कार्यातिदेशे तु पुनरितिकर्तव्यतामात्रमेव प्राप्नुयात् । अतः स्मार्तत्वादावसथ्याग्नावेव होमः । आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः, इति यन्मार्कण्डेयेनोक्तंतत्सर्वाधानपक्षे ज्ञातव्यम् । आहृत्य दक्षिणाग्निं तु होमार्थ वै प्रयत्नतः । अन्यथै लौकिकं वापि जुहुयात्कर्मसिद्धये, इति वायुपुराणीयमपि औपवसथ्याहरणपक्षे वेदितव्यम् । अग्न्यभावे मनुराह । अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । यो ह्यग्निः स द्विजो विप्रेमन्त्रदर्शिभिरुच्यत इति । कात्यायन:-पित्र्ये यः पङ्खिमूर्द्धन्यस्तस्य पाणावनग्निकः । कृत्वा मन्त्रवदन्येषां तूष्णी पात्रेषु निक्षिपेदिति । द्विजाभावे मत्स्यपुराणे । अग्न्यभावे तु विप्रस्य पाणी वाऽथ जलेऽपि वा । अजकर्णेऽश्वकर्णे वा गोप्टे वाऽथ शिवान्तिके इति । पाणिहोमपक्षे अनुज्ञावचने न स्तः प्रतिकृतित्वात् । हुतशेषदाने विप्रतिपत्तिः । हुतशेपानुल्लेखात्साधारण्याईवे पित्र्ये च देयमिति कर्मचार्यमतम् । कल्पतरुहेमाद्रिमिताक्षराकाराणां मते पित्र्य एव । एतदुभयं समूलम् । शाट्यायनिः । हुतशेपं पूर्व देवे दत्वा पश्चापित्र्ये दद्यादिति । यमः । अग्नौकरणशेपं तु पित्र्ये तु प्रतिपादयेत् । प्रतिपाद्य पितॄणां तु न दद्याद्वैश्वदेविके इति । धर्मप्रदीपके-अग्न्यभावे तु विप्रस्य हस्ते हुत्वा तु दक्षिणे । शेपयेपितृविप्राथै पिण्डाथै शेपयेत्तत इति । पानमालभ्य जपतीत्यत्र पात्रस्थान्नालम्भ इति केचित् । तदतीवमन्दम् । यथा 'गार्हपत्यमुत्तरेणोदपात्रं निधायालभते' इत्यत्र कर्काचायः पात्रालम्भ उक्तस्तथाऽत्रापि पात्रालम्भ एव । ब्रह्मपुराणे विशेपः । दक्षिणं तु करं कृत्वा वामोपरि निधापयेत् । दैवं पात्रमथालभ्य पृथिवी ते पात्रमुच्चरन् । दक्षिणोपरि वामं च कृत्वा पिव्यपात्रस्यालम्भनमिति । पृथिवी ते पात्रमित्यस्यार्थः । हे अग्नौकरणशेप ते तव पात्रम् आधारः पृथिवी विश्वाधारभूता अपिधानं द्यौः आकाशं त्वाममृतं हुतशेषं ब्राह्मणस्य मुखे जुहोमि । किंलक्षणे अमृते अभक्ष्यभक्षणादिभिरदूपित इत्यर्थः । ब्राह्मणस्य मुखे अग्निसदृशे त्वाममृतजुहोमीति वाक्यार्थः । ब्राह्मणस्याग्निसदृशत्वमाहापस्तम्बः । पितरोऽत्र देवता ब्राह्मणस्त्वाहवनीयार्थ इति । 'वैष्ण"न्विकीर्य' वाशब्दो विकल्पार्थः । नियताक्षरपादावसाना ऋक् । अनियताक्षरपादावसानं यजुरुच्यते । अत्र ऋग् इदं विष्णुः । विष्णो हव्यं रक्षस्वेति यजुः । इदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेदिति वचनात् तयोरन्यतरेण ब्राह्मणभाजनस्थिते अन्ने द्विजाडष्ठमधोमुखं निवेश्यापहता इति मन्त्रेण ब्राह्मणानामग्रतो भूमावेव तिलान्प्रकिरेत् । रक्षोन्नत्वाददड्मुखानामिति कर्कः । अविशेपादितरेषामपीति केचित् । तन्न । स्वत एव रक्षोन्नत्वात्तेपाम् । परिवेपणमाह-'उणर्छस्विष्टमन्नं दद्यात् ' यावदुष्णं भवेदन्नं तावद्देयम् । स्विष्टं यद् ब्राह्मणाय प्रेताय कर्ने वा रोचते । अन्नं भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं पञ्चविधम् । यद्यप्यत्र सूत्रकृता सामान्येनोक्तमन्नं दद्यादिति, तथापि स्मृत्यन्तराद्धविष्यं, व्रीहिशालियबगोधूममुद्मापमुन्यन्नकालशाकशुण्ठीमरिचहिङ्गागुडशर्कराकर्पूरसैन्धवसंभारपनसनारिकेलकदलीवदरगव्यपयोदधिघृतपायसमधुमांसप्रभृतीनि दद्यात् । सस्य क्षेत्रगतं प्राहुः सतुपं धान्यमुच्यते । आमान्नं वितुपं ज्ञेयं पक्कमन्नमुदाहृतमिति परिभाषणात्केचिदन्न पक्मेवानमित्याहुः । परिवेषणं तूभाभ्यामपि हस्ताभ्यामादाय कुर्यात् । तदुक्तं मनुना-उभाभ्यामुपसंगृह्य स्वयमन्नस्य वर्द्धितमिति । विशेषमाह-कार्णाजिनिः-अपसव्येन कर्तव्यं पित्र्यं कृत्यमशेषतः । अन्नदानादृते सर्वमेवं मातामहेष्वपीति । अपसव्येन यस्त्वन्नं ब्राह्मणेभ्यः प्रयच्छति ।