________________
काण्डका ३] , परिशिष्टम् ।
४६५ करणम् । तदुपरि कुशनिधानम् । पुत्रकामश्चेत्संस्रववन्दनम् " आपः शिवा" इति । ततो गन्यादिदानम् । तत्रैवम् । सव्यम् । यथादत्तं गन्धाद्यर्चनं पुरूरवावसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहा । अपसव्यं कृत्वैवं पितृभ्यो दानम् । आचमनं प्राणायामः । ब्राह्मणाने भाजनानि निधाय उक्तप्रकारेण मण्डलानि कुर्यात् । अपसव्यम् । अन्नमुद्धृत्य " अग्नौकरिष्ये " इति प्रश्नः । कुरुष्वेति प्रत्युक्तिः । ॐ अग्नये कन्यवाहनाय स्वाहा । इदमग्नये कव्यवाहनाय नमम | ॐ सोमाय पितृमते स्वाहा । इदं सोमाय पितृमते न ममेति द्वयोस्त्यागौ। स्वयंकर्तृके त्यागाभाव इति हेमाद्रिपद्धतौ । हुतशेष पात्रे दत्वा पात्रमालभ्य जपति " पृथिवी त" इति प्रतिपात्रं मन्त्रावृत्तिः । वैष्णव्यर्चा यजुषा वाऽन्नेऽङ्गुष्ठावगाहनम् । तिलविकिरणम् । परिवेषणम् । संकल्पः पूर्वोक्तप्रकारेण । सकृत्सकृदुदकदानं विप्रहस्तेषु । ततोऽभत्सु जपो यथोक्तः । तृप्तान ज्ञात्वोक्तप्रकारेणान्नप्रकिरणम् । आचमनम् । सकृत्सकृदुदकदानं विप्रहस्तेषु । पूर्ववद्गायत्रीजपः । मधु घाता० भवन्तु नः, मधु मधु मधु, इति जपेत् । तृप्ताः स्थति प्रश्नः, तृप्ताः स्म इति प्रत्युक्ते शेपमन्नमप्यस्तीति ब्रूयात् । इष्टैः सह भुज्यतामिति प्रतिवचनम् । हेमाद्रिणा कर्कमते पिण्डार्थमुपयुज्यतामिति प्रयोगो दर्शितः । सर्वमन्नमेकत उद्धृत्य उल्लेखनमपहता इति । साग्निकस्य वज्रेण । इतरस्य तु कुशमूलेन । जलस्पर्शः । अग्निमत उल्मुकनिधानम् प्रतिपार्वणम् । अमुकगोत्र पितरमुकशर्मन्नित्यवनेजनम् । एवं पितामहप्रपितामहयोर्मातामहादीनां च । सकृच्छिन्नास्तरणम् । अमुकगोत्र पितरमुकशर्मनेतत्तेऽनमः स्वधेति पिण्डदानम् । इदममुकाय नममेत्येवमुभयत्र । सर्वत्र मातामहानामप्येवमेव विधेयम् । अत्र पितर इत्युत्तवा उदङ्डातमनम् । आवृत्त्यामीमदन्तेति जपः । पूर्ववदवनेजनम् । नीवीविसर्गः । नमोव इति पञ्चलिकरणम् । एतद्व इति सूत्रदानम् । पञ्चाशद्वर्षादूचे यजमानहृदयलोनां वा दानम् । पिण्डपूजनम् । चन्दनपुष्पधूपदीपनैवेद्यानि गोत्रेभ्यः पितृपितामप्रपितामहेभ्यः स्वधेति । एभिः पिण्डदानरस्मत्सितणामक्षय्या तृप्तिरस्तु । काले श्राद्धं भवतु इति प्रार्थना || आचमनम् । सुमोक्षितोऽयं देशोऽस्त्विति जलेन भूमिं सिञ्चेत् । शिवा आपः सन्त्विति उदकदानं ब्राह्मणेभ्यः । सौमनस्यमस्त्विति पुष्पदानम् । अक्षतं चारिष्टं चास्त्वित्यक्षतदानम् । अमुकगोत्रस्य पितुरमुकशर्मणो दत्तं श्राद्धमुदकं चाक्षय्यमस्तु । एवं पितामहप्रपितामहयोः। ततो द्विजानां प्रार्थना । येषामुद्दिष्टं तेपामक्षय्यमस्तु । अस्विति प्रत्युक्तिः, अघोराः पितरः सन्विति प्रश्नः । सन्विति प्रत्युक्तिः । गोत्रन्नो वर्द्धतामिति प्रश्नः । वर्द्धतामिति प्रत्युक्तिः । दातारो नोऽभिवर्द्धन्तामिति प्रश्नः । वर्द्धन्तामिति प्रत्युक्तिः । वेदा वर्द्धन्तामिति प्रश्नः । वर्द्धन्तामिति प्रत्युक्तिः । संततिवद्धतामिति प्रश्नः । वर्धतामिति प्रत्युक्तिः । श्रद्धा च नो माव्यगमत् । मागादिति प्रत्युक्तिः । बहुदेयं च नोऽस्तु, अस्त्विति प्रत्युक्तिः । पात्रोपरि स्थापितकुशानां भूमावास्तरणम् । ततः स्वधापितॄन्वाचयिष्ये इति प्रश्नः । वाच्यतामित्युक्ते । पितृभ्यः स्वधोच्यतां पितामहेभ्यः स्वधोच्यतां प्रपितामहेभ्यः स्वधोच्यतां मातामहेभ्यः स्वधोच्यतां प्रमातामहेभ्यः स्वधोच्यता वृद्धप्रमातामहेभ्यः स्वधोच्यताम् इति मन्त्रं पठेत् । अस्तु स्वधेति प्रत्युक्ते । आस्तृतकुशेष ऊर्जमित्युदकासेकः । पात्रोत्तानकरणम् । ततः श्राद्धस्य प्रतिष्ठाभिवृद्धयथै दक्षिणां मुखवासताम्बूलं च विश्वेभ्यो देवेभ्यः स्वाहा इदं वि० नमम । अस्य श्राद्धस्य प्रतिष्ठासिद्धयर्थं दक्षिणां मुखवासताम्बूलं चामुकगोत्रेभ्य इत्यादि स्वधा नममेति त्यागः । विश्वेदेवाः प्रीयन्तामिति वदेत् । प्रीयन्तामिति प्रत्युक्तिः । विश्वेदेवाः शान्तिदाः पुष्टिदा वरदा भवन्तु । भवन्विति द्विजाः अन्नं च नो बहु भवेत् । वहु भूयात् । अतिथींश्च लभेमहि, लभध्वम् । याचितारश्च नः सन्तु, सन्तु । मा च याचिष्म कंच 'न । मा याचेथाः एता एवाशिपः सन्तु । इति प्रार्थना । ततः स्वयमेव तिलककरणम् । पिण्डानां प्रत्यवधानम् । सव्यम् । पिण्डावत्राणम् । सकुदाच्छिन्नानामग्नौ प्रक्षेपः । पश्चादुरमुकस्य च । भोज