Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 457
________________ auser २] परिशिष्टम् । ४५१ 'चासनं दत्त्वा वृद्धयाज्ञवल्क्यः -- अर्धपानं समानीय कुशद्वयसमन्वितम् । शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवान् क्षिपेत् । गन्धपुष्पादिसंपूर्णपृच्छां कुर्याद्विचक्षणः । पूर्णमस्त्विति तैरुक्त विश्वान्देवान् समाह्वयेत् । ततस्तु क्रमयोगेन पित्रर्थे तु नियोजयेत् । कुशाम्बुतिलसंयुक्तं तिलोसीति तिलान् क्षिपेत् । शन्नोदेव्या पयः क्षिप्त्वा शेषं पूर्ववदाचरेत् । स्वनामशर्मगोत्रैस्तु उशंतस्त्वेति वै ततः । आवाहयेत्पितृन् भक्त्या जपेदायं तु नः पुनरिति । ततश्चासनं दत्त्वा पूरयित्वा संपूर्ण पृच्छां कृ त्वाऽऽवाह्यायै दत्त्वेति वैश्वदेवकाण्डं कृत्वाऽऽसनादि पितृकाण्डं कुर्यादिति क्रमः । तथा च वैजवापोऽप्यनन्तरं पदार्थानुसमयमाह ---तस्योपरि कुशान्दत्त्वा प्रदद्याद्दैवपूर्वकम् । गन्धपुष्पाणि धूपं च दीपवस्त्रोपवीतकम् । इति । अन्यथा कथं देवपूर्वमिति पदार्थानुसमयमुपक्रम्य विश्वान्देवानावाहयिष्य इत्यादिना तमेव पुनरवत्या (?) दित्यलमनल्पप्रलापेन । अथ पदार्थानुसमयकाण्डानुसमययोर्विकल्पः । विश्वान्देवानाहादित्यपुराणम् - विश्वेदेवाः क्रतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ । नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके । नवान्नलभने देवौ कालकामौ सदैव हि । अपि कन्यागते सूर्ये श्राद्धे च धुरिलोचनौ । पुरूरवावौ चैव विश्वेदेवाश्च पार्वणे। इति पैतृके नवान्नं लभत इति नवान्ननिमित्ते श्रद्धे, कन्यागते सूर्य इति केवल काम्यबुद्धया क्रियमाणे, उभयबुद्ध्या कृते तु पुरूरवार्द्रवावेव गोदोहनेन पशुकामस्येतिवन्नित्यकर्माश्रयणेन गुणफलविधेरिति पारिजातः । 'आवाहयेत्यनुज्ञातो विश्वेदेवास आगते - त्यनयाऽऽवाह्यावकीर्य विश्वेदेवाः शृणुतेममिति जपित्वा ' आवाह्येति द्विजैराज्ञप्तो विश्वेदेवास आगतेत्यनयर्चावाह्यावकीर्य विश्वेदेवाः शृणुतेममित्यृचं जपेदित्यर्थः । अत्रावकीर्येति यद्यपि द्रव्यमन्त्रयोरनुपदेशस्तथाऽपि यवैरोषधयः समवदन्तेति मन्त्रेण च प्रदक्षिणमुदङ्मुखेनावकिरणं द्रष्टव्यम् । यथाह यमः — यवहस्तस्ततो देवान्विज्ञाप्यावाहनं प्रति आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ! विश्वेदेवाः शृणुतेममिति जत्वा ततोऽक्षतान् ओषधय इति मन्त्रेण विकिरेत्तान्प्रदक्षिणमिति । अत्रावाह्य यवान्त्रिकिरेत्ततो जप इति क्रमः । उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदक्षिणं तु देवानां पितॄणामप्रदक्षिणमिति च । नन्वपहता इति तिलानवकीर्येत्यत्र किरणेऽपहतेति मन्त्रस्य विहितत्वात्कथमोषधय इति ? उच्यते, वैश्वदेवस्य स्वत एव रक्षोन्नत्वादपहता इत्यस्य मिथ्याप्रयुक्तत्वात् । तथा च गोभिलसूत्रम् - ओषधयः समवदन्तेति । अथ मन्त्रानुपदेशात्तूष्णीमेवावकिरणम् । तथा च खादिरगृह्यम् —— तूष्णीं यवानवकीर्येति । 'पितृनावाहयिष्य इति पृष्ट्वाऽऽवाहयेति द्विजैराज्ञप्त उशन्तस्त्वेत्यनयर्चाऽऽवाह्यापहता इति तिलान् प्रदक्षिणमवकीर्यायंतुन इति जपित्वा' पितृनिति मातामहानामप्युपलक्षणम् । ततश्चापसव्येन दक्षिणामुखो द्विगुणकुशतिलानादाय वामं जानु पातयनोमित्युक्तत्वाऽस्मत्पितृपितामहप्रपितामहानमुकामुकशर्मणोऽमुकामुकगोत्रान्वसुरुद्रादित्यरूपानावाहयि - ष्य इति पृष्ट्रावाहयेति द्विजैराज्ञप्त उशन्तस्त्वेत्यनयर्चावाद्यापहता इति तिलानवकीर्यायंतु न इत्यृचं तिष्ठन् जपेदित्यर्थः । नन्वत्रापि तूष्णीमोषधय इति मन्त्रेण वावकिरणमिति चेत्, न । रक्षोघ्नत्वादवकिरणेऽपहतेति मन्त्रस्यैव ज्ञापितत्वात् । वैश्वदेवे तु स्वत एव रक्षोन्नत्वान्नेत्युक्तम् । अत्रोदकस्पर्शः राक्षसत्वात् । अत्रैके विप्रवहुत्वे प्रतिद्विजमेकवचनप्रयोगेन पित्रादीनावाहयन्ति तत्पितृनावाहयिष्य इति सूत्रोपदेशात्प॑तॄन्हविप अत्तव इति मन्त्रलिङ्गाश्चोपेक्षणीयम् । अत्रैतञ्चिन्त्यते--- किं मातामह श्राद्धे मन्त्रोहो भवति नवेति । तत्रैक आहुः पितृभ्यः स्वधायिभ्यः, अत्र पितरो मादयध्वम्, आयन्तु नः पितर इत्यादि, एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन्, स्वपितृभ्यः पिता दद्यात्, नमस्यैहं पितृञ्छ्राद्ध इत्यादिश्रुतिस्मृतिवाक्येषु पितृशब्दस्यैव प्रयोगान्मातामह श्राद्धे पितृशब्दप्रयोग एव न मन्त्रोह इति । तदेतद्विचारणीयम् । यदिश्रुत्यादिवाक्यस्यपितृशब्दप्रयोगेणैव सिद्धिस्तर्ह्यस्मन्मातरस्मन्मातामहेत्यादिप्रयोगेष्वपि पितृशब्दोच्चारणमेवास्तु | अथ मन्त्रेष्वन्यथावृत्तिनिषेधो नैतेपु

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560