Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 435
________________ कण्डिका १] परिशिष्टम् । ४२९ सुसमृद्धोऽपि न प्रसज्येत विस्तरम्।।सक्रियां देशकालौ च शौचं ब्राह्मणसम्पदः । पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ।। ब्राह्मेऽपि-यस्माद्राह्मणबाहुल्याहोपो बहुतरो भवेत् । श्राद्धनाशो मौननाशः श्राद्धतन्त्रस्य विस्मृतिः-उच्छिष्टोच्छिष्टसंसर्गो निन्दा दातृषु भोक्तपु, इति। देशकालधनाभावे पक्षान्तरमाह 'एकैकमुभयन वा शेषान्वित्तानुसारेण भोजयेदन्यवेश्मनीति' स्मृतिः । अयुग्मानपसव्येन पितृपूर्व निमन्त्रयेत्। पित्रादेः सप्त पञ्चत्रीनेकैकस्यैकमेव वा।देवेपट् चतुरो द्वौ वाऽप्येकैकमुभयत्रवेति। 'मातामहानामप्येवम् मातामहानामप्येवं सर्वे पक्षा भवेयुरित्यर्थः । तत्र केचिदिदमुपदेशं मन्यमाना पृथक्कृत्य मातामहश्राद्धमिच्छन्ति । यदा मातामहेभ्यो ददाति तदैवमिति, तदेतदुपेक्षणीयम् । अपरेतु, पार्वणं कुरुते यस्तु केवलम्पितृहेतुतः । मातामहं न कुरुते पितृहा सोऽपि जायते, इति स्कन्दपुराणवचनात् पितृणामिव मातामहानामपि तस्मिन्नेव प्रयोगे दानमिच्छन्ति, तच्चातीव युक्ततरम् । तथा च पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवमिति । 'तन्त्रं वा वैश्वदेविकम् । विश्वेदेवास्तन्त्रेण वा य एव पितृभ्यो मातामहेभ्योऽपि त एव, सचायमन्यः पक्षः । तथाऽन्यदपि ब्राह्मणाभावे, एक एव यदा विप्रो द्वितीयो नोपपद्यते । पितृणां ब्राह्मणो योज्यो दैवे त्वग्निनियोजयेत् । प्रणीतापात्रमुद्धत्य ततः श्राद्धं समारभेदिति । तथा हि । यद्येकम्मोजयेच्छ्राद्धे देवन्तत्र कथम्भवेत् । अन्नम्पाने समुद्धृत्य सर्वस्य प्रकृतस्य च । देवतायतने स्थाप्यं ततः श्राद्धम्प्रकल्पयेत् । प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्म चारिणे, इति । 'श्रद्धान्वितः श्राद्धं कुर्वीत' नात्र श्रद्धा निमित्तत्वेनोच्यते । यच्छ्राद्धं कुर्वीत स्वकाले तच्छ्रद्धयेत्यर्थः । 'शाकेनापि नापरपक्षमतिकामेत् । यद्यन्नं न लभेत तदा शाकेनाप्यपरपक्षे श्राद्धं कुर्यात् । तथा च ब्रह्मपुराणे । पयोमूलफलैः शाकैः कृष्णपक्षे तु सर्वदा । पराधीन: प्रवासी च निर्द्धनो वापि मानवः । मनसा भावशुद्धेन श्राद्धे दद्यात्तिलोदकमिति । अनेनावश्यं कर्तव्यताऽभिहिता । तत्र हेतुमाह । 'मासि मासि वोशनमिति श्रतः । अथ धर्मानाह । 'तदहः शुचिरक्रोधनोऽत्वरितोऽप्रमत्तस्सत्यवादी स्यादध्वमैथुनश्रमखाध्यायान्वर्जयेत् । तदहस्तस्मिन्नहनि श्राद्धदिने एते नियमाः, शुचिर्वाह्याभ्यन्तररक्तवसनरक्तस्रावाद्यशुद्धिरहितः । अथ वा शुक्लवासाः शुचिः, काषायादेः प्रतिषिद्धत्वात् । तथा च हारीतः । शुचयः शुचिवाससः स्युरिति । अप्रमत्त इति स्मृत्युक्तकालादिषु सावधानः । स्वाध्यायः श्राद्धमन्त्रजपादिव्यतिरिक्तवेदपाठः । मैथुनम्पूर्वदिनेऽपि । सुगममन्यत् । अन्येऽपि दातृभोक्त्रोनियमाः स्मृत्युक्ता ग्राह्याः । यमः । पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । सन्ध्यां प्रतिग्रहं होमं श्राद्धभोक्ताऽष्ट वर्जयेत् । मत्स्यपुराणे । पुनर्भोजनमध्वानम्पानमायासमैथुनम् । श्राद्धकृच्छ्राद्धभुक् चैव सर्वमेतद्विवर्जयेत् । स्वाध्यायं कलहश्चैव दिवास्वापन्तथैव च । पानं सुरापानम् , तच्च यस्य प्राप्तन्तस्यैव निषेधः । दन्तधावनताम्बूलं स्निग्धस्नानममोजनम् । रत्यौषधपरान्नञ्च श्राद्धकृत्सप्त वर्जयेदिति । दन्तानां धावने प्रायश्चित्तञ्चोक्तं विष्णुरहस्ये । आद्धोपवासदिवसे खादित्वा दन्तधावनम् । गायत्रीशतसम्पूतमम्बु प्राश्य विशुष्यतीति । अध्यादिगमने दोषमाह यमः । आमन्त्रितस्तु यः श्राद्धे अध्वानम्प्रतिपद्यते । भ्रमन्ति पितरस्तस्य तं मासं पांसुभोजिनः । याज्ञवल्क्यः । अध्वनीनो भवेदश्वः पुनर्भोजी तु वायसः । होमकृन्नेत्ररोगी स्यात्पाठादायुः प्रहीयते । दाननिष्फलतामेति प्रतिग्राही दरिद्रताम् । कर्मकृज्जायते दासो मैथुनी शूकरो भवेदिति । मैथुनञ्चाष्टविधम् । दक्षः । स्मरणं कीर्तनं केलिः प्रेक्षणमुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव चेति । शातातपः । श्राद्धं कृत्वा परश्राद्धे भुञ्जते ये तु मोहिताः । पतन्ति पितरस्तेषां लुमपिण्डोदकक्रियाः । अन्ये च नियमास्तत्र तत्र वक्ष्यन्ते, ते च श्राद्धप्राधान्ये गौणत्वे च न्यायबाधिताः कापि केऽपि न भवन्ति । यथा, तीर्यश्राद्धेऽध्वा उपवासश्च न दोषाय । गर्माधाननिमित्ते श्राद्धे मैथुनम् । अग्निहोत्रनिमित्ते श्राद्धे होमः । स्वद्वितीयविवाहश्राद्धे प्रतिग्रहः ।

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560