________________
कण्डिका ३] परिशिष्टम् ।
४७१ पितृदेवमनुष्याणां स्त्री सहाये यतः स्मृतेति तदन्यापेक्षया स्वाशक्ती वा वेदितव्यम् । न विना कुशानिति केवलप्रतिषेधः, हस्त दत्तं तु यत्स्नेहव्यञ्जनं लवणादिकम् । दातारं नोपतिष्ठन्ते भोक्ता भुते तु किल्विषम् । घृतं वा यदि वा तैलं विप्रो दद्यान्नखच्युतम् । यमस्तदशुचिं पाह तुल्यं गोमांसभक्षणमिति वचनात् । कात्यायनोऽपि-चतुःस्रोतःसमायुक्तो हस्तेनोन्मार्जयेद्धतम् । उभावधो व्रजेयातां दाता भोक्ता न संशयः । उन्मायेच्छोधयेत् । क्वतन्नखैश्चतुर्भिश्च यो दद्यात्पाणिना घृतम् । दाता पुण्यं न चाप्नोति भोक्ता पापशतं ब्रजेदिति । अपहता इति मन्त्रः पित्र्य एव न वैश्वदेवे स्वत एव रक्षोन्नत्वादिति कर्कः । तूष्णी यवानित्यन्ये । अत्र यद्यप्यन्नादिकल्पनं नोक्तं तथा पीदमन्नमिमा आप इदमाज्यं इदं हव्यमित्यन्नादिकल्पनं कार्यम् । तथा च कात्यायन:-उभाभ्यामपि हस्ताभ्यां पात्रं कृत्वा तु तदृढम् । मोचयेद्दक्षिणं हस्तमन्ने तत्कल्पयेत्सदा । तथा-पर्शनान्ते स्पृशेदन्नं कल्पनान्ते बलिं हरेदिति । अत्र कश्चिदाह कव्यादि नोचरेदिति । तदयुक्तम् । विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमादिति मनूक्तेः । पुराणसमुच्चये हन्यं दैवे समुच्चार्य पितृणां कन्यमेव च । कन्यस्योच्चारणादेव प्राप्नुयुस्तृप्तिमुत्तमाम् । कव्यादाः पितरः प्रोक्तास्तस्मात्कन्यं प्रकीर्तयेत् । इति । अनैतञ्चिन्त्यते-कि परिवेषणे सन्यापसव्यविधिरस्ति न वेति । अत्रैक आहुरस्तीति । तद्युक्तम् । उभयत्र सव्येन विहितत्वात् । तथा च कार्णाजिनिः-अपसव्येन कर्तव्यं पित्र्यं कृत्यं विशेपतः । अन्नदानाहते सव्यमेवं मातामहेष्वपि । भरद्वाजोऽपि-सर्व कर्मापसव्येन पितृकर्मणि कुर्वता । अन्नदानाहते कार्य तद्वद्विप्रविसर्जनमिति । तथा-एकपङ्कथुपविष्टानां विप्राणां श्राद्धकर्मणि । भक्ष्यं भोज्यं समं दद्याद्विपरीतं तु निष्फलम् । तथा न पश्यां विषमं दद्यादिति । 'उष्णस्विष्टमन्नं दद्यात् । उष्णमिति पर्युषितापूपादिव्युदासार्थम् । तेन स्मृत्युक्तमपि पर्युषितमपूपादि श्राद्धेपु न दद्यादित्यर्थः । तद्विधिश्व-यवगोधूमजं सर्व पयसश्चैव विक्रिया । तत्पर्युपितमप्याचं स्नेहाक्तं चैव यद्भवेदित्यादि । अत्रैके पर्युपितमशुक्तं देयमित्याहुः । तथा च यमः-अपूपाश्च करम्भाश्च धानावटकसक्तवः । शाकं मांसमपूपं च घृतं केशरमेव च । यवागूः पायसं चैव यच्चान्यत्स्नेहसंयुम् । सर्वं पर्युषितं भोज्यं शुक्तं चेल्परिवर्जयेत् । देवलोऽपि-अभोज्यं प्राहुराहारं शुक्तं पर्युषितं च यत् । अन्न ब्रीह्या(दिपि)प्टापूपभक्षणार्थ पुनरपूपोक्तिः । शङ्खोऽपि-धि भक्ष्यं च शुक्केषु सबै च दधिसंभवम् । ऋजीवपक्वं भक्ष्यं स्यात्सर्पिर्युक्तमिति स्थितिः इति । तन्नातीव शोभते । अशक्तपर्युपितस्य दृष्टयादिदोषोपहतत्वेन नित्यभोजनविषयत्वात् । तेषामप्युष्णानामेव श्राद्धोपयुक्तत्वाच्च । तथा चादित्यपुराणे-विविधं पायसं दद्याद्रक्ष्याणि सुवहूनि च । स्निग्धोष्गानि च यो दद्यादग्निष्टोमफलं लभेदिति । करम्मो दधियुक्तसक्तवः इटका कासारखण्डः कृशरस्तिलकल्कमिश्रितोदनः। सुबहूनीति सुशव्देन नैर्मल्यं विविधत्वं च दर्शयति । तथा च यमः-ततो विशदमन्नाद्यं भोजयेत्पयतो द्विजान् । अन्नं सूपं घृतं शाकं मांसं दधि पयो मधु । धानांश्च मधुसंयुक्तानिहूंश्चैव सगोरसान् । शर्कराफलमूलं च सर्व दद्यादमत्सरीति । मनुरपिभक्ष्यं भोज्यं च विवियं मूलानि च फलानि च । हृद्यानि चैव मांसानि पानानि सुरभीणि च । विविधमित्येकान्ननिषेधः । तथा च-ततोऽन्नं वहुसंस्कारं नैकव्यञ्जनभक्ष्यवत् । चोष्यपेयसमृद्धं तु यथाशक्त्युपकल्पयेदिति वचनात् । अन्नमित्यदनीयम् । अथवान्नमिति पक्वस्य संज्ञा । सत्यं क्षेत्रगतं प्राहुः सतुपं धान्यमुच्यते । आमान्नं वितुषं ज्ञेयं पक्वमन्नमुदाहृतम् । इति वचनात् । तेन संभवे सत्यामानादिकं न देयमित्यर्थः । दद्यादिति यथोक्तसंकल्पवाक्यं दर्शयति । अत्रैके अर्धेश्य्योदके चैवेति कात्यायनेनान्नदाने तन्त्रस्य दर्शितत्वादस्मत्पितृपितामहप्रपितामहा अमुकामुकशर्माण इत्याद्युच्चार्य तृतीयांशस्तेभ्यः स्वधेति तन्त्रेण दद्यादित्याहुः । अन्ये तु अन्नमसावेतत्त इत्युद्दिश्य भोजयेदिति शाङ्खायनोक्तरमुकामुकगोत्रैतत्तुभ्यमन्नं स्वधा नम इति ब्रह्मपुराणोक्तत्वाञ्च