SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ कण्डिका ३ ] परिशिष्टम् । ४६१ । व्यम् । ' तृप्ताः स्थेति पृच्छति ' तृप्ताः स्थ इत्येवं ब्राह्मणान्प्रति पृच्छति प्रश्नं करोति । अत्र बहुवचनात्सर्वे प्रष्टव्याः। ' तृप्ताः दद्यात् ' ततस्तैर्द्विजैस्तृप्ताः स्म इत्यनुज्ञातः शेषमन्नमनुज्ञाप्य उर्वरित - स्यान्नस्यानुज्ञां दापयित्वा सर्वमन्नं सर्वप्रकारं माषान्नवर्जे पिण्डपर्याप्तमेकस्मिन्पात्रे उद्धरेत् दर्भेषु त्रीखीन्पिण्डानिति दर्भग्रहणमुपमूलसकृदाच्छिन्नोपलक्षणार्थम् । श्रीस्त्रीनिति वीप्सा मातामहाभिप्रायेण । पिण्डपितृयज्ञवदुपचार इति सूत्रितत्वादत्र पिण्डपितृयज्ञवत्पिण्डदानम् । तेनोल्लिखत्यपहता इत्यपरेण वोल्मुकं परस्तात्करोतीत्यारभ्य वयस्युत्तरे यजमानलोमानि वेत्यन्तं लभ्यते । अत्राह याज्ञवल्क्यः ---- सर्वमन्नमुपादाय सतिलं दक्षिणामुखः । उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञ - दिति ॥ ।। अत्र पदार्थक्रम: । उल्लेखनम् उदकालम्भ: उल्मुकनिधानम् अवनेजनं सकृदाच्छिन्नास्तरणम् पिण्डदानम् । अत्र पितर इत्युक्त्वोदडातमनम् । आवृत्यजपः । पुनरवनेजनम् । नीवीविसर्गः । नमो व इति षण्णमस्काराः । सूत्रदानम् । स्मृत्युक्तं पूजनम् । इति क्रमः ॥ ॥ ' आचान्तेष्वित्येके ' एके आचार्याः आचान्तेषु ब्राह्मणेषु पिण्डदानमिच्छन्ति । C आचा"" दद्यात् ' ब्राह्मणेषु सत्सु तेभ्य उदकादिकं च दद्यात् । पुष्पाणि चाप्रतिषिद्धानि पद्मोत्पलमल्लिकायूथिकाशतपत्रचम्पकाद्यानि गन्धरूपसंपन्नान्यन्यान्यपि दद्यात् । तत्रायं प्रयोग उक्तश्छन्दोग परिशिष्टे । अथात्र भूमिमासिञ्चेत्प्रोक्षितमिति । शिवा आपः सन्त्विति युग्मानेवोदकेन च सौमनस्यमस्त्विति पुष्पदा - नमनन्तरम् | अक्षतं चारिष्टं चास्त्वित्यक्षतान्प्रतिपादयेत् । अक्षय्योदकदानं तु ह्यर्घदानवदिष्यते । षष्ठचैव नियतं कुर्यान्न चतुर्थ्यां कदाचन ॥ युग्मानिति वृद्धिपरं प्रकरणात् । पित्राद्युल्लोखाभावाद्धस्ते प्रक्षेपमात्रस्य विधानादिदं जलादित्रिकं दैवे पित्र्ये च कार्यम् । यज्ञोपवीतिना देयमिति शङ्खधराचार्यः । तथा शातातपोऽपि । ततः पुष्पाणि सव्येन उदकानि पृथक् पृथगिति । इदं जलादिदानं दैवे सव्येनेति, पित्र्ये त्वपसव्येनेति कर्काचार्याः । हस्ते प्रतिपादितानामपां चिरधारणे प्रयोजनाभावाच्छुचौ देशे स्थापनमेव । पुष्पाणां त्वत्र ब्राह्मणा यजमानायाशिषं प्रयच्छन्ति । मत्स्यपुराणेआचान्तेषु पुनर्दद्याज्जलपुष्पाक्षतोदकम् । दत्वाशीः प्रतिगृह्णीयाद् द्विजेभ्यः प्राङ्मुखो द्विजः । अक्षयोदशब्देन दत्तानपानादेरानन्त्यप्रार्थनसंवन्धि जलमभिधीयते । तच पितृब्राह्मणेभ्य एवेति कर्कः । सर्वेभ्यो दद्यादिति स्मृत्यर्थसारे । ' अघोराः स्त्विति आशी प्रार्थनं प्रपञ्चयति । तत्र यजमानः अघोराः पितरः सन्त्विति ब्रूयात् । ब्राह्मणाश्च सन्त्विति ब्रूयुः । तैस्तथैौक्ते यजमानो गोत्रन्नो वर्द्धतामित्याह । ब्राह्मणैश्च वर्द्धतामित्युक्ते यजमानो दातारो नोऽभिवर्द्धन्तामिति 1 ब्रूयात्, द्विजैर्वर्द्धन्तामित्युक्ते कर्ता वेदा वर्द्धन्तामिति ब्रूयात् । तैर्वर्द्धन्तामित्युक्ते यजमानः सन्ततिर्वर्द्धतामिति । वर्द्धतामिति ब्राह्मणाः । श्रद्धा च नो मा व्यगमदिति यजमानः, मागादिति ब्राह्मणाः । बहुदेयं च नोऽस्त्विति कर्ता । अस्त्विति ते ब्रूयुः । मन्त्र मनुराह — दक्षिणां दिशमाकाङ्क्षन्याचेतेमान्वरान्पितृनिति । ' आशिप: पृच्छति : उक्तप्रकारेणाशीर्ग्रहणं कृत्वा स्वधावाचनीयसंज्ञकान्सपवित्रान्कुशानास्तीर्य पिण्डसमीपे भूमौ स्मृत्वा स्वधां वाचयिष्य इति पङ्क्तिमूर्द्धन्यं सर्वान्वा पृच्छेत् । सपवित्रा - न्सामानित्यर्थः । न्युब्जपात्रो परिस्थितपवित्राण्यर्घपवित्रैः सह समानीय पिण्डानां पश्चिमतो दक्षिणाप्राणि निधाय स्वधां वाचयिष्य इति पृच्छेदिति हेमाद्रिः । सकुशानि पवित्राणि पिण्डानामुपर्यास्तीर्य स्वधां वाचयिष्य इति पृच्छेदिति देवयाज्ञिकाः । ' वाच्यच्यतामिति ' ततस्तैर्द्विजैर्वाच्यता - भित्यनुज्ञातः पितृभ्य इत्यादि स्वधोच्यतामित्येवं मन्त्रमुदाहरेत् । ' अस्तुर्जमिति ' अस्तु स्वधे - स्युच्यमाने सति स्वधावाचनीयेपूदकं निषिध्वत्यूर्जमित्यनेन मन्त्रेण । आसेचनप्रयोगानामङ्गाङ्गीभावः । अवसर निर्देशकत्वाच्छानचः । अतो वृद्धिश्राद्धेऽपि भवति । मन्त्रश्चायं समवेतार्थः । अतोऽस्य मातृश्राद्धे मातृभ्यः पितामहीभ्य इत्याद्यूहः संख्या समवेतार्थः । अतश्चैको हिष्टे नोहः । 'उत्ता दद्यात् 1
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy