________________
auser २]
परिशिष्टम् ।
४५१
'चासनं दत्त्वा वृद्धयाज्ञवल्क्यः -- अर्धपानं समानीय कुशद्वयसमन्वितम् । शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवान् क्षिपेत् । गन्धपुष्पादिसंपूर्णपृच्छां कुर्याद्विचक्षणः । पूर्णमस्त्विति तैरुक्त विश्वान्देवान् समाह्वयेत् । ततस्तु क्रमयोगेन पित्रर्थे तु नियोजयेत् । कुशाम्बुतिलसंयुक्तं तिलोसीति तिलान् क्षिपेत् । शन्नोदेव्या पयः क्षिप्त्वा शेषं पूर्ववदाचरेत् । स्वनामशर्मगोत्रैस्तु उशंतस्त्वेति वै ततः । आवाहयेत्पितृन् भक्त्या जपेदायं तु नः पुनरिति । ततश्चासनं दत्त्वा पूरयित्वा संपूर्ण पृच्छां कृ त्वाऽऽवाह्यायै दत्त्वेति वैश्वदेवकाण्डं कृत्वाऽऽसनादि पितृकाण्डं कुर्यादिति क्रमः । तथा च वैजवापोऽप्यनन्तरं पदार्थानुसमयमाह ---तस्योपरि कुशान्दत्त्वा प्रदद्याद्दैवपूर्वकम् । गन्धपुष्पाणि धूपं च दीपवस्त्रोपवीतकम् । इति । अन्यथा कथं देवपूर्वमिति पदार्थानुसमयमुपक्रम्य विश्वान्देवानावाहयिष्य इत्यादिना तमेव पुनरवत्या (?) दित्यलमनल्पप्रलापेन । अथ पदार्थानुसमयकाण्डानुसमययोर्विकल्पः । विश्वान्देवानाहादित्यपुराणम् - विश्वेदेवाः क्रतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ । नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके । नवान्नलभने देवौ कालकामौ सदैव हि । अपि कन्यागते सूर्ये श्राद्धे च धुरिलोचनौ । पुरूरवावौ चैव विश्वेदेवाश्च पार्वणे। इति पैतृके नवान्नं लभत इति नवान्ननिमित्ते श्रद्धे, कन्यागते सूर्य इति केवल काम्यबुद्धया क्रियमाणे, उभयबुद्ध्या कृते तु पुरूरवार्द्रवावेव गोदोहनेन पशुकामस्येतिवन्नित्यकर्माश्रयणेन गुणफलविधेरिति पारिजातः । 'आवाहयेत्यनुज्ञातो विश्वेदेवास आगते - त्यनयाऽऽवाह्यावकीर्य विश्वेदेवाः शृणुतेममिति जपित्वा ' आवाह्येति द्विजैराज्ञप्तो विश्वेदेवास आगतेत्यनयर्चावाह्यावकीर्य विश्वेदेवाः शृणुतेममित्यृचं जपेदित्यर्थः । अत्रावकीर्येति यद्यपि द्रव्यमन्त्रयोरनुपदेशस्तथाऽपि यवैरोषधयः समवदन्तेति मन्त्रेण च प्रदक्षिणमुदङ्मुखेनावकिरणं द्रष्टव्यम् । यथाह यमः — यवहस्तस्ततो देवान्विज्ञाप्यावाहनं प्रति आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ! विश्वेदेवाः शृणुतेममिति जत्वा ततोऽक्षतान् ओषधय इति मन्त्रेण विकिरेत्तान्प्रदक्षिणमिति । अत्रावाह्य यवान्त्रिकिरेत्ततो जप इति क्रमः । उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदक्षिणं तु देवानां पितॄणामप्रदक्षिणमिति च । नन्वपहता इति तिलानवकीर्येत्यत्र किरणेऽपहतेति मन्त्रस्य विहितत्वात्कथमोषधय इति ? उच्यते, वैश्वदेवस्य स्वत एव रक्षोन्नत्वादपहता इत्यस्य मिथ्याप्रयुक्तत्वात् । तथा च गोभिलसूत्रम् - ओषधयः समवदन्तेति । अथ मन्त्रानुपदेशात्तूष्णीमेवावकिरणम् । तथा च खादिरगृह्यम् —— तूष्णीं यवानवकीर्येति । 'पितृनावाहयिष्य इति पृष्ट्वाऽऽवाहयेति द्विजैराज्ञप्त उशन्तस्त्वेत्यनयर्चाऽऽवाह्यापहता इति तिलान् प्रदक्षिणमवकीर्यायंतुन इति जपित्वा' पितृनिति मातामहानामप्युपलक्षणम् । ततश्चापसव्येन दक्षिणामुखो द्विगुणकुशतिलानादाय वामं जानु पातयनोमित्युक्तत्वाऽस्मत्पितृपितामहप्रपितामहानमुकामुकशर्मणोऽमुकामुकगोत्रान्वसुरुद्रादित्यरूपानावाहयि - ष्य इति पृष्ट्रावाहयेति द्विजैराज्ञप्त उशन्तस्त्वेत्यनयर्चावाद्यापहता इति तिलानवकीर्यायंतु न इत्यृचं तिष्ठन् जपेदित्यर्थः । नन्वत्रापि तूष्णीमोषधय इति मन्त्रेण वावकिरणमिति चेत्, न । रक्षोघ्नत्वादवकिरणेऽपहतेति मन्त्रस्यैव ज्ञापितत्वात् । वैश्वदेवे तु स्वत एव रक्षोन्नत्वान्नेत्युक्तम् । अत्रोदकस्पर्शः राक्षसत्वात् । अत्रैके विप्रवहुत्वे प्रतिद्विजमेकवचनप्रयोगेन पित्रादीनावाहयन्ति तत्पितृनावाहयिष्य इति सूत्रोपदेशात्प॑तॄन्हविप अत्तव इति मन्त्रलिङ्गाश्चोपेक्षणीयम् । अत्रैतञ्चिन्त्यते--- किं मातामह श्राद्धे मन्त्रोहो भवति नवेति । तत्रैक आहुः पितृभ्यः स्वधायिभ्यः, अत्र पितरो मादयध्वम्, आयन्तु नः पितर इत्यादि, एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन्, स्वपितृभ्यः पिता दद्यात्, नमस्यैहं पितृञ्छ्राद्ध इत्यादिश्रुतिस्मृतिवाक्येषु पितृशब्दस्यैव प्रयोगान्मातामह श्राद्धे पितृशब्दप्रयोग एव न मन्त्रोह इति । तदेतद्विचारणीयम् । यदिश्रुत्यादिवाक्यस्यपितृशब्दप्रयोगेणैव सिद्धिस्तर्ह्यस्मन्मातरस्मन्मातामहेत्यादिप्रयोगेष्वपि पितृशब्दोच्चारणमेवास्तु | अथ मन्त्रेष्वन्यथावृत्तिनिषेधो नैतेपु