________________
४६२ पारस्करगृह्यसूत्रम्
[श्राद्धसूत्रशक्तिमनतिक्रम्येति यथाशक्ति । अत्र शातपथीश्रुतिः । स एप यत्रो हतो ने ददक्षे । तं देवा दक्षिणाभिरदक्षयस्तद्यदेनं दक्षिणाभिरदक्षयंस्तस्मादृक्षिणा नामेति। स्मृतौ ॥ गोभूहिरण्यवासांसि कन्याभवनभूपणम् । दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव चेति । अदक्षिणं च श्राद्धं न कुर्यात् । तथा च श्राद्धकल्पेन कुर्यादक्षिणाहीनं दहेच्छ्राद्धमदक्षिणमिति । तथा च शतपथब्राह्मणे । तस्मान्नादक्षिण हविः स्यादिति । ' विश्वे"सृज्य ' वाचयित्वेति कारितत्वादध्येपणा भवति । विश्वेदेवाः प्रीयन्तामिति ब्रहीति । दैवब्राह्मणाश्च विश्वेदेवाः प्रीयन्तामिति युः । ततो वाजे बाजे वत इति मन्त्रेण विप्रान्विसर्जयेत् । विसर्जनं तु पितृपूर्वकम् । तथा च याज्ञवल्क्यः -बाजेवाजे इति प्रीतः पितृपूर्व विसर्जयेदिति । निमन्त्रणादिपदार्थजातं देवपूर्व भवति । विसर्जनं तु पितृपूर्वमिति मेधातिथिः । देवलोऽपिपूर्वमुत्थापयेत्पितन्वाच्यतामिति च ब्रुवन् । उत्थिताननुगच्छेत्तु तेभ्यः शेपं च संहरेत् । पश्चात्तु वैश्वदेविकान्विप्रानुत्थापयेत्तथा । एते हि पूर्वमासीनाः समुत्तिष्ठन्ति पश्चिमा इति । 'आमा' "विशेत् । आमावाजस्येति मन्त्रेणानुनयानुपश्चात् द्विजान्सीमान्तं गत्वा प्रदक्षिणीकृत्य स्वगृहं प्रविशेत् । इति तृतीयकण्डिका ॥३॥
अथ प्रयोगपद्धतिः-तत्र कालाः । अमावास्याऽटका वृद्धिः कृष्णपक्षोऽयनद्वयम् । विपुवत्सूर्यसंक्रमो व्यतीपातो गजच्छाया ग्रह्णयुगादिमन्वादयश्च । तथा विशिष्टे देशे गयादौ विशिष्टे काले च मृताहादौ द्रव्यब्राह्मणसंपत्सु चात्मरुचिश्चेत्याद्याः कालाः । अथ श्राद्धाधिकारिनिर्णयः-प्रमीतयोः पित्रोर्मुख्यो गौणाश्च पुत्राः श्राद्धं कुर्युः । तदभावे दायहरः । पौत्रः पुत्रिकापुत्रो वा तदभावे सहोदराः तत्सन्ततिर्वा तदभावे पुरोहितः तदभावे भृत्याः सुहृदश्च कुर्युः । सर्वाभावे नरपतिस्तन्नातीयैः कारयेत् । नरपतिः सर्ववर्णानां वान्धव इति स्मरणात् । ब्राह्मविवाहोढा साध्वी चेत्पुत्राभावे पत्न्येवाधिकारिणी यदि ऋयक्रीता न भवति । क्रयश्रीता च या नारी न सा पत्नी विधीयते । न सा देवे न सा पित्र्ये दासी तां केवलां विदुः । सर्वाभावे त्वस्या अप्यमन्त्रके श्राद्धेऽधिकारः । एक एव चेपुत्रस्तदाऽसावनुपनीतोऽपि कृतचौलश्वेदमन्त्रकं श्राद्धं कुर्यात् । अपुत्रायाः प्रतिर्दद्यात्सपुत्रायाश्च न क्वचित् । पित्रा श्राद्धं न कर्तव्यं पुत्राणां च कदाचन । भ्रात्रा चैव न कर्तव्यं भ्रातृणां च कनीयसाम् । अपि स्नेहेन कुर्याचेत्सपिण्डीकरणं विना । गयायां तु विशेषेण ज्यायानपि समाचरेत् । धनहारित्वादिनियमाभावे प्रीत्या यस्य कस्यापि वर्णस्य श्राद्धे कृते महत्फलमाह शातातपः । प्रीत्या श्राद्धं तु कर्तव्यं सर्वेषां वर्णलिड्गिनाम् । एवं कुर्वन्नरः सम्यड् महतीं श्रियमाप्नुयात् । ब्राह्मणो ह्यसवर्णस्य यः करोत्यौ देहिकम् । तद्वर्णत्वमवाप्नोति इह लोके परत्र च । दौहित्रेण तु सपिण्डीकरणादिव्यतिरेकेण यदा यदा पितृश्राद्धं तदा तदा मातामहश्राद्धं कर्तव्यमेव । पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । अविशेषेण कर्तव्यं विशेपान्नरकं व्रजेत् । तत्पिण्डपितृयज्ञव्यतिरिक्तविपयम् । अन्वष्टकासु पूर्व सुरातर्पणेन तथैव पश्चादन्वष्टक्यां त्रिपार्वणं सपिण्डीकरणम् । यः पुनर्धनहारी दौहित्रस्तेन त्ववश्यं नवश्राद्धाद्यपि कार्यमेव । क्षयाहे तु एकपार्वणमेव साग्निकानामेकोद्दिष्टं वा । यो यत आददीत स तस्यैव श्राद्धं कुर्यादिति स्मरणात् । मातामह्यं नवश्राद्धमवश्यं धनहारिणा दौहित्रेण कार्यम् । दौहित्रेणार्थनिष्कृत्य कर्तव्यं विधिवत्सदा । आदेहपतनाकुर्यात्तस्य पिण्डोदकक्रियाम् । यस्तु केवलं मातामहेन संवद्धः पुत्रिकापुत्रः स मातामहस्यैव नियमेन श्राद्धं कुर्यात् । पुत्रिकापुत्रश्राद्धे विशेपमाह मनु:-मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीयमपि तपितुः । द्वयामुष्यायणे पुत्रिकापुने उगनसोक्तो विशेषः-मातामह्यं तु मानादि
१ न ददक्षे फलं जनयितुं न शशाक इति सायणाचार्यभाष्ये ।
-
-
-