________________
परिशिष्टम् ।
कण्डिका ३ ]
तादिधर्मप्राप्तौ देवद्विजकरे तद्धर्मानुपपत्तेः । तस्मात्साग्नीनामग्न्यसंनिधानादौ काम्यादिचतुःश्राद्धेषु पित्र्यद्विजहस्त इतरत्राग्नाविति सिद्धम् । तथा च गृह्यकारः - आन्वष्टक्यं च पूर्वेद्यर्मा सिमास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टकम् । चतुर्ष्वद्येषु साम्नीनां वहौ होमो विधीयते । पित्र्यत्राह्मणहस्ते स्यादुत्तरेषु चतुर्ष्वपीति । आन्वष्टक्यं नवमी श्राद्धम् । एकोद्दिष्टं लक्षणया सपिण्डीकरणश्राद्धम् । तथा चायमर्थः -- आहिताः सर्वाधानपक्षे दक्षिणाम्नौ अर्घाधान औपासने स्मार्ताग्नेः सत्यग्नौ तत्रैव । उभयोरप्यग्न्यसंनिधाने चाऽऽवश्यकश्श्राद्धे संनिहितेऽप्यग्नौ काम्यादिचतुर्षु श्राद्धेषु च पित्र्यद्विजहस्त एव । निरनीनां वा (ज) सनेयिप्रभृतीनां पिण्डयज्ञादावपसव्यादिना पित्र्यद्विजहस्त एव । साग्निसामगादीनामग्न्यसंनिधौ सव्यादिना दैवपित्र्यकरयोर्विकल्पः । निरग्नीनां तेपां सव्यादिना दैवद्विजकर एवेति । यन्तु पित्र्ये यः पङ्क्तिमूर्धन्यस्तस्य पाणावनग्निमानिति कात्यायनवचनं तस्य सामगपरतयाऽयमर्थः -- पित्र्ये देवपितृमातामह श्राद्धे यः पङ्क्तिमूर्धन्यः प्रथमोपवेशितो दैविकद्विज इत्यर्थः । अन्यशाखिविषये तु पैठीनसिः--पितृपङ्गिषु मूर्धन्यस्तस्य पाणावनन्निमानिति प्राक्प्रदर्शितमिति सर्वमनवद्यम् । ननु चाप्नौकरणं किं प्रतिश्राद्धं किं वैकपङ्काविति । तथा ह्युक्तम् — दैवपूर्वं हि तत्कुर्यात्पितृभ्यस्तदनन्तरम् । कात्यायनोऽपि — मातामहस्य भेदेऽपि कुर्यात्तन्त्रेण सानिक इति । अस्यार्थः पूर्वमेवोक्तः । अत्र माधवीये दैवद्विजकरपक्षे पितृमातामहद्वयार्थं सकृदेवाग्नौकरणं पित्र्यद्विजकरपक्षे मातामहपङ्कावपि पृथक् द्वितीयमग्नौकरणमिति । पारिजाते तु मातामहपृथक् श्राद्धपक्षे मातामहपङ्कावन्नौकरणमनिसंनिधौ साग्निकः कुर्यादिति । एतदुभयमपि सदाचाराभावाच्चिन्त्यम् । अथवाश्वलायनशाखि - विषयं होमद्वयम् । वाजसनेयिनां त्वेक होम एव । तथा च वैश्वदेवे यदैकस्मिन्भवेयुर्ह्रादयो द्विजाः । तदैकपाणी होतव्यं स्याद्विधिर्विहितस्तदेतिवाक्ये वैश्वदेव इत्यस्य पित्र्योपलक्षणत्वेनैकपाणावेव होमव्यवस्थेत्यविरोधः । ' हुतशेषं दत्त्वा पात्रमालभ्य जपति पृथिवीत इति' पात्रमित्युद्देश्यगतमेकत्वमित्यविवक्षितम् । ज्योतिष्टोमे दशापवित्रेण ग्रहं संमाष्टतिवत् । अतश्च सर्वपात्रालम्भ: । कांस्यपात्रपरिमाणमाह स्मृतिः पञ्चाशत्पलिकं कांस्यं व्यधिकं भोजनाय वै । गृहस्थैस्तु सदा कार्यमभावे हेमरौप्ययोरिति । आलभ्य जपतीति मन्त्रान्त आलम्भ इत्युक्तम् । अत्रैतत्संदिह्यते-किं हुतशेषमात्रं दत्त्वा पात्रालम्भ उताहो सर्वान्नं परिविष्येति । उभयथा वचनदर्शनात् । तथा हि स्कन्देश्वरसंवादे --- विप्रप्रात्रेऽथ पृथ्वीत इति पात्राभिमन्त्रणम् । इदमन्नं च साङ्गुष्ठं ततोन्नपरिवेषणम् । याज्ञवल्क्योऽपि - हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः । यथालाभोपपन्नेषु रौप्येषु तु विशेषतः । दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणमिति । अत्रक आहुः साग्निः पूर्व परिविष्य हुतशेषं दद्यात्पात्रमालभेत निरग्निस्तु हुतशेषं दत्त्वाऽन्नं परिविष्य पात्रमालभेत । अन्नेषु परिविष्टेषु हुतशेषं ददात्यथेति वचनादिति । तदयुक्तम् । साग्निर्हुतशेषं दन्त्वैव परिवेषयेदिति क्रमस्य शौनकेन दर्शितत्वात् । तथा च हुत्वाऽग्नौ परिशिष्टं तु पितृपात्रेष्वनन्तरम् । निवेद्यैवापसव्येन परिवेषणमाचरेदिति । हुतशेषमपसव्येन निवेद्येत्यन्वयः । यत्तूक्तं निरग्निर्हुतशेषं दत्त्वान्नं परिविष्य पात्रमालभेतेति । तदसंगतम् । अन्नेषु परिविष्टेष्विति वचनस्य वैयर्थ्यापत्तेः । ततश्च साग्निर्हुतशेषं दत्त्वान्नं परिविष्य व्यस्तपाणिभ्यां पात्रमालभेत, निरग्निरन्नं परिविष्य हुतशेषं दत्त्वा तथैव पात्रमालभेतेत्यर्थः । यत्तु विप्रपात्रेऽथ पृथिवी इति वचने ततोऽन्नपरिवेषणमित्यन्नपरिवेषणस्य पात्रालम्भानन्तर्य प्रतीयते तदन्नशब्दो व्यञ्जनपर इत्यविरोधः । अद्यतेऽनेनेत्यन्नमिति व्युत्पत्तेः । तथा च पुराणसमुचये -- भाजनालम्भनं कुर्याद्दत्वा चान्नं यथाविधीति । व्यस्तपाणित्वमाह पद्मपुराणम् - दक्षिणं तु करं कृत्वा वामोपरि विधानवत् । दैवं पात्रमधालभ्य पृथ्वीते पात्रमुच्चरेत् । दक्षिणोपरि वामं च पित्र्यपात्रस्य ल
४६