________________
४६०
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
विष्ठामनन्ति पितरस्ते च सर्वे द्विजोत्तमा इति । तदेतद्दानं परिवेषणमेव । " 'शक्त्या वा स्विष्टानाभावे यदन्नमेव शक्तया दातुं शक्यते तद्देयमित्यर्थः । अस्मिन्समये अन्नसंकल्पः कार्यः । तत्रैवं प्रयोगः । इदमन्नं यद्दत्तं यच्च दास्यमानं तृप्तिपर्यन्तं तत्सर्व विश्वेभ्यो देवेभ्यः स्वाहा । ततोऽमुकसगोन्त्रेभ्योऽस्मत्पितृपितामहप्रपितामहेभ्योऽमुकामुकशर्मभ्यो वसुरुद्रादित्यस्वरूपेभ्यः इदमन्नं यद्दत्तं यच्च दास्यमानं तृप्तिपर्यन्तं तत्सर्व तेभ्यः स्वधेति । मातामहानामप्येवं संकल्पं कुर्यात् । यद्यप्यत्र ब्राह्मणहस्तेषूदकदानमाम्नातं नास्ति, तथापि शाखान्तरसूत्रात्कर्तव्यम् । द्विजैश्च पर्युक्षणादिप्राणाहुत्यन्ताः सर्वेऽपि भोजननियमा विधेयाः । केवलं भूमौ चलिहरणमेव न कार्यम् । तत्र बलिहरणे महादोषश्रवणात् । ' अश्नत्सु’चित्राणि एकवारमिति सकृत्, वारन्त्रयमिति त्रिः । अत्र संख्याभ्यावृत्ति - गणनेऽर्थे द्वित्रिचतुर्भ्यः सुच् इति सूत्रेण कृत्वसुचोऽपवादत्वेन त्रीत्यस्यात्रे सुच् प्रत्ययः । एकस्य सकृश्चेति सूत्रेणैकस्य सकृदादेशः । सुच् प्रत्ययश्वोक्तार्थे । अनत्सु ब्राह्मणेषु व्याहृतिपूर्वी गायत्रीं सप्रणवां सकृत्रिर्वा जपेत् संहितास्वरेण पठेत् । तत्रायं क्रमः । प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तदनन्तरम् । सावित्रीचानुपूर्व्येण ततो वर्णान्समुच्चरेत् राक्षोघ्नीः कृणुष्व पाज इत्याद्याः पञ्चर्चः । पित्र्यमन्त्रानुदीरतामवर इत्यादिकास्त्रयोदशर्चः । पुरुषसूक्तं सहस्रशीऽर्पेत्यादिकाः षोडशचेः । अप्रतिरथम् आशुः शिशान इत्याद्याः सप्तदशर्च: द्वादशच वा । अन्यानि रुद्रप्रभृतीनि । अग्नये कव्यवाहनाय स्वाहे - त्यादीन्पित्र्यमन्त्रान् जपेत् । अत्र च व्यपदेशस्तानस्वरवाधनार्थः । मनुः - स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैवहीति । मत्स्यपुराणे विशेषः त्रह्मविष्ण्वर्करुद्राणा स्तोत्राणि विविधानि च । इन्द्रेशसोमसूक्तानि पावमानीश्च शक्तितः । वृहद्रथन्तरं तद्वज्येष्ठसाम सरौरवम् । मण्डलत्राह्मणं तद्वत्प्रीतिकारि च यत्पुनः । विप्राणामात्मनश्चैव तत्सर्व समुदीरयेत् । इन्द्रादिसूतानि च ऋग्वेदे प्रसि द्धानि । पुनन्तुमेत्याद्याः पावमान्यः । त्वामिद्धि हवामह इत्यस्यामृचि गीयते यत्तद् वृहत्साम । अभित्वाशूरनोनुम इति रथन्तरम् । मूर्द्धानन्दिव इति ज्येष्ठसाम । पुनानः सोमेति रौरवम् । ऋचं वाचमिति शान्तिकाण्यायः । यदेतन्मण्डलभित्यनिरहस्ये मण्डलत्राह्मणं प्रसिद्धम् । इयं पृथिवीति वृहदारण्यके मधुब्राह्मणम् । गरुडपुराणे - यो विष्णुहृहयं मन्त्रं श्राद्धेषु नियतः पठेत् । पितरस्तर्पितास्तेन पयसा च घृतेन च । चतुर्भिश्च चतुर्भिश्च द्वाभ्या पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु । यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिपु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् इति विष्णुहृदयमन्त्रः । ओ श्रावयेति चत्वारि अक्षराणि, अस्तु श्रौषडिति चत्वारि, यजेति द्वे, ये यजामहे इति पञ्च, वौषडिति द्वे, एतैयों हूयते स यज्ञपुरुषो विष्णुर्मम प्रसीदत्वित्यर्थः । एतदनुसारि शतपथे वाक्यम् । तदेतदद्य ज्ञानस्यायातयामो श्रावयेत्यारभ्य श्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्वयक्षरं ये यजामहे इति पञ्चाक्षरं द्वयक्षरो वषट्कार इति । उक्तजपासं1 भवे मत्स्यपुराणे । अभावे सर्वविद्यानां गायत्रीजपमाचरेदिति । ' तृप्तान् ध्विति च ' तृप्तान्त्राह्मणान् ज्ञात्वा ब्राह्मणानामग्रतोऽन्नं विकिरेदिति । मनुः - सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा । परिक्षिपेद् भुक्तवतामग्रतो विकिरन् भुवि । वृहस्पतिः । सोदकं विकिरेदन्नं मन्त्रं चेमं समुञ्चरेत् । अग्निदग्धाञ्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु पराङ्गतिमिति । तत्रैवं सर्वमन्नमेकत्र पान्ने कृत्वोदकं निषिच्याचामेत् । ब्राह्मणानामग्रतोऽन्नं प्रकिरेदिति कर्काचार्याः । पङ्क्तिमूर्द्धन्यस्योत्तरदिग्भागे अरत्निमात्रे विकिरं दद्यादिति हेमाद्रिः । तीर्थश्राद्धे विकिराभावः । सकृत्सकृदिति वीप्सा ब्राह्मणापेक्षया, तेन वैश्वदेविकद्विजपूर्वकमेकैकस्य पाणौ तु उत्तरापोशनार्थे सकृत्सकृदुदकं दद्यात् । पूर्ववदिति प्रणवेन व्याहृतिभिश्च सर्वां गायत्री सकृत्रिर्वा जपेत् । मधुमती - रिति मधुवाता इति तिस्र ऋच उच्यन्ते, मधुमध्विति चेति च मधुमधुमध्वित्येवं त्रिरुच्चारणं कर्त -