________________
४७२ पारस्करगृह्यसूत्रम् ।
श्राद्धसूत्रपृथगुपदिश्य दद्यान्न तन्त्रेणेति । एवं च सति अस्मत्पितरमुकमर्शनस्मत्पितामहामुकाशर्मनस्मयपितामहामुकशर्मन्नित्यादि पृथक् पृथगुद्दिश्य वाक्यान्ते इदमन्नं घृतादिसहितं वः स्वधानम इत्युभयविध वाक्यमुचितमित्याभाति तत्र पृथग्भावयोरुपदेशात् । अथ च-ब्राह्मणा विप्रसंपत्तावेकैकस्यापि ते त्रयः । एको वैकस्य भोक्तव्यस्त्रयाणामेक एव वेति वचनात्पृथगद्विजपक्षे पृथगुपदेशः । त्रयाणामेकद्विजपक्षे तन्त्रेणेत्यविरोधः । अत्रैके इदमन्नं वः स्वधेति संकल्पे न ममेति स्वस्वत्वपरित्यागं न कुर्वन्ति । तद्युक्तम् । स्वसत्तानिवर्तनस्योक्तत्वात् । तथा चात्रिः-हस्तेन मुक्तमन्नाद्यमिदमन्नमुदीरयेत् । स्वाहेति च ततः कुर्यात्स्वसत्ताविनिवर्तनम्। संबन्धगोत्रनामानि इदमन्नं ततः स्वधा । पितृक्रमादुर्यन्ते स्वसत्ता विनिवर्तयेत् । धर्मप्रदीपेऽपि-सिद्धान्नस्य तु संकल्पो भूमावेव प्रदीयते । हस्तेषु दीयमानं यत् पितॄणां नोपतिष्ठते । भूमिर्जनित्री सर्वेषां भूतानां च विशेषतः । तत्रोपतिष्ठतेऽनं तु न च हस्ते कदाचन । मञ्जरिकारोऽपि-दीपमन्नं च पिण्डं च भूमौ दद्याद्विचक्षणः । पूर्वदानानि विप्राणां करे दद्याच्च दक्षिणे । तथा-तिलदर्भसमायुक्तं तोयं भूमौ प्रदापयेत् । पात्रस्य संनिधौ पित्र्ये देवेऽपि च समन्वितम् । वैश्वदेवस्य वामे तु पितृपात्रस्य दक्षिणे । संकल्पोदकदानं स्यात् नित्यं श्राद्धे यथाविधीति । अकृते संकल्पेऽन्नं द्विजा न स्पृशेयुः । पात्रं च नोद्धरेयुः । असंकल्पितमन्नायं पाणिभ्यां यदुपस्पृशेत् । अभोज्यं तद्भवेदन्नं पितॄणां नोपतिष्ठते । धर्मप्रदीपेऽपि-अकृते अन्नसंकल्पे यः पात्रं चोद्धरेद्विजः। वृथा श्राद्धमवाप्नोति दाता च नरकं ब्रजेदिति । संकल्पानन्तरं प्रागपोशनादन्नं न गृह्णीयात् । तथा च तत्रैव-अन्नं दत्तं न गृहीयाद्यावत्तोयं न संपिवेत् । अपीत्वा मर्दितं चान्नं भुञ्जते किल राक्षसाः । तथा हस्तेनान्नं न गृह्णीयाद्यावचोयं न संपिवेत् । अपीत्वा मर्दयेदनं निराशाः पितरो गताः । 'शत्त्या वा' वाशब्दोऽभावे न विकल्पे । स्विष्टाभावे शक्त्यनुसारेण दद्यादित्यर्थः । यद्यप्यशक्तस्तथाऽपि मांसगोधूमादेरवश्यकत्वमवगन्तव्यम् । तथा च स्कन्दसंवादश्राद्धे मांसं न यो दद्यान्न वाश्नाति कुतर्कतः । नरकाहावुभौ श्रौतस्मार्तधर्मस्य लोपनात् । वृद्धयाज्ञवल्क्योऽपि--विना मांसेन याद्धं कृतमप्यकृतं भवेत् । कन्यादाः पितरो यस्मादलामे पायसादयः । जातूकोऽपि-दरवान् यो द्विजः श्राद्धे दद्यान्नो मांसवत्सरे ? । स दुरात्मा दुराचारो वेदमार्गस्य दृषकः । तत्रैव संवादे-रोमाणि कूर्मपृष्ठे चेन्नृणां चेच्छृङ्गसंभवः । व्योम्नश्च मुष्टिना घात: सस्थितेद्रक्तपा वपुः । तदोपतिष्ठते स्कन्द दत्तं श्राद्धं निरामिषम् । तस्मात्सर्वप्रयत्लेन आद्धं देयं हि सामिपम् । अभोज्य विप्रान्यः श्राद्धे मांसमन्यांस्तु भोजयेत् । स्वयमभाति वा मूढः स याति नरकं ध्रुवम् । अत्रिः-आगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेदिति । अत्रैक्रे विवदन्ते । फलमूलाशनैर्मेध्यैर्मुन्यनानां च भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्जनादिति मनुवचनात् , मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः । मधुप्रधानं शूद्रस्य सर्वेषांऽनाविशेषतः । इति पुलस्त्यवचनाच मुन्यन्नप्राधान्यावगतेमासं क्षत्रविद्धिपर्य न ब्राह्मणस्येति । अन्ये वाहु:-क्रयादिलब्धमांसेन श्राद्धं न प्राणिहिंसनपूर्वकम् । इति । तथा च मनुः-नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वयस्वस्मान्मांसं विवर्जयेत् । समुत्पत्तिं च मांसस्य वधवन्धाय देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य वर्जनात् । भीष्मोऽपिन हि मांसं तृणात्काप्टादुपलाद्वापि जायते । हत्वा जन्तून्भवेन्मांस तस्मात्तत्परिवर्जयेन् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते । अहो मांसस्य दौरात्म्यं प्रत्यक्षमिह दृश्यते । अन्यञ्च, यूपं छित्त्वा पशु हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते खर्गे नरके केन गम्यते इति । अपर आहुः-कलिविपये मांसनिपंधो विधिस्त्वन्यविपय इति । तथा च-अक्षता गोपशुश्चैव श्राद्धे मांस तथा मधु । देवरेण सुतोत्पत्तिः कलौ पञ्च विवर्जयेदिति । देशाचारविषयों निषेध इत्यन्ये । तस्मान्मांसं श्राद्धे न देयमिति । अत्रोच्यते यदुक्तं मुन्यन्नं ग्रामणस्येति प्राधान्य