________________
कण्डिका ३] परिशिष्टम्।
४७५ 'एवमन्नं संकल्प्यापोशनं दत्त्वोकारव्याहृतिपूर्व गायत्र्यादि जपेत् । तथा च याज्ञवल्क्यः सव्याहृतिका गायत्री मधुवाता इति तृचं, जत्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः।इति । एके मधुमध्विति त्रिपं वारिघृतधारांच न कुर्वन्ति । तदयुक्तम् । उभयोरपि विहितत्वात् । तथा च प्रचेताः-अपोशानमथो दत्त्वा सावित्री निर्जपेद्धः।मधुवाता इति तृचंमश्वित्येतत्रिकं तथा । स्कन्दसंवादेऽपि-अपोशानमथो दत्त्वा वारिधारां क्षिपेद्वधः । नमो देवेभ्य इति च सव्येनोदङ्मुखो द्विजः । अपसव्यं पितृभ्यस्तु घतधारां वदेत्स्वधामिति । एवं जप्त्वाऽच्छिद्रीकरणं कृत्वा ये देवास येचेह' इत्यादि पठित्वा यथासुखममृतं जुषध्वमित्युक्त्वा भोजयेत् । तथा च यमः-अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत् । तत् सर्वमच्छिद्रमित्युक्त्वा ततो यत्नेन भोजयेत् । कात्यायन:-ये देवासश्च ये चेह मन्त्रद्वयमुदीरयेत् । मन्त्रान्ते तु ततो ब्रूयादमृतं भोज्यतामिति। दैवे ये देवासः पित्र्ये येचेहेति विवेकः । वृद्धयाज्ञवल्क्योऽपि यथासुखं जुषध्वं भो इति वाच्यमनिष्ठुरम् । इति । अत्रैके बलिदानमिच्छन्ति नेत्यन्ये । एवं सति वैश्वदेवे वलिः पिव्ये नेत्यविरोधः । तथा च-स्पर्शनान्ते स्पृशेदन्नं कल्पनान्ते बलिं हरेत् । होमस्तु मधु वातेति होमान्त उदकं पिबेदिति वैश्वदेवविषयम् । अत्रिः-दत्ते वाप्यथवाऽदत्ते भूमौ यो निक्षिपेद्वलिम् । तदेतन्निष्फलं याति निराशैः पितृभिर्गतैः । इति पित्र्यविषयम् । पितॄणामन्न उत्सृष्टे वलिं फुर्वन्ति ये द्विजाः। आसुरं तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठत इति वसिष्ठोक्तेः । 'अन्नत्सु जपेयाहतिपूर्वी गायत्री सप्रणवा सकृत्रिर्वा राक्षोन्नीः पिन्यमन्त्रान्पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणि' सप्रणवां व्याहृतिपूर्विकां गायत्रीमित्यन्वयः । पातार्थेन वाध्यते वाशब्दस्तु विकल्पार्थः । अशनात्पूर्व त्रिरश्नत्सु च सकृदिति व्यवस्थाओं वा । पूर्वस्याष्टदोषदुष्टत्वात् । तथा च प्रचेताः-अपोशानमथो दत्त्वा सावित्री निर्जपेद्धः । मधुव्वाता इतितृचं मध्वित्येतत्रिकं तथा । इति । अत्राह हलायुधः-सकृत्रिर्वा मधुमतीमधु मध्विति चेति पाठ इति । तत्कादिभिरनाहतत्वात्तन्नपस्याशनात्पूर्व विहितत्वाच चिन्त्यम् । रक्षांसि नन्तीति रक्षोत्राः । मूलविभुजादित्वात् कप्रत्ययस्ता एवं राक्षोत्रीः, कृणुष्व पाज इत्यादयः पञ्चर्चः। ऋग्विशेषणत्वात्त्रीत्वम् । तथा च श्रुतिः । एतात्रक्षोन्नान्प्रतिसरानपश्यत्कृणुष्वपाजः प्रसितिन्नपृथ्वीमिति रक्षोना वै प्रतिसरा इति । पित्र्यमन्त्रा उदीरतामित्यादित्रयोदशः । अत्रैके सुरावन्तं वर्हिषदमित्यादिपञ्चदशः पितृमन्त्रा इत्याहुः। तन्न । पितरो देवतात्वेन यत्र स्तूयन्ते ते पित्र्या इति तद्धितेन उदीरतामित्यादीनामेव पिच्यमन्त्रत्वावगतेः । तथा च भट्टपादाः-तद्धितेन चतुर्ध्या वा मन्त्रवर्णेन चेष्यते । देवतासंगतिस्तत्र दुर्बलं तु परं परमिति । कृणुष्व पाज यत इति च अग्नेष्वार्जवर्चसमुच्चरेत् । सुरावन्तादिकां सर्वा जपेञ्च पितृसंहितामित्यनेन सुरावन्तमित्यादीनां पितृसंहितासंज्ञकत्वात् । पुरुषसूक्तं सहस्रशीर्षेत्यादिषोडशः । अप्रतिरथमाशुः शिशान इत्यादि सप्तदश!ऽनुवाक इति केचित् । द्वादशर्च इत्यन्ये । तदेतद्विचारणीयम् । यदि सर्वस्यापि शान्तिपाठस्याप्रतिरथसंज्ञा तदा सप्तदशद्वादशसंख्यावच्छेदकप्रमाणं न स्यात् । अथ संख्यावच्छेदकप्रमाणं ताचार्यमतभेदात्सप्तदशद्वादशसंख्याया मूलस्य दर्शनाभावादनिश्चयापत्तिः स्यात् । तस्माच्छ्रतिमूलत्वेन द्वादशर्च एवेति गम्यते । तथा च श्रुतिः-ब्रह्मन्नप्रतिरथं जपेत्युपक्रम्य तस्मादमाप्रतिरथं जपित्वा शुभिरूपाद्वादश भवन्तीत्युपसंहारः । अन्यानि पिण्डब्राह्मणादीनि । तथा च वृद्धयाज्ञवल्क्यः-पुरुषसूक्तं यजुषां पिण्डब्राह्मणशन्त्यर्थम् । पितृस्तवं च पञ्चैवं गायत्री मधुब्राह्मणमिति। चकारो ब्रह्मादिस्तोत्रसमुच्चयार्थः। तथा च मत्स्यपुराणम्-ब्रह्मविष्ज्वर्करुद्राणां स्तोत्राणि विविधानि च । इन्द्रस्य सोमसूक्तानि पावमानीश्च शक्तित इति । अत्रैकेऽस्य जपस्य पित्र्यत्वादपसव्येन जपन्ति । तदयुक्तम् । सव्येनैव विहितत्वात् । तथा च जमदग्निः-अपसव्येन कर्तव्यं सर्व श्राद्धं यथाविधि । सूक्तस्तोत्रजपं मु. तचा विप्राणां च विसर्जनम् । अपि च-सूक्तस्तोत्रजपं त्यत्तवा पिण्डवाणं च दक्षिणाम् । आह्वनात्स्वाग