Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 478
________________ ४७२ पारस्करगृह्यसूत्रम् । श्राद्धसूत्रपृथगुपदिश्य दद्यान्न तन्त्रेणेति । एवं च सति अस्मत्पितरमुकमर्शनस्मत्पितामहामुकाशर्मनस्मयपितामहामुकशर्मन्नित्यादि पृथक् पृथगुद्दिश्य वाक्यान्ते इदमन्नं घृतादिसहितं वः स्वधानम इत्युभयविध वाक्यमुचितमित्याभाति तत्र पृथग्भावयोरुपदेशात् । अथ च-ब्राह्मणा विप्रसंपत्तावेकैकस्यापि ते त्रयः । एको वैकस्य भोक्तव्यस्त्रयाणामेक एव वेति वचनात्पृथगद्विजपक्षे पृथगुपदेशः । त्रयाणामेकद्विजपक्षे तन्त्रेणेत्यविरोधः । अत्रैके इदमन्नं वः स्वधेति संकल्पे न ममेति स्वस्वत्वपरित्यागं न कुर्वन्ति । तद्युक्तम् । स्वसत्तानिवर्तनस्योक्तत्वात् । तथा चात्रिः-हस्तेन मुक्तमन्नाद्यमिदमन्नमुदीरयेत् । स्वाहेति च ततः कुर्यात्स्वसत्ताविनिवर्तनम्। संबन्धगोत्रनामानि इदमन्नं ततः स्वधा । पितृक्रमादुर्यन्ते स्वसत्ता विनिवर्तयेत् । धर्मप्रदीपेऽपि-सिद्धान्नस्य तु संकल्पो भूमावेव प्रदीयते । हस्तेषु दीयमानं यत् पितॄणां नोपतिष्ठते । भूमिर्जनित्री सर्वेषां भूतानां च विशेषतः । तत्रोपतिष्ठतेऽनं तु न च हस्ते कदाचन । मञ्जरिकारोऽपि-दीपमन्नं च पिण्डं च भूमौ दद्याद्विचक्षणः । पूर्वदानानि विप्राणां करे दद्याच्च दक्षिणे । तथा-तिलदर्भसमायुक्तं तोयं भूमौ प्रदापयेत् । पात्रस्य संनिधौ पित्र्ये देवेऽपि च समन्वितम् । वैश्वदेवस्य वामे तु पितृपात्रस्य दक्षिणे । संकल्पोदकदानं स्यात् नित्यं श्राद्धे यथाविधीति । अकृते संकल्पेऽन्नं द्विजा न स्पृशेयुः । पात्रं च नोद्धरेयुः । असंकल्पितमन्नायं पाणिभ्यां यदुपस्पृशेत् । अभोज्यं तद्भवेदन्नं पितॄणां नोपतिष्ठते । धर्मप्रदीपेऽपि-अकृते अन्नसंकल्पे यः पात्रं चोद्धरेद्विजः। वृथा श्राद्धमवाप्नोति दाता च नरकं ब्रजेदिति । संकल्पानन्तरं प्रागपोशनादन्नं न गृह्णीयात् । तथा च तत्रैव-अन्नं दत्तं न गृहीयाद्यावत्तोयं न संपिवेत् । अपीत्वा मर्दितं चान्नं भुञ्जते किल राक्षसाः । तथा हस्तेनान्नं न गृह्णीयाद्यावचोयं न संपिवेत् । अपीत्वा मर्दयेदनं निराशाः पितरो गताः । 'शत्त्या वा' वाशब्दोऽभावे न विकल्पे । स्विष्टाभावे शक्त्यनुसारेण दद्यादित्यर्थः । यद्यप्यशक्तस्तथाऽपि मांसगोधूमादेरवश्यकत्वमवगन्तव्यम् । तथा च स्कन्दसंवादश्राद्धे मांसं न यो दद्यान्न वाश्नाति कुतर्कतः । नरकाहावुभौ श्रौतस्मार्तधर्मस्य लोपनात् । वृद्धयाज्ञवल्क्योऽपि--विना मांसेन याद्धं कृतमप्यकृतं भवेत् । कन्यादाः पितरो यस्मादलामे पायसादयः । जातूकोऽपि-दरवान् यो द्विजः श्राद्धे दद्यान्नो मांसवत्सरे ? । स दुरात्मा दुराचारो वेदमार्गस्य दृषकः । तत्रैव संवादे-रोमाणि कूर्मपृष्ठे चेन्नृणां चेच्छृङ्गसंभवः । व्योम्नश्च मुष्टिना घात: सस्थितेद्रक्तपा वपुः । तदोपतिष्ठते स्कन्द दत्तं श्राद्धं निरामिषम् । तस्मात्सर्वप्रयत्लेन आद्धं देयं हि सामिपम् । अभोज्य विप्रान्यः श्राद्धे मांसमन्यांस्तु भोजयेत् । स्वयमभाति वा मूढः स याति नरकं ध्रुवम् । अत्रिः-आगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेदिति । अत्रैक्रे विवदन्ते । फलमूलाशनैर्मेध्यैर्मुन्यनानां च भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्जनादिति मनुवचनात् , मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः । मधुप्रधानं शूद्रस्य सर्वेषांऽनाविशेषतः । इति पुलस्त्यवचनाच मुन्यन्नप्राधान्यावगतेमासं क्षत्रविद्धिपर्य न ब्राह्मणस्येति । अन्ये वाहु:-क्रयादिलब्धमांसेन श्राद्धं न प्राणिहिंसनपूर्वकम् । इति । तथा च मनुः-नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वयस्वस्मान्मांसं विवर्जयेत् । समुत्पत्तिं च मांसस्य वधवन्धाय देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य वर्जनात् । भीष्मोऽपिन हि मांसं तृणात्काप्टादुपलाद्वापि जायते । हत्वा जन्तून्भवेन्मांस तस्मात्तत्परिवर्जयेन् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते । अहो मांसस्य दौरात्म्यं प्रत्यक्षमिह दृश्यते । अन्यञ्च, यूपं छित्त्वा पशु हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते खर्गे नरके केन गम्यते इति । अपर आहुः-कलिविपये मांसनिपंधो विधिस्त्वन्यविपय इति । तथा च-अक्षता गोपशुश्चैव श्राद्धे मांस तथा मधु । देवरेण सुतोत्पत्तिः कलौ पञ्च विवर्जयेदिति । देशाचारविषयों निषेध इत्यन्ये । तस्मान्मांसं श्राद्धे न देयमिति । अत्रोच्यते यदुक्तं मुन्यन्नं ग्रामणस्येति प्राधान्य

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560