Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 451
________________ कण्डिका २] परिशिष्टम् । ४४५ त्रजपं मुक्त्वा पिण्डावाणं च दक्षिणाम् । आह्वानस्वागते चैव विना च परिवेषणम् । विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा । विप्रप्रदक्षिणाश्चैव स्वस्तिवाचनकं विना । पित्र्यमन्यत्प्रकर्तव्यं प्राचीनावीतिना सदेति जमदग्निः । द्विगुणास्तुदर्भाः पित्र्ये इत्यनुवर्तते, तु पुनः पित्र्ये हविरुत्सर्गादौ द्विगुणीकृता दर्भा भवन्ति, अर्थादेवे ऋजव इति । अत्राह बौधायनः, प्रदक्षिणं तु देवानां पितृणामप्रदक्षिणम् । देवानामृजवो दर्भाः पितृणां द्विगुणाः स्मृताः। कात्यायनस्मृतौ विशेपः, सपिण्डीकरणं यावजुदमः पितृक्रिया । सपिण्डीकरणादूर्वं द्विगुणैर्विधिवद्भवेदिति । दर्भलक्षणं चोक्तं यज्ञपार्श्वेकीदशा यजिया दर्भाः कीदृशाः पाकयज्ञियाः । कीदृशाः पितृदेवत्याः कीदृशा वैश्वदेविकाः । हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञियाः । समूला पितृदेवत्याः कल्मापा वैश्वदेविकाः । अप्रसूताः स्मृता दर्भाः प्रसूतास्तु कुशाः स्मृताः । अमूलाः कुतपा ज्ञेया इत्येषा नैगमी श्रुतिः । प्रादेशादधिका दर्भास्निपत्रादियुताश्च ये । कुशास्ते याज्ञिकैः प्रोक्ताः स्नानादिपु पवित्रकाः । दर्भाः किमर्थं दीयन्ते श्राद्धकालेषु किं तिलाः । किमर्थ वेदविच्छ्राद्धे किमर्थ यतिरुच्यते । रक्षन्ति राक्षसान्दर्भास्तिला रक्षन्ति चासुरान् । वेदविद्रक्षयेच्छ्राद्धं यतीनां दत्तमक्षयमिति । दर्भाभावे काशादि गृहीत्वा कर्म कुर्यात् । तथा च स्मृतौ-दोभावे तु काशाः स्युः काशाः कुशसमाः स्मृताः । काशाभावे ग्रहीतव्या अन्ये दर्भा यथोचिताः । दर्भाभावे स्वर्णरूप्यतानः कर्मक्रिया सदा । कुशकाशशरा दूर्वा यवगोधूमवल्वजाः । सुवर्ण रजतं तानं दश दर्भाः प्रकीर्तिताः । साने दाने तथा होमे स्वाध्याये तर्पणेऽपि च, इति । 'पवित्रपाणिर्दद्यादासीनः सर्वत्र सर्वत्रग्रहणाईवे पित्र्ये च यत्किचिदाति तत्सर्वमासीनः पवित्रपाणिः सन्दद्यात् । पवित्रपाणिः कुशपाणिः पवित्रशब्दोऽत्र कुशवचनः पवित्रस्थ इति मन्त्रलिङ्गात् । अथ वा स्मृतिप्राप्तं पवित्रपाणित्वमासीनत्वं चात्र सार्थकत्वेनानुवदति । तेन वामहस्ते कुशादानं पितृणामावाहनेष्वासीनत्वं निषेधतीत्यर्थः । तथा च पठन्ति-वामहस्तधृतान्दर्भान गृहे रडवलींस्तथा । ललाटे तिलकं दृष्ट्वा निराशाः पितरो गता इति । किंचावाहनेनागच्छत्सु 'पितृपु कर्तुरासीनत्वं न युक्तम् । तथा च पुराणोक्तं लिङ्गम् । अथ प्राञ्जलिरुत्थाय स्थित्वा चावाहयेपितनिति । 'प्रश्नेषु पङ्खिमूर्द्धन्यं पृच्छति सर्वान्वा' वाशब्दो विकल्पार्थः, वक्ष्यमाणेयु आवाहनादिप्रश्पु पत्रिमूर्द्धन्यं पलेराद्यं ब्राह्मणं पृच्छेत् सर्वान्वा पृच्छेत् । तुल्यविकल्पस्याष्टदोषदुष्टत्वाद् व्यवस्थितविकल्पोयमिति श्राद्धकाशिकाकारः । तुल्यविकल्पएवायमिति कर्काचार्यादयः । 'आसनेषु दर्भानास्तीर्य विश्वान्देवानावाहयिष्य इति पृच्छति । आसनेऽत्र पीठेपु दर्भानास्तीर्याच्छादनं कृत्वा विश्वान्देवानावाहयिष्ये इति पृच्छेत् पतिमूर्द्धन्यं सर्वान्वा । आसनान्याह स्मृतिः-शमीकाष्मर्यशल्लाश्च कदम्बो वारणस्तथा । पञ्चासनानि शस्तानि श्राद्धे वा देवतार्चने । तथा च " श्रीपर्णी वरुणक्षीरी जम्बूकाम्रकदम्बजम् । सप्तमं वाकुलं पीठं पितॄणां दत्तमक्षयमिति" आसनेपु दर्भानास्तीयति वदता हस्ते विष्टरवदानं निराकृतम् । कर्काचार्यास्त्वेवमाहुः--एतदास्तरणं सामर्थ्यात्पूर्वमुपवेशनाद् द्रष्टव्यम् । पाठक्रमादर्थक्रमस्य वलिष्ठत्वात् । 'आवाह''पृच्छति । ततो ब्राह्मणैरावाहयेत्यनुज्ञातो विश्वेदेवास आगतेत्यनया ऋचा आवाह्य वैश्वदेवव्राह्मणपुरतो यवान्प्रादाक्षिण्येनावकीर्य विश्वेदेवाः शृणुतेममितीमं मन्त्रं पठित्वा पितृनावाहयिष्य इति पृच्छति । अत्र तिलैरवकिरणमिति फर्काचार्या आहुः । अन्ये तु यवैरन्ववकीयेति याज्ञवल्क्यवचनाद्यवैः कुर्वन्ति । द्विजानेकत्वेऽपि न प्रतिद्विजमावाहनावृत्तिः, सकृदावाहनेनैवानेकब्राह्मणाधिष्टाने देवताध्यासनसंभवात् । 'आवाह"देवीरिति । आवाहयेति ब्राह्मणैरानापित उशन्तस्त्वेति मन्त्रेण पितृनावाह्य पितृव्राह्मणानामग्रतस्तिलानप्रादक्षिण्येनावकीयायन्तु नः पितर इति पठेत् । यज्ञमहन्तीति यज्ञियाः पालाशादयः, यज्ञलिग्भ्यां घखनाविति धप्रत्ययः । ते वै पालाशाः स्युरित्युपक्रम्य एते हि वृक्षा यज्ञिया

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560