________________
,7
कण्डिका ३ ]
परिशिष्टम् ।
1
निवृत्त्यर्थम् । तथा च हविष्यं व्यञ्जनक्षाररहितं ह्यपसव्यवदिति । घृताक्तमन्नमुद्धृत्येत्यन्वयोऽभिघारणं रन्धनपात्र एव स्यात् । अभिधार्य दक्षिणत उद्वास्येति पिण्डपितृयज्ञसूत्रादिति केचित् । तन्न | तस्यापसव्यादिविधिना साग्नेश्चरुश्रपणविषयत्वात् । अतश्चोद्धृत्य घृताक्तं कृत्वान्नं पतिमूर्धन्यमग्नौकरिष्य इति पृच्छेदित्यन्वयः । पृच्छेर्द्विकर्मकत्वात् । एवं च पात्रान्तरेऽभिघारणं सूचितम् । तथा च कात्यायनः———अग्नौकरणस्यग्निवै मधुसूक्तं जपेत्ततः । शेषमाज्येनाभिघार्य भाजनानि विशोवयेदिति । ननु च दत्त्वा पात्राणि विप्रेभ्यो जपेदोदनभाजने । आप्यायस्व समे तुत इति पात्रे सुपाचिते । क्षिपेदन्नं तु सघृतं ततोऽग्नौ करणं भवेदिति पुराणवचनात्कथं मधुसूक्तमिति उच्यते । आप्यायस्वेति मन्त्रस्य रन्धनपात्रजपविषयत्वात् । ततञ्च रन्धनपात्रे आप्यायस्वेति जपित्वा पात्रान्तरे उद्धृत्य घृतेनाभिघार्थोद्धरणपात्रे मधुसूक्तं जपेदित्यर्थः । अत्रैक अपसव्येनाग्नौकरिष्य इति पृच्छेदित्याहुः । तन्न । सव्येनैव तु पृष्ट्वा तमपसव्येन होमयेत् । पितृपतिषु मूर्वन्यस्तस्य पाणावननिमानिति पैठीनसिवचनात् । अत्रैतत्संदिह्यते । किं श्राद्धार्थ पृथक्पाक उतैक एव । तत्रैके कर्कादय आहुः । देवपि - तृमनुष्यादीनां सर्वार्थ एक एवेति । अन्ये तु पृथगिति । तदेतद्विचारणीयम् । तत्र यद्येक एवेत्युच्येत तदा सर्वसामान्येन श्राद्धपाकस्य वैशिष्ट्यानुपपत्तिः परिश्रितादियत्नविधायकवचनानां च वैयर्थ्य स्यात् । अथ पृथगुच्येत तदा वैशिष्ट्यं प्रच्छन्नादिपरिश्रितादियत्नविधायकवचनसार्थक्यं स्यात् । तस्मात्पृथक् पाक इति युक्तम् । तथा च वायुपुराणम् — पितॄणां निर्वपेद्भूमौ कूर्चे वा दर्भसंस्कृते । व्यासोऽपि चाण्डालश्वपची वज्यौं निर्वापे समुपस्थिते । लौगाक्षरपि -- पित्र्यर्थं निर्वपेत्पाकं वैश्वदेवार्थमेव चवैश्वदेवं न पित्र्य न दर्श वैश्वदेविकम् । देवलोऽपि तथैव यन्त्रितो दाता स्नात्वा प्रातः सहाम्बरः । आरभेत नवैर्भाण्डैरन्वारन्धस्तु वान्धवैः । तिलांश्च विकिरेत्तत्र सर्वतो बन्धयेदजान् । असुरोपहतं सर्वे तिलैः शुध्यत्यजेन च । ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनभक्ष्यवत् । चोष्यपेयसमृद्धं च यथाशक्त्युपकल्पये दिति । मार्कण्डेयोऽपि-पृथक्पाकेन नेत्यन्ये केचिदिच्छन्ति पूर्ववत् । नित्यश्राद्धं पृथक्पाकेन केचिदिच्छन्ति । केचिच्छ्राद्धपाका देवेत्यर्थः । अपि च मातामहपृथक् श्राद्धपक्षे पैठीनसिः - विधिहीने यतः श्राद्धे नानन्ति पितृदेवताः । पृथक्पाकेनैव तस्माच्छ्राद्धं मातामहं भवेदिति । तस्मात्पृथक्पाक एव । 'कुरुध्वेत्यनुज्ञातः पिण्डपितृयज्ञवद्धुत्वा' द्विजैः कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञकोमं कुर्यादित्यर्थः । अत्र पिण्डपितृयज्ञवदुपचारः पित्र्य इति परिभाषितेऽपि पिण्डपितृयज्ञवदिति पुनर्वचनं परिसंख्यानार्थम् । तेन साग्नेर्थथा पिण्डपितृयज्ञे परिस्तरणपात्रासादनादिकर्मकलापस्तथा श्रद्धे न भवति किं तु अपसव्यादिना पर्युक्ष्य मेक्षणेनाहुतिद्वयमानमाहिताग्नेर्दक्षिणाम्नौ स्मार्ताग्नेरोपासने ययोपदेशं भवतीत्यर्थः । अत्रै विवदन्ते अग्नौकरणहोमश्च कर्तव्यमुपवीतिना । प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिः । अपसव्येन वा कार्यों दक्षिणाभिमुखेन च । निरुप्य हविरन्यस्मा अन्यस्मै नहि हूयते । इति कात्यायनवचनात्सव्येन जुहुयादनावनौकरण आहुती इति वृद्धयाज्ञवल्क्योक्तेश्वोभयथावचनदर्शनात् साग्निः सव्येन निरग्निरपसव्येनेति । तदयुक्तम् । स जवनेन गार्हपत्यं प्राचीनावीती भूत्वेति श्रुत्या पिण्डपितृयज्ञवदिति सूत्रकृता च साग्निनिरग्न्योरपसव्येनैव विहितत्वात् । अन्ये त्वाहुः - उपवीतित्वविधायकवचनस्य पूर्वपक्षरूपत्वादपसव्येनेति वचनस्य च सिद्धान्तरूपत्वादपसव्येनैव सर्वेषामिति । एतदप्यहृद्यम् । अथातो गोभिलोक्तानामन्येषां चैत्र कर्मणामिति कात्यायनेन प्रतिज्ञातत्वात्सामगानां सव्येन यजुपामपसव्येनेति यथासंख्यं व्यवस्थेति सिद्धम् । तथा च कात्यायनः -- स्वाहा स्वधा नमः सव्यमपसव्यं तथैव च । आहुतीनां यथा संख्या सावगम्या स्वसूत्रत । वृद्धयाज्ञवल्क्यः -- छन्दोगा जुहुयुः सव्येनापसव्येन याजुपा इति । [ अत्रैतत्संदिह्यते - किं स द्विजेऽप्सुवेति । अत्र शव्दद्वयं सर्वाधानाधानपक्षी सूचयति । तेना हिताभिः सर्वाधाने दक्षिणाग्नावेवार्थाधाने लौपासन एव जुहुयादित्यर्थः ।
४६७