________________
कंण्डिका ३] परिशिष्टम्।
४७३ मुन्यन्नस्य मांसं क्षत्रविद्धिषयम् न ब्राह्मणस्येति । तन्न । मांसायुक्तवस्तुनोऽभाव एव मुन्यन्नादिप्राधान्योपपत्तेः । तथा चात्रेयः-मुन्यन्नामिषमाध्वीकैविप्रद्विजजघन्यजाः । श्राद्धं विध्युरसति द्रव्ये तु सति चापरैः। माध्वीकं मधु द्विजौ क्षत्रविशौ जघन्यजाः शूद्राः । मांसादिद्रव्येऽसति मुन्यन्नादिभिः क्रमाद्विप्रादयः श्राद्धं कुर्युः सति तु मांसादिद्रव्ये तेनापरैश्च मेध्यैः कुर्युरित्यर्थः । तथा च वृद्धशातातपः-मुन्यन्नामिषमध्वाज्यैरभावे प्रोक्तवस्तुनः । क्रमाद्विप्रादिभिर्वणविधेयमिति शुश्रुमः । परमानेन मांसेन शाकैर्मधुघृतादिभिः । सर्ववणः प्रकर्तव्यं श्राद्धं वै वित्तशाठ्यतः । वृद्धमनुरपिमुन्यन्नैाह्मणाः श्राद्धं सामिपं वाहुसंभवाः । ऊरव्या मधुना कुर्युः शूद्रा मूलफलादिना । असंभवे प्रकर्तव्यमेतैरेव हि केवलम् । सर्ववर्णैस्तु कर्तव्यं सामिषं सति संभव इति । यच्चाभिहितं प्राणिहिंसापूर्वक एव श्राद्धे मांसनिषेध इति । तदप्ययुक्तम् । सामान्यहिंसाया अग्नीषोमीयपशुहिंसयेव विधिविहितहिंसया वाधोपपत्तेः । तथा च जावाला-हिनस्ति यः पशून स्वार्थमुद्दिश्यैव स पापभाक् । श्राद्धापदेशतो हिंसन्नपि खार्थे न दुष्यति। स्कन्दसंवादेऽपि-अर्थे देवपितृणां हि यो हिनस्ति पशून द्विजः । स यज्ञफलमाप्नोति ते च यान्ति परां गतिम् । स्वार्थमन्नं पचंद्यस्तु यो हिनस्ति वृथा पशून् । एकाकी मिष्टमश्नाति यश्च याति स रौरवम् । भीष्मोऽपि योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया । कृष्णद्वैपायनः प्राह स्थावरत्वं स गच्छति । अत्रिरपि-मधुपर्के च सोमे च दैवे पित्र्ये च कर्मणि । अत्रैव पशवो हिंस्या नान्यनेति कथंचन । तथा यज्ञाथै पशवः सृष्टाः पुत्राथै वरयोपितः । इत्यादिवचनात् । यचाभ्यधायिकलियुगविषयो मांसनिषेध इति तदप्यसंगतम् । कलिविषयविधायकवचनैकपूर्वपक्षरूपत्वे तद्वचनस्य वधित्वात् । तथा च जातूकZ:-मांसं युगेषु सर्वेषु यज्ञप्राद्धार्थमाइतम्। श्राद्धोपयमनो यज्ञे कलौ तच विशिष्यते।समन्तुरपि-कुतकोपहता विप्राः कलाकश्यन्निरामिषम् । तृप्ति नामन्ति पितरस्तस्य श्राद्धे कदाचन । पैठीनसि:-परमान्नं कालशाकं मधु मांसं घृतं पयः । मुन्यन्नानि तिला विप्राः प्रकृत्या हविरष्टया । शस्तान्यष्टौ तु सर्वेषु युगेपु मुनिसत्तमाः। पितृणां देवतानां च दुर्लभानि कलावतीति । निवन्धान्तरे तद्वचनस्य निर्मूलत्वप्रतिपादनाच । तथागोमेधो नरमेधश्च अक्षता गोपशुस्तथा । देवराञ्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेदिति पराशरपाठात् । यत्तूदाहृतं देशविषयो निषेध इति । तदप्यसुन्दरम् । मध्यदेशादौ जिह्वालोलुपतया विहितेतरमांसभक्षणस्य प्राचुर्योपलब्धेः । न च देशविषयः शक्यते वक्तुम् । देशभेदविपयस्य निरस्तत्वात् । तथा च वृद्धप्रचेताः-न युगानां न देशानां न विप्राणां द्विजोत्तमाः । धर्मशास्त्रेषु वै भेदो दृश्यते मांसभक क्षणे । देशभेदे श्राद्धे दृश्यमानत्वाच । तस्माद्विहितहिंसादौ श्राद्धादिकर्मसु च भांसभक्षणविधिरितरत्र निषेध इति सिद्धम् । तथा च मनुः-प्रोक्षितं भक्षयेन्मांसं ब्राह्मणस्य च काम्यया । यथाविधि नियुक्तश्च प्राणानामेव चात्यये । याज्ञवल्क्योऽपि-प्राणात्यये तथा श्राद्धे प्रोक्षितं द्विजकाम्ययेति । भक्ष्यत्वं छागादिविहितपशुमांसस्य। देवल:-पञ्च पञ्चनखा भक्ष्या धर्मतः परिकीर्तिताः । गोधा कूर्मस्तथा विष्च्छल्लकश्चेति ते स्मृताः । धर्मत इति प्रोक्षितम् । न चायमपूर्वविधिः रागप्राप्तत्वात् । नापि नियमः पक्षप्राप्त्यभावात् । अतोत्र गोधादिपञ्चकव्यतिरिक्तपञ्चनखनिषेधाधिकारपरिसंख्येति । तथा च रामायणे-शशकः शल्लको गोधा खड्गी कूर्मश्च पञ्चमः । पञ्च पञ्चनखा भक्ष्या न भक्ष्या वानरा नराः । इति । एतचाप्युपलक्षणम् । अत्रैतदुच्यते-किं प्रोक्षितादौ नियम उत परिसंख्येति । तत्र परिसंख्येति ब्रूमः । नियमस्य पक्षप्राप्तौ विधायकत्वात् । यत्तु-स्वरुच्या क्रियमाणे तु यत्रावश्यक्रिया भवेत् । नियमः सोऽत्र विज्ञेयः श्राद्धे मांसाशनं यथेत्यत्र नियमत्वमङ्गीकृतं तच्छब्दार्थरूपनिवृत्तिफलत्वादेकरूपत्वमेव तयोरित्यविरोधः । अतोऽत्र श्राद्धशब्दस्योपलक्षणपरत्वेन प्राणात्ययादिचतुष्टये परिसंख्यैव युक्ता । तथा च बृहस्पनिः-रोगी नियुक्तो विधिवद्धनं विप्रवृतस्तथा । मांसमद्या