________________
पारस्करगृह्यसूत्रम्।
[श्राद्धसूत्रतानां च विनाच परिवेषणम् । विसर्जनं सौमनस्यमाशिपांप्रार्थनं तथा । विप्रप्रदक्षिणां चैव स्वस्तिवाचनक विना । पित्र्यमन्यत्प्रकर्त्तव्यं प्राचीनावीतिना सहेति । अत्र यद्यप्यनस्थिति सामान्येनोक्तं तथाऽपि ययोपदेशं भोक्तव्यम् । तथा च प्रचेता:-पीत्वाऽपोशानमनीयात्पात्रे दत्तमार्हितम् । सर्वेन्द्रियाणां चापल्यं न कुर्यात्पाणिपादयोः । बौधायन:-पादेन पादमाक्रम्य यो मुझेऽनापदि द्विजः । नैवासो भोज्यते श्राद्धे निराशाः पितरो गताः । प्रचेताः-भोजनं तु न निःशेष कुर्यात्प्राज्ञः कथंचन । अन्यत्र दन्नः क्षीराद्वा क्षौद्रात्सत्तुभ्य एव च । शेपत्यागस्य नित्यत्वात् । तया च जमदग्निः-भुक्त्वा पीला तु यः कश्चिद्रिक्तपानं समुत्सृजेत् । स नरः क्षुत्पिपासातों भूत्वा जन्मनि जन्मनि । यत्तु न निन्देयुर्नावशेषयेयुरिति तेनैवोकं तदधिकोच्छिष्टत्यागविषयम् । तृप्त्यन्ते प्रासमात्रं तु यो विप्रो न त्यजेतदा । यच्छ्राद्धे पिण्डदानादौ तद्वै रक्षांसिगच्छतीति वचनात् । मनुः-अत्युप्णं सर्वमन्नं स्यादनीरंश्चैव वाग्यताः । न च द्विजातयो युात्रा पृष्टा हविर्गुणान् । दात्रा हविर्गुणान्पृष्टा वाग्यता द्विजा इत्यनेनैव कयनेन प्राप्तौ न युरिति पौनरुक्त्यं हस्तसंजयापि कयननिषेधार्थम् । हुकारेणापि यो याद्धस्तेनापि गुणान्वदेदिति शङ्खन प्रतिपिद्धत्वात् । एतब श्राद्धासमाप्तौ वेदितव्यम् । निर्वृत्ते तु तथा श्राद्धे वक्तव्यं शोभनं हविरिति वचनात् । भोक्तुगां निषेधानात्रा हविः प्रशंसनीयमेव रुचिजननार्थम् । तथा च भक्ष्यभोज्यगुणानुक्त्वा भोजयेद्धाह्मणान् शनैः । पृथक पृथक् च संवेद्य कुर्यादेभ्यः प्ररोचनमिति । भुञ्जीरंश्चैवेत्येवकारः परस्परस्पशेऽपि भोजनार्थः । तथा च शङ्कः-श्राद्धपङ्कियु भुलानो ब्राह्मणो ब्राह्मणं स्पृशेत् । मुक्त्वा तदन्नमत्याज्यं गायन्यष्टशतं जपेत् । कात्यायनोऽपि-एकपसौ तु यो मुझे विग्रो विप्र स्पृशेचदि। तदन्नं न त्यजेद भुक्त्वा गायत्र्यष्टशतं जपेत् । इति । हारीत:पात्रे पानं प्रतिष्टाप्य येऽज्ञानाचते द्विजाः । आसुरं तन्वेच्छ्राद्धं पितॄणां नोपतिटते । मार्कण्डेयःकटिभुग्नस्तु यो भुलेऽनन्तर्जानुकरस्तथा । हसते बढ़ते चैत्र निराशाः पितरो गताः । गह्वलिखितोनात्यन्ताधिकं दद्यान्न प्रतिगृहीयादिति । दातृधर्ममाह शङ्कः-प्राद्धे नियुक्त भुञानान्न पृच्छेल्लझणादिपु । उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः । दातुः पतति वै वाहुर्जिह्वा भोक्तुब भिद्यते । अनैतत्संदिह्यते-किं मृष्टव्यसनादिकं भोता याचेव न वेति । उभयया च दर्शनात् । तथा हि वृद्धशातातपः-अपेक्षितं यो न दद्याच्छ्राद्धार्थमुपकल्पितम् । न याचते स्मृतो मृढः स भवेद्ब्रह्मघातकः । इति । वायुपुराणं तु नियति याचते यदि दातारं ब्राह्मणो ज्ञानदुर्वलः । पितरस्तु न तुष्यन्ति दातुभोक्तुन संशयः । इति । तथा कृच्छ्रद्वादशरात्रेण मुच्यते कर्मणस्ततः । तस्माद्विद्वान्नैव दद्यान्न वाचेत न वापवेदिति । अन्यत्र न पड्डयां विषमं दद्यान्न याचेत न दापयेदिति । अत्र विरोधे, उपकल्पितं याचेत न त्वनुपकल्पितमिति व्यवस्थेत्यविरोधः । निपेषत्वानुकल्पित(विषयत्वान् । यमः-यावद्धविष्यं भवति यावदिष्टं प्रदीयते । तावदन्नन्ति पितरो यावन्नाह दाम्यहम् । अहं ददामीति यावन्नाह तावन्नन्तीत्यर्थः । एतच नापेक्षितविषयम् । अपेक्षितं यो न यादिति वचनात् । ननु मौनिवनियमात्कथं याचनं कथं वा नियमनमिति हस्तादिसंज्ञाप्रतिपेवात् । उच्यते-हस्तादिसंज्ञानिषेवो हविर्गुणाख्यानविषयो न तु याचनादिविषय इत्यविरोधः । तथा च यमः नान्नपानादिकं श्राद्धे वारयेन्मुखतः कचिन् । अनिष्टत्वाबहुत्वाद्वा वारणं हस्तसंज्ञया । देवलोऽपि-अन्नपानकशीतोददिभ्योऽप्यवलोकितः । वक्तव्ये कारणे संज्ञां कुर्वन्मुक्षीत पाणिनेति । दात्रा व्यञ्जनकमादायावलोकित: वक्तव्ये हस्तेन संज्ञां कुादित्यर्थः । अन्यदामन्त्रिताश्चैवमित्यत्रोक्तं प्रान् । शेष स्मृतिभ्योऽनुसन्धेयम् । 'तृप्तान ज्ञात्वाऽनं प्रकीर्य ब्राह्मणांस्तृप्तान ज्ञात्वा सर्वान्नमुकेनाप्लाव्यानिदग्धेतिमन्त्रेण प्रकिरदित्ययः । तथा च याज्ञवल्क्य:-मार्ववर्णिकमन्नाई सालीयाप्लान्य वारिणा। समुत्सृजेतवतामप्रतो विकराइवि । सार्ववर्णिकं सर्वव्यश्चनसहितम् । अत्राह कन्छिन्-असंस्कृत