________________
पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रऔपासने गृह्याग्नौ अग्न्यभावो वक्ष्यमाणः । १] तथा हस्तेऽनौकरणं कुर्यादग्नौ वा सामिको द्विजः । इति । अत्रैके माधवस्मृतिचन्द्रिकाकारादयो अग्नेरसंनिधानाद्यभावे हस्ते लौकिकाग्नौ वाऽनौकरणं साग्निकः कुर्यादित्याहुः । तथा चोदाहरन्ति-आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः । अग्न्यथै लौकिक वाऽपि जुहुयात्कर्मसिद्धये । अग्न्यथै सोमपानाग्निकार्याथै (?) लौकिकाग्निमाहृत्य । अन्ये तु कल्पतरुकारादयो लौकिकमावसथ्यामिमाहुः । तदेतद्विचारणीयम् । यद्यग्नेरसंनिधानाद्यभावे साग्नेलौंकिकाग्निस्वीकरणं स्यात्तदा-न पैतृयज्ञियो होमो लौकिकेऽनौ विधीयते, इति मनुवचनमनर्थकम् , अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेदिति नियमभङ्गश्च स्यात् । यथाऽनौकरणमिति यौगिकत्वाद्धस्तजलादिभ्यो लौकिकाग्नौ विशिष्टत्वाच साग्नेलौकिकाग्नावेवेति । तदा प्रासङ्गिकतीर्थादावपि श्राद्धप्रसक्तौ लौकिकानावग्नौकरणमतिप्रसज्येत । किं च-लौकिकेग्नौ सुसंपादवादग्न्यभाव एव न संभवतीत्यग्न्यभावे तु विप्रस्येत्यसंगतं स्यात् । तस्मात् लौकिक आवसथ्यामिरिति युक्तम् । ततश्च हस्तेऽग्नौकरणं कुर्यादग्नौ वा साग्निको द्विजः, इत्यत्र वाशब्दो व्यवस्थितविकल्पे । तेन विद्यमाने औते स्मातें वामावनौ होमस्तदसंनिधाने हस्ते न लौकिक इत्यर्थः । अग्न्यभावश्च पञ्चविधः । प्रागभावः प्रथ्वंसाभावः संनिहिताभावोधिकाराभावोत्यन्ताभावश्चेति । तत्र विवाहात्पूर्व प्रागभावः। तदूर्ध्वमाहितस्याग्नेः प्रमादादिना नाशे सति पुनराधानात्पूर्व प्रध्वंसाभावः । देशभ्रंशादनवकाशेरणिसमारोपणादौ कृते संनिधानाभावः । अशुद्धद्रव्यादिस्पृष्टेऽग्नौ प्रायश्चित्तं विनाधिकाराभावः । नैष्ठिकब्रह्मचर्येभ्यभावेनात्यन्ताभाव इति । यत्त्वग्न्यभावस्मृतस्तावद्यावदार्यान्न विदन्तीत्यभाव उक्तः सोऽयमप्येको भावः पृथग्दर्शनार्थं न त्वयमेवाभाव इति नियमाथै, पूर्वोक्तपञ्चविधाभावोपपत्तेः । तत्रामेः प्रागभावेऽत्यन्ताभावे चाग्न्यमावादग्नौ होमाभावः । प्रध्वंसाभावाधिकाराभावयोश्वावश्यकविधौ सांकल्पिकमेव श्राद्धं नाग्नाकरणम् । अरणिसमारोपणादौ संनिध्यभावे त्वावश्यकश्राद्धे सानेरपि द्विजहस्त एवाग्नौकरणमिति । तथा च व्यासः-त्यक्ताग्नेः पावणं नास्ति नको. द्दिष्टं सपिण्डनम् । त्यक्ताग्नेस्तु न पिण्डोक्तिस्तस्मात्संकल्प्य भोजयेत् । आलस्येन नास्तिक्यादिना वा योऽग्निं त्यजति तस्यैकोद्दिष्टपार्वणसपिण्डीकरणादिसर्वश्राद्धष्वनाधिकारोऽतः संकलय भोजयेत् । तव्यतिरिक्तस्यात्यक्ताग्नेरग्न्यसंनिधानेऽपि साङ्गपिण्डश्राद्धेऽधिकार इत्यर्थः । ततश्च हस्तेऽनौकरणमिति संकल्पयेत् । संकल्पं च यदा कुर्यात् न कुर्यात्पात्रपूरणम् । नावाहनाग्नौकरणं पिण्डांश्चैव न . दापयेत् । संकल्प्य तु यदा श्राद्धं न कुर्यात्पात्रपूरणम् । विकिरश्च न दातव्यमिति स्पष्टमिहोदितम् । इति । अतो लौकिकेनौ इति सिद्धम् । अथवा विधुरादीनामग्नौकरणमिमाधानाज्यभागपूर्वकं विहितं तस्य च हस्तेऽनुपयुक्तत्वात्तद्विषयं लौकिकाग्निस्वीकरणम् । यदुक्तं-हस्तेग्नौकरणमिति तत्कि देवद्विजकरे किंवा पित्र्यकरे इति । उभयथाऽपि नानावचनदर्शनात् । तथाहि यमःनाग्नौकरणवत्तत्र होमे देवकरो भवेत् । पर्यस्तदेवनादर्भानास्तीर्य यतो ह्यग्निसमो द्विजः (१) । इति । कात्यायनोऽपि-मातामहस्य भेदेऽपि कुर्यात्तन्त्रस्य साग्निकः । भेदे पृथग्वैश्वदेवश्राद्धे तत्र च साग्निकः । (?) मातामहस्यापि मातामहद्विजकरेऽपि अग्नौकरणं कुर्यादिति पिठ्यकरेऽप्यर्थादुक्तम् । तथा'अनग्निकस्य विप्रस्य हस्तेऽनौकरणं भवेत् । देवे पूर्व हि तत्कुर्यापितृभ्यस्तदनन्तरम् । अन्यदपिअनग्निकस्तु यो विप्रः श्राद्धं कुर्वीत पार्वणम् । देवपाणौ हुत्वा शेषं दद्यात्तु पैतृके । यमोऽपि-देवविप्रकरेऽनग्निः कृत्वाग्नौकरणं द्विजः । इति । एवं वचनविप्रतिपत्तौ ह्येक आहुः देवपित्र्यकरयोर्विकल्प इति । साग्निः पितृकरे निरग्निदेवकर इति । तदुभयमप्यविचारितरमणीयम् । तत्र साग्नेरग्न्यसंनिधानादौ हस्तेऽग्नौकरणं स्यादनुकल्पविधित्वेन पित्र्यद्विजहस्त एव विहितत्वात्। द्वितीय तु श्राद्धावशषष्वव हस्तेऽग्नौकरणस्य व्यवस्थितत्वादसार्वत्रिकत्वान् । किंच-पिण्डपितृयज्ञवदित्यतिदर्शन प्राचीनावी