________________
४७४
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
चतुषा परिसंख्या प्रकीर्तिता । अतोऽन्यथा तु योऽश्नीयाद्विधिं हित्वा पिशाचवत् । यावन्ति पशुरोमाणि तावत्प्राप्नोति रौरवमिति । रोगी प्राणात्ययोपलक्षितः । नियुक्तः श्राद्धे । विधिवद्भुतं प्रोक्षितादि । विप्रवृतो द्विजकामनयाभ्यर्थितः । परिसंख्येत्यभक्षण संकल्प व्यावृत्तिः । तेन यथोक्तकृताभक्षणनियमस्यापि निवृतिरित्यर्थः । तथा च --- यथाविधि नियुक्तो यो मांसं नाश्नाति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिमिति वचनात् । संकल्पश्च -- श्राद्धवर्जे मया मांसं न भोक्तव्यं कदाचन । त्यजेश्चेदिति संध्यायापरथा पतनं भवेदिति कार्ष्णाजिनिनोक्तः । तथेश्वरसंवादेऽपि -- ह्मचारी यतिमसं त्यजेत्स्त्री पतिना विना । श्राद्धवर्जमथान्योऽपि संत्यजेत्तपसः कृते । इति । अतश्च श्राद्धादिषु मांस भक्ष्यमेवेत्युक्तम् । यत्तु - प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया । अल्पदोषमिति ज्ञेयं विपरीते तु लिप्यते । इति महाभारतवचनं तदुविहितसंकल्पविषयम् । तथा च बृहस्पतिः -- मद्यं मासं मैथुनं च भूतानां लालनं स्मृतम् । तदेव विधिना कुर्यात्स्वर्ग प्राप्नोति मानवः । इति । महाभारते -- हविर्यत्प्रोक्षितं मन्त्रैः प्रोक्षिताभिक्षुतं शुचि । वेदोक्तेन प्रकारेण पितॄणां प्रक्रि यासु च । पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते । विधिना वेददृष्टेन तदुक्तान्येन दुष्यतीति । यत्पुनर्यमवचनम् -- सर्वेषामेव मांसानां महादोषस्तु भक्षणे । निवर्तने महापुण्यमिति प्राह प्रजापतिरिति । यच्च महाभारते वचनं - भक्षणे तु महान्दोषो निवृत्त्या पुण्यमुच्यते । इति । तदुभयमपि श्राद्धादेरन्यत्र जिह्वालया भक्षणविषयम् । तथा च स्कन्दसंवादे -यत्र यत्र निषेधो हि श्रूयते मांसभक्षणे । जिह्वालाप्रति स ज्ञेयो न तूक्तविधिनाश्रत इति । तथा--- प्रयान्ति नरकं घोरं मांसमश्नन्ति ये नराः | जिल्हा - लान्प्रति दोषोऽयं न दोषो विधिनाश्नतामिति । यच वृहस्पतिवचनं - रोगातोऽभ्यर्थितो वाऽपि यो मांसं नान्त्यलोलुपः । फलं प्राप्नोत्ययत्नेन सोऽश्वमेधफलस्य चेति । तच्छ्राद्धे ब्रह्मचारिविषयम् । तथा च मनुः -- त्रतवद्दैवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् । काममभ्यर्थितोश्रीयाद्वतमस्य न लुप्यते । इत्येकभि - क्षायां तदृष्टिवशादनदनस्य विहितत्वात् । अलोलुप इत्यनेन तद्विषयावगमाञ्च । तथा च---स तप्यति तपोऽजस्रं यजते च ददाति च । मधुमांसनिवृत्तो यः प्रोवाचेदं वृहस्पतिः । यावज्जीवं तु यो मांसं विपवत्परिवर्जयेत् । वसिष्ठो भगवानाह स्वर्गलोकं स गच्छति । जैमिनिरपि - त्रह्मचर्यमुपा स्यैव योऽकृत्वा दारसंग्रहम् । संन्यसेन्नाधिकारः स्यान्मांसे विधिवदन्यतः । इति । अन्यतः दारसंग्रहादूर्ध्व विधिवन्मांसभक्षणाधिकार इत्यर्थः । तथा च मनुःन मांसभक्षणे दोपो न मद्ये न च मैथुने । प्रवृत्तिरेपा भूतानां निवृत्तिस्तु महाफला । इति । मांसमद्यमैथुनेषु विहितेषु भक्षणपानाभिगमनैर्भूतप्रवृत्तित्वान्न दोषः । निवृत्तिस्तु महाऽफलप्रापिकेत्यर्थः । महती चासावफला चेति व्युत्पत्तेः । न 'वेयं व्युत्पत्तिर्न साधुरिति वाच्यम् । फलाफलशब्दयोः परयोरुभयथाऽपि महाशब्दस्याकारादेशस्य घटमानत्वात् । तथा च वृहस्पतिः -- अभूमांसपुरोडाशे भक्षणं मृगपक्षिणाम् । पुराणेष्वेव यज्ञेषु श्रह्मक्षत्रसवेषु च । सौत्रामण्यां तथा मद्यं श्रुतौ भक्ष्यमुदाहृतम् । ऋतौ च मैथुनं धर्म्यं पुत्रोत्पत्तिनिमि'ततः । स्वर्ग प्राप्नोति नैवं तु प्रत्यवायेन युज्यत इति । ततश्चायमर्थः । प्रोक्षितादिचतुर्षु स्मृत्युक्तसंकल्पेन मांसत्यागिनामपि गृहस्थानां भक्ष्यमेव मांसं न कोऽपि दोपः । अविहितसंकल्पेन मांसत्यागिना तु प्रोक्षणादिभक्षणे अल्पदोपः । रोगार्तानामभ्यर्थितानां च ब्रह्मचारिणां श्राद्धादिष्वपि भक्षण महानू दोष एवेति । अतश्च त्यक्तमांसादेरपि श्रद्धे भक्षणमेवोचितमित्युक्तम् । तथा चोजना: ---नियुक्तश्चैव यः श्राद्धे यत्किंचित्परिवर्जयेत् । पितरस्तस्य तन्मासं नैराश्यं प्रतिपेदिरे । देवलोऽपि ---- युक्तस्तु यदि श्राद्धे दैवे मांसं समुत्सृजेत् । यावंति पशुरोमाणि तावन्निरयच्छति । स्कन्दसंवादेऽपि, निवेशितस्तु चः श्राद्धे यज्ञे वाऽपि द्विजाधमः । मासं नानाति निरयं याति वै पशुतां ततः । मृत्यलं बहना । अन्यद्विनिप्रतिषिद्धं स्मृत्यन्तरनिबन्धेभ्य उपलवधन्यं ग्रन्थगौरवभयान्ने लिखितम् ।
1
1