________________
४६३
कण्डिका ३ ]
परिशिष्टम् ।
पैतृकं पितृपूर्वकम् । मातृतः पितृतो यस्मादधिकारोऽस्ति धर्मत इति । क्षेत्रज्ञे तु द्वयामुष्यायणे देवलोक्तम् । द्वयामुष्यायणका दद्युर्द्वाभ्यां पिण्डोदकं पृथगिति । द्वाभ्यां पितृवर्गाभ्यामित्यर्थः । द्विपितुः पिण्डदानं स्यात्पिण्डे 'पिण्डे द्विनामता । पण्णामन्त्र त्रयः पिण्डा एकैकं तु क्षयेऽहनि । पोषकः प्रथमः ततो जनकः । अत्र क्रमविशेषमाह । मरीचिः - सगोत्रो वाऽन्यगोत्रो वा यो भवेद्विधवासुतः । पिण्डश्राद्धविधानं च क्षेत्रि प्राग्विनिर्वपेत् । वीजिने तु ततः पश्चात्क्षेत्री जीवति चेत्कचित् । वीजिने दद्युरादौ तु मृते पश्चात्प्रदीयत इति । जीवत्पितृकस्यापि क्वचित्कचिच्छ्राद्धाधिकारः । तत्र मैत्रायणीयपरिशिष्टे विशेषो दर्शिनः - उद्वाहे पुत्रजनने पित्र्येट्यां सौमिके मखे । तीर्थे ब्राह्मण आयाते पडे ते जीवतः पितुः । पुत्रस्य श्राद्धकाला इतिशेषः । जीवत्पितृकेण आश्विन प्रतिपदि मातामह श्राद्धं फलातिशयप्राप्तये नियमेन कार्यम् । जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले | कुर्यान्मातामह - श्राद्धं प्रतिपद्याश्विने सिते इति । अथ श्राद्धात्राह्मणलक्षणम् । तत्र महाभारते --- विद्यावेदव्रतस्त्नाता ब्राह्मणाः सर्व एव हि । सदाचारपराश्चैव विज्ञेयाः सर्वपावनाः । पाङ्क्तेयांस्तु प्रवक्ष्यामि ज्ञेयास्ते पतिपावनाः । तृणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः पडङ्गवित् । ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः । मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुपः । ऋतुकालाभिगामी च धर्मपत्नीपु यः सदा । वेदविद्याव्रतनातो विप्रः पङ्क्ति पुनात्युत । अथर्वशिरसोऽन्येता ब्रह्मचारी यतत्रतः । सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः । ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः । मखेषु च समन्त्रेषु भवन्त्यवभृथप्लुताः । अक्रोधना चपलाः क्षान्ता दान्ता जितेन्द्रियाः । सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत्त इति । यथोक्तगुणाभावे किंचिद्धीनगुणाश्च वैश्वदेविकार्थमुपवेशनीयाः । पित्र्ये तु यथोक्तगुणा एव भोज्याः । गयायां तु निर्गुणा अपि तत्रस्था एव द्विजा भोज्याः । यथोक्तद्विजाभावे मातामहमातुलस्वस्त्रीयश्वशुरदौहित्रजामातृऋत्विग्याज्यशिष्या अपि गुणवन्तश्चेच्छ्राद्ध भोजनीयाः । अथैकस्यापि ब्राह्मणस्यालाभे अनुकल्पान्तरमुक्तं प्रभासखण्डे - अलाभे ब्राह्मणस्यैव कौश: कार्यो वदुः प्रिये । एवमप्याचरेच्छ्राद्धं पड़्दैवत्यं समाहितः । विभक्तिङ्कारयेद्यस्तु पितृहा स प्रजा - यते । कौशः कुशमयो बटुः लवुमनुष्यप्रकृतिः तं बटुं त्राह्मणत्वेन परिकल्य सर्व श्राद्धं समाचरेत् । विभक्तिः कर्मणश्छेदो लोप इति यावत्, तन्न कुर्यात् । " पात्राभावेऽखिलं कृत्वा पितृयज्ञविधिं नरः । निधाय वा दुर्भवनासनेषु समाहितः । प्रेषानुप्रेषसंयुक्तं विधानं प्रतिपादयेत् । सर्वाभावे क्षिपेदग्नौ गवे दद्यादथाप्सु वा । नैव प्राप्तस्य लोपोऽस्ति पैतृकस्य विशेषतः " इति देवलः । प्रैपानुप्रैषसंयुक्तमिति श्राद्धं संपन्नमित्यादिप्रैषप्रतिवचने स्वयमेव वदेदित्यर्थः ॥ अथ नियमाः ॥ मनोवाक्कर्मभिरहिसा निमन्त्रितत्राह्मणा परित्यागस्ताम्बूलञ्जरकर्माभ्यञ्जनदन्तधावनपरित्यागश्चेति कर्तृनियमाः । निमन्त्रणमभ्युपगम्यानपक्रमणमन्यत्राभोजनमेकत्र निमन्त्रितस्यान्येषामन्नादेरप्यग्रहणम् । आहृतस्य कुतपकालाद्यनतिक्रमणम् । इति द्विजनियमाः । निमन्त्रणादुपरि श्राद्धान्नव्यतिरिक्तभोजनपुनर्भोजनासत्यवादिताशौचमत्वरितत्वमृतौ स्वदारेष्वपि नियुक्तस्यापि मैथुनाकरणं विशेषतः शूद्रायाः परिहरणम् । श्रमस्वाध्यायको वक्रौर्य कलहद्यूतभारोद्वहनप्रतिग्रहप्रमादमुदमोहलो भाहङ्कारकार्पयस्तेयवर्जनम् । इत्युभयनियमाः । अथ श्राद्धदिनात्प्राचीन दिनकृत्यम् । तत्र कर्ता स्वगृहे निरामिप भुक्त्वा ब्राह्मणनिमन्त्रणं प्रदोपान्ते करोति । विष्णुस्मरणं प्राणायामत्रयं कृत्वा यज्ञोपवीती उदड्मुखः प्राङ्मुखस्य द्विजस्य दक्षिणञ्जानूपस्पृश्य ॐ दैवे क्षणः क्रियतामिति वदेत् । ॐ प्रत्युक्तिः । प्राप्नोतु भवानित्युक्ते प्राप्तवानीति प्रत्युक्तिः । तत अक्रोधनैरित्यादि श्रावयेत् । एवं मातामहविश्वदेवसंवन्धिनिमन्त्रणम् । ततः प्राचीनावीती दक्षिणाभिमुख उदङ्मुखद्विजस्य दक्षिणञ्जानूपस्पृश्य अमुकगोत्रस्यामुकशर्मणोऽस्मत्पितुः सपत्नीकस्य श्राद्धे क्षणः क्रियतामित्यादि । एवमयं
I