Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 473
________________ ,7 कण्डिका ३ ] परिशिष्टम् । 1 निवृत्त्यर्थम् । तथा च हविष्यं व्यञ्जनक्षाररहितं ह्यपसव्यवदिति । घृताक्तमन्नमुद्धृत्येत्यन्वयोऽभिघारणं रन्धनपात्र एव स्यात् । अभिधार्य दक्षिणत उद्वास्येति पिण्डपितृयज्ञसूत्रादिति केचित् । तन्न | तस्यापसव्यादिविधिना साग्नेश्चरुश्रपणविषयत्वात् । अतश्चोद्धृत्य घृताक्तं कृत्वान्नं पतिमूर्धन्यमग्नौकरिष्य इति पृच्छेदित्यन्वयः । पृच्छेर्द्विकर्मकत्वात् । एवं च पात्रान्तरेऽभिघारणं सूचितम् । तथा च कात्यायनः———अग्नौकरणस्यग्निवै मधुसूक्तं जपेत्ततः । शेषमाज्येनाभिघार्य भाजनानि विशोवयेदिति । ननु च दत्त्वा पात्राणि विप्रेभ्यो जपेदोदनभाजने । आप्यायस्व समे तुत इति पात्रे सुपाचिते । क्षिपेदन्नं तु सघृतं ततोऽग्नौ करणं भवेदिति पुराणवचनात्कथं मधुसूक्तमिति उच्यते । आप्यायस्वेति मन्त्रस्य रन्धनपात्रजपविषयत्वात् । ततञ्च रन्धनपात्रे आप्यायस्वेति जपित्वा पात्रान्तरे उद्धृत्य घृतेनाभिघार्थोद्धरणपात्रे मधुसूक्तं जपेदित्यर्थः । अत्रैक अपसव्येनाग्नौकरिष्य इति पृच्छेदित्याहुः । तन्न । सव्येनैव तु पृष्ट्वा तमपसव्येन होमयेत् । पितृपतिषु मूर्वन्यस्तस्य पाणावननिमानिति पैठीनसिवचनात् । अत्रैतत्संदिह्यते । किं श्राद्धार्थ पृथक्पाक उतैक एव । तत्रैके कर्कादय आहुः । देवपि - तृमनुष्यादीनां सर्वार्थ एक एवेति । अन्ये तु पृथगिति । तदेतद्विचारणीयम् । तत्र यद्येक एवेत्युच्येत तदा सर्वसामान्येन श्राद्धपाकस्य वैशिष्ट्यानुपपत्तिः परिश्रितादियत्नविधायकवचनानां च वैयर्थ्य स्यात् । अथ पृथगुच्येत तदा वैशिष्ट्यं प्रच्छन्नादिपरिश्रितादियत्नविधायकवचनसार्थक्यं स्यात् । तस्मात्पृथक् पाक इति युक्तम् । तथा च वायुपुराणम् — पितॄणां निर्वपेद्भूमौ कूर्चे वा दर्भसंस्कृते । व्यासोऽपि चाण्डालश्वपची वज्यौं निर्वापे समुपस्थिते । लौगाक्षरपि -- पित्र्यर्थं निर्वपेत्पाकं वैश्वदेवार्थमेव चवैश्वदेवं न पित्र्य न दर्श वैश्वदेविकम् । देवलोऽपि तथैव यन्त्रितो दाता स्नात्वा प्रातः सहाम्बरः । आरभेत नवैर्भाण्डैरन्वारन्धस्तु वान्धवैः । तिलांश्च विकिरेत्तत्र सर्वतो बन्धयेदजान् । असुरोपहतं सर्वे तिलैः शुध्यत्यजेन च । ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनभक्ष्यवत् । चोष्यपेयसमृद्धं च यथाशक्त्युपकल्पये दिति । मार्कण्डेयोऽपि-पृथक्पाकेन नेत्यन्ये केचिदिच्छन्ति पूर्ववत् । नित्यश्राद्धं पृथक्पाकेन केचिदिच्छन्ति । केचिच्छ्राद्धपाका देवेत्यर्थः । अपि च मातामहपृथक् श्राद्धपक्षे पैठीनसिः - विधिहीने यतः श्राद्धे नानन्ति पितृदेवताः । पृथक्पाकेनैव तस्माच्छ्राद्धं मातामहं भवेदिति । तस्मात्पृथक्पाक एव । 'कुरुध्वेत्यनुज्ञातः पिण्डपितृयज्ञवद्धुत्वा' द्विजैः कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञकोमं कुर्यादित्यर्थः । अत्र पिण्डपितृयज्ञवदुपचारः पित्र्य इति परिभाषितेऽपि पिण्डपितृयज्ञवदिति पुनर्वचनं परिसंख्यानार्थम् । तेन साग्नेर्थथा पिण्डपितृयज्ञे परिस्तरणपात्रासादनादिकर्मकलापस्तथा श्रद्धे न भवति किं तु अपसव्यादिना पर्युक्ष्य मेक्षणेनाहुतिद्वयमानमाहिताग्नेर्दक्षिणाम्नौ स्मार्ताग्नेरोपासने ययोपदेशं भवतीत्यर्थः । अत्रै विवदन्ते अग्नौकरणहोमश्च कर्तव्यमुपवीतिना । प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिः । अपसव्येन वा कार्यों दक्षिणाभिमुखेन च । निरुप्य हविरन्यस्मा अन्यस्मै नहि हूयते । इति कात्यायनवचनात्सव्येन जुहुयादनावनौकरण आहुती इति वृद्धयाज्ञवल्क्योक्तेश्वोभयथावचनदर्शनात् साग्निः सव्येन निरग्निरपसव्येनेति । तदयुक्तम् । स जवनेन गार्हपत्यं प्राचीनावीती भूत्वेति श्रुत्या पिण्डपितृयज्ञवदिति सूत्रकृता च साग्निनिरग्न्योरपसव्येनैव विहितत्वात् । अन्ये त्वाहुः - उपवीतित्वविधायकवचनस्य पूर्वपक्षरूपत्वादपसव्येनेति वचनस्य च सिद्धान्तरूपत्वादपसव्येनैव सर्वेषामिति । एतदप्यहृद्यम् । अथातो गोभिलोक्तानामन्येषां चैत्र कर्मणामिति कात्यायनेन प्रतिज्ञातत्वात्सामगानां सव्येन यजुपामपसव्येनेति यथासंख्यं व्यवस्थेति सिद्धम् । तथा च कात्यायनः -- स्वाहा स्वधा नमः सव्यमपसव्यं तथैव च । आहुतीनां यथा संख्या सावगम्या स्वसूत्रत । वृद्धयाज्ञवल्क्यः -- छन्दोगा जुहुयुः सव्येनापसव्येन याजुपा इति । [ अत्रैतत्संदिह्यते - किं स द्विजेऽप्सुवेति । अत्र शव्दद्वयं सर्वाधानाधानपक्षी सूचयति । तेना हिताभिः सर्वाधाने दक्षिणाग्नावेवार्थाधाने लौपासन एव जुहुयादित्यर्थः । ४६७

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560