________________
४६६
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
नपात्राणि चालयित्वा संचराभ्युक्षणम् । कालज्ञानं कृत्वा अमुकपितॄणां कृतस्य श्राद्धविधेर्येन्यूना• तिरिक्तं तत्परिपूर्णमस्तु । अस्तु परिपूर्णमिति ब्राह्मणोक्तिः । वाजे वाजे इति पितृपूर्वं विसर्जनम् । आमावाजस्येत्यनुव्रज्य प्रदक्षिणीकृत्य नमस्कृत्य गृहप्रवेश: 11 11
1
अथ साग्निकनिरनिकादीनां दर्शाष्टकादिश्राद्धे निमित्ततः पिण्डाभाव उच्यते । तदाह काजिनिः । भौजीबन्धाद्विवाहाच्च वर्षो वर्षमेव वा । पिण्डान्सपिण्डा नो दधुः सपिण्डीकरणादृते । अत्र सपिण्डीकरणे पिण्डविधानात्तत्पूर्वेषामुत्कान्तप्रभृतीनां श्राद्धानामर्थात्पिण्डदानमनुज्ञातमिति । उद्वाहे कृतेऽपि महालयगया श्राद्धमृताहेषु पिण्डान्दद्युः । तदुक्तं - महालये गया श्राद्धे मातापित्रोर्मृतेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुत इति । गयाशब्देन तीर्थान्युपलक्ष्यन्ते । मृतेऽहनीति मातापित्रोस्तद्व्यतिरिक्तानामपि च मृताहेऽनुमासिकेषु च । संग्रहेऽपि विवाहो - पनयादूर्ध्वं वर्षार्द्ध वर्षमेव वा । न कुर्यात्पिण्डनिर्वापं न दद्यात्करणानि च । करणान्यावाहनार्घादीनि । विवाहादिनिमित्तेनोक्तकालपर्यन्तममावास्याष्टकासु सांकल्पिकं श्राद्धं कुर्यात् । श्रुतिबलात्पण्डपितृयज्ञस्तु भवत्येव । अथ सांवत्सरिके विशेषः । तत्र विभक्ताश्चेत्सर्वे नो चेज्ज्येष्ठपुत्र एव । मासांवत्सरिके यथोचित ऊहः कार्यः । यत्र च मात्रा स्वामिचित्यारोहणं कृतं तत्रैकमेव पाकं कृत्वा पितृश्राद्धं पृथक् कृत्वैकबर्हिषि षट् पिण्डान्दद्यात् । विप्रपङ्का, सुवासिनीं चाधिकां भोजयेदिति श्राद्धभास्करे । एकदिनेऽनेकश्राद्धप्रसक्तौ पूर्व पितुः पश्चात्पितृव्यादीनां श्राद्धं कार्यम् । मृताहे ग्रहणं चेदामेन हेन्ना वा आदिकं कार्यम् । क्षयाहे आशौचादिप्रतिबन्धे तद्न्ते कर्तव्यम् । मातृपितृझयाहे श्राद्धकर्तुः स्त्री स्त्रीकर्तृके वा श्राद्धे सा रजस्वला चेत्पञ्चमेऽहनि श्राद्धं कुर्यात् । अथ महालये विशेषः -- तत्रोद्देश्या उच्यन्ते । पितृव्यभ्रातृपुत्र पितृपुत्र पितृष्वसृमातुलमातृष्वसृभार्यां पितृव्यपुत्रभ्रातृपुत्रभगिनीदुहितृभागिनेयाचार्यश्वशुरश्वश्रूपाध्यायगुरुस खिद्रव्यदशिष्यादय इति । संन्यासविपये वायुपुराणे विशेषो दर्शितः । संन्यासिनोऽप्यादिकादि पुत्रः कुर्याद्यथाविधि । महालये तु यच्छ्राद्धं द्वादश्यां पार्वणेन तु । अथ भाद्रपदापरपक्षभरणी श्राद्धे विशेषः । तदुक्तं मात्स्ये - भरणी पितृपक्षे तु महती परिकीर्तिता । तस्यां श्राद्धं कृतं येन स गया श्राद्धकृद्भवेत् । तत्र सपत्नीक पितृपितामहमपितामहान्सपत्नीकमातामहादीश्वोद्दिश्य सांकल्पिकं श्राद्धं कुर्यात् । भविष्यपुराणे । अग्नौकरणम चावाहनं चावनेजनम् । पिण्डश्राद्धे प्रकुर्वीत पिण्डहीने निवर्तते । पिण्डनिर्वापरहितं यत्र श्राद्धं 'विधीयते । स्वधावाचनलोपोऽस्ति विकिरस्तु न लुप्यते । अक्षय्प्रदक्षिणा स्वस्तिसौमनस्यं यथा स्थितमिति । चतुर्दश्यां पित्रादित्रयमध्ये एकस्य द्वयोर्वा विपशखायुपधातैर्मृतयोः पितृव्यादेर्वा तथात्रिधस्यैकोद्दिष्टविधिना श्राद्धं कुर्यात् । इदं चैकोद्दिष्टं सदैवम् । तथाच संग्रहे । चतुर्दश्यामे कोहिष्टवि॥ अथ तीर्थश्राद्धे विशेषः । तच्च पद्दधानतः । दैवयुक्तं तु यच्छ्राद्धं पितॄणामक्षयं भवेदिति ॥ पुरुपोद्देशेन । तत्र दिग्बन्धनावाहनार्धद्विजाङ्गुष्ठनिवेश नतृप्तिप्रश्नविकिरा न कर्तव्याः । ब्राह्मणपरीक्षा 'च न कार्या । न च दृष्टिदोपादिविचारः । षट्पुरुषपिण्डदानानन्तरं किंचिद्दूरे हविःशेपेण मातृपितामहप्रपितामहीभ्यः पिण्डदानमात्रम् । तदनन्तरं मात्रादिपिण्डपूर्वतः कुशेषु ज्ञातिवर्गमुद्दिश्यैको ॥ अथ नित्यश्राद्धे विशेषः । संकल्पः । वृहत्पिण्डो दातव्यः । पिण्डानां तीर्थसलिले प्रक्षेपः ॥ पुष्पाक्षतादिभिरासनादिदीपान्तोपचारैर्ब्राह्मणपूजनम् । मण्डलं कृत्वा भाजनानि निधाय परिवेपणम् । पात्रालम्भादिब्राह्मणभोजनान्तं कृत्वा किंचिद्दद्यात् । नात्र कर्तृभोक्तृनियमाः । भोज्याद्यशक्कावन्नमुद्धृत्य स्त्रशक्तितः पोढा विभज्य वितनुद्दिश्य त्यजेदिति नित्यश्राद्धम् । इति पार्वणश्राद्धविधिः ॥ ( श्राद्धका० ) ' उद्धृत्य घृताक्तमन्नं पृच्छत्यभौ करिष्य इति ' घृतग्रहणं शाकादिव्यञ्जन
1