________________
४७० पारस्करगृह्यसूत्रम्।
[श्राद्धसूत्रम्भने । इति । अत्रैके विवदन्ते-हुतशेषं दैवपात्रेषु न देयमिति । तथा च यमः-अग्नौकरणशेषं तु पिन्येऽपि प्रतिपादयेत् । पितृपाद्य पितॄणां तु न दद्याद्वैश्वदेविके इति । हुत्वाग्नौ परिशिष्टं त्रिति प्रागुक्तम् । वायुपुराणेऽपि हुत्वा दैवकरे साग्निः शेषं पित्र्ये निवेदयेत् । नहि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैरिति । अन्ये वाहुरविशेपात्सर्वेभ्यो देयमिति । तथा च याज्ञवल्क्यःहुतशेषं प्रदद्यात्तु भाजनेषु समाहित इत्यादि(र)विशेषः । देवलोऽपि यत्र यत्क्रियते कर्म पैतृके ब्राह्मणान्प्रति । तत्सर्वं तत्र कर्तव्यं वैश्वदेवत्वपूर्वकम् । इति । सूत्रकारोऽपि दैवपूर्व श्राद्ध. मिति । अत्रोच्यते-आये यदुक्तं न देयमिति तयुक्तम्, वचनार्थानवबोधात् । तथाहिअग्नौकरणशेषं तु पित्र्येऽपि प्रतिपादयेदित्यपिशब्दाईवेऽपि शेषदानोपपत्तेः । किं च पितृणां प्रतिपाद्य वैश्वदेवे न दद्यादपि तु पूर्व देवे तदनु पित्र्य इत्यथोंपलब्धेः । यत्तूक्तम्-हुत्वाग्नाविति वचनं तत्साग्निविषयम् । यच्चाभिहितं हुत्वा दैवकरे साग्निरिति तत्र देवकरे हुत्वा शेषं पित्र्ये दद्यान्न तु पित्र्ये हुत्वा शेषं देवेषु दद्यादित्यर्थः । अतोऽर्थानवबोधादयुक्तमित्युक्तम् । द्वितीयोऽपि नातीव शोभते । उक्तहेतुत्वात्साग्निनिरग्न्योर्विशेषावगतेः । न चोभयोर्वचनव्यक्तौ सत्यामविशेषो युक्तः [कुत्रचिद्विषथान्तरस्य दृश्यमानत्वात् ?] । ततश्चायमर्थः साग्नेरग्निहोमाद्देवतृप्तेर्तुतशेषदानं पितृपात्रेष्वेव । निरग्निर्देवकरहोमे पितृपात्रेष्वेव पिन्यकरहोमे तु निरग्नेर्देवादिसर्वपात्रेपु हुतशेषदानमिति । तथा च शाट्यायनः । हुतशेषं पूर्व देवे दत्त्वा पश्चापित्र्ये दद्यादिति । कात्यायनोऽपि-विप्रपाणौ ततो हुवा दद्याच्छेषं पृथक् पृथक् । देवानामादितः कृत्वा पितृपात्रेषु च क्रमात् । वृद्धमनु:-दैवपूर्व यतः श्राद्धं तस्माद्दद्यात्प्रयत्नतः । अग्नौकरणशेषं च देवानामादितः क्रमात् । वैश्वदेवादितः सर्वे विकिरं पिण्डवजितम् । अग्नौकरणशेषं यत्प्रयाद्वैश्वदेविके । धर्मप्रदीपेऽपि-कुशेषत्तानपाणिस्तु जुहुयाद्वै घृतप्लुतम् । शेष देवाय दातव्यं पितृभ्यस्तदनन्तरम् । इति । साग्निदैवपूर्व दद्यान्निरग्निर्नेत्यविरोध इति कश्चित् । एवं दत्त्वा पिण्डार्थमवशेषयत् । तथा च हारीतः-हुतोच्छिष्टं ब्राह्मणेभ्यः प्रदाय पिण्डार्थमवशेषयेत्। धर्मप्रदीपेऽपि-अग्न्यभावे तु विप्रस्य हस्ते हुत्वा तु दक्षिणे । शेषयेपितृविप्रार्थ पिण्डाथै शेषयेत्तथेति । 'वैष्णव्यर्चा यजुषा वाङ्गुष्ठमन्नेवगाह्यापहता इति तिलानवकीयेति' वाशब्दः समुच्चयनिवृत्तौ। वैष्णवी ऋगिदंविष्णुरित्यादिका, यजुश्च विष्णो हव्यं रक्षेति तयोरेकतरमन्त्रेणानखं द्विजाङ्गुष्ठमन्ने निवेश्यापहता इति मन्त्रेण तिलानां समन्तात्प्रदक्षिणादि यथोपदेशं विकिरेदित्यर्थः । निरड्गुष्ठं प्रदत्तं हि पितॄणां नोपतिष्ठते इति वचनात् । नोपतिष्ठत इत्यासुरं भवतीत्यर्थः । तथा च यमः-निरगुष्ठं तु यच्छ्राद्धं बहिर्जानु च यद्धृतम्। बहिर्जानु च यद्भुक्तं सर्वमेवासुरं भवेदिति । अत्रैके तिलानन्नपात्रेध्वप्यवकिरन्ति । तन्न। तिलान्सर्वत्र निक्षिप्य पितृपात्रेषु वर्जयेत्। पितृपात्रे तिलान्दद्यान्निराशाः पितरो गताः इति वचनात् । पाराशरोऽपि-सर्वदा च तिला पाह्याः श्राद्धकाले विशेषतः । पात्रेषु पतितान्दृष्ट्वा निराशाः पितरो गताः इति । यत्तु ततो मधुघृताक्तं तु सोष्णमन्नं तिलान्वितम् । गृहीत्वा देवतीर्थेन प्रणवेनैव तत्पुनः । एतद्वोअन्नमित्युक्त्वा विश्वेदेवांस्तु भोजयेदित्यत्र तिलान्वितत्वमन्नस्योक्तं तद्वैश्वदेवविषयम् । परिवेषणे तिलाक्षेपविषयं वा । तथा च मत्स्यपुराणे-उभाभ्यामपि हस्ताभ्यामाहत्य परिवेषयेत् । प्रशान्तचित्तः सतिलं दर्भपाणिरशेषतः, इति सतिलमन्नमुभाभ्यां हस्ताभ्यां परिवेषयेन्नैकहस्तेनेत्यर्थः । तथा च-एकेन पाणिना दत्तं शूद्रादन्नं न भक्षयेत् । पुराणेऽपि नापवित्रेण हस्तेन नैकेन न विना कुशान् । नायसे नायसेनैव श्राद्धे तु परिवर्जयेदिति । एकायसशब्दे सप्तमी । तत्पात्रेऽन्नं न धार्यमित्यर्थः । सौवर्णरजताभ्यां च खड्डेनौदुम्बरेण वा । दत्तमक्षय्यतां याति फल्गुपात्रेण चान्यथेति वचनात् । फल्गु उदुम्वरः । नापवित्रेणेति सपवित्रकरः स्वयं परिवेषयेदित्यथः । फलस्यानन्तता 'प्रोक्ता स्वयं तु परिवेषण इति वायुपुराणवचनात् । यत्त-परिवेषणं प्रशस्तं हि भार्यया पितृतृप्तये ।