________________
४५२ पारस्करगृह्यसूत्रम्।
[नाद्धसूत्रप्रयोगेष्विति तर्हि मन्त्रोप्रतिपादकानां वचनानां वैयर्थ्यापत्तिर्मन्त्राणां धान्यथाप्रयुक्तत्वमित्युभयथाऽपि मन्त्रीहसिद्धिरिति । तस्माद्यथाविहितमन्त्रोह एवेति सिद्धम् । तथा च कात्यायनः-यथाथैमूहश्वोदिते न प्रकृतावपूर्वत्वाद्विकृतौ वचनादिति । विष्णुरपि-आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने । अन्यकर्मण्यनूह्याः स्युरेष श्राद्धविधिः स्मृतः । मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः । मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितमिति । अपि चैकोद्दिष्टेऽपि स एव एवं मन्त्रानूहेतैकोहिष्ट इति । शेषाणां मन्त्रवर्जितमिति पितृमातृमातामहव्यतिरिक्तपितृव्यभ्रात्रादीनामूह्यमन्त्रवर्जितमित्यर्थः । यज्ञियवृक्षचमसेपुपवित्रान्तहितेष्वेककस्मिन्जप आसिञ्चति शन्नो देवीरिति' यजमर्हन्ति यज्ञियाः पलाशादयः यज्ञविग्भ्यां घखलाविति घप्रत्ययः । तथा च श्रुतिः-ते वै पलाशाः स्युरिः त्युपक्रम्य यदि पलाशान्न विन्देदथो अपि बैल्वाः स्युरथो खादिरा अथो औदुम्बरा एते हि वृक्षा यज्ञिया इति । ब्रह्मपुराणेऽपि-पलाशाश्वत्थन्यग्रोधप्लक्षवैकंकतोद्भवाः । काश्मर्योदुम्बरौ विल्वाश्चन्दनः सरलस्तथा । शालश्च देवदारुश्च खदिरश्चेति यज्ञियाः । चमसाः पात्राणि अम्भसः, प्रमाणमेषां प्रयोजनापेक्षम् । अर्थात्परिमाणमिति पारिभाषकसूत्रात् । धातुमयपरिमाणं वा हीननिषेधात् । पवित्राण्यनन्तर्गमिणं साग्रमिति कात्यायनोक्तानि । 'पवित्रान्तहितेष्विति । अर्घपाने पवित्रं निधायोदक क्षिपेदिति ज्ञापयति । कुशं विनोदकस्याप्रयतत्वात् । तथा च श्रुतिः-वृत्रो हवा इदं सर्वत्वत्वाशिष्य इत्युपक्रम्य तदेवासामेताभ्यां पवित्राभ्यामपहन्तीत्युपसंहारः । एकैकस्मिन्निति मन्त्रावृति दर्शयति । ततश्च पलाशादिषु पात्रेषु यथादैवतसंख्येषु दैवप्रागग्रे सव्यादिना प्रागग्रं पवित्रद्वयं पित्र्ये दक्षिणाप्रेषु दक्षिणासंस्थेष्वपसन्यादिना पवित्रत्रयं दक्षिणायं निधाय शन्नोदेवीरिति मन्त्रेण प्रतिचमसं मन्त्रावृत्त्या ऋगन्ते अप आसिञ्चेदित्यर्थः । तथा च विष्णुः-दक्षिणाग्रेषु दक्षिणासंस्थेष्वपसव्यादिना असिञ्चेच्छन्नो देवीरिति । अत्र केचिद्विवदन्ते-पवित्रकरणमनुपदेशातूष्णीमिति । तद्युक्तम् । मन्त्रेण विहितत्वात् । तथा च याज्ञवल्क्यः -पवित्रे स्थ इति मन्त्रेण द्वे पवित्रे च कारयेत् । नन्तर्गर्भकुशच्छिन्ने कौशे प्रादेशसंमिते । अत्रैक आहुः पवित्रेस्थ इति मन्त्रलिङ्गस्य पवित्रे करोति कुशैः समावकीर्णाप्रैः कुशैश्छिनत्ति पवित्राभ्यामुत्पुनातीत्यादिवचनानां च पवित्रत्रये वैयर्थ्यात्पवित्रत्रये पवित्रद्वयमेव पित्र्येऽपीति। तद्युक्तम् । अथ पवित्राणिस्युरिति श्रुत्यैव प्रदेशान्तरे पवित्रत्रयस्य ज्ञापितत्वात् । चतुर्विंशतिमतेऽपि । द्वे द्वे शलाके देवानां विसस्तिस्रस्तु पार्वणे । एकोद्दिष्टे शलाकैका श्राद्धेष्वर्येषु निक्षिपेत् । यत्तु माध्यंदिनीयानां द्वे द्वे तु पवित्रे पितृकर्मणीति वचनं तन्मन्त्रेण पवित्रद्धयच्छेदनपरं न त्वधं पवित्रद्वयनिधानपरम् । अतश्च पवित्रेस्थ इतिमन्त्रेण द्वे पवित्रे कुशैश्छित्वान्यतृतीयेन सहाघे निधानमिति सिद्धम् । तथा च हेमाद्रिपद्धतौ स्मृतिः-पवित्रस्थ इति छिन्नमगर्भ यत्कुशद्वयम् । कुशत्रयेण प्रादेशमात्रं तत्स्यात्पवित्रकम् इति । अत्र यज्ञपार्श्वः । ओषधीमन्तरे कृत्वा अङ्गुष्ठाडलिपार्वणे(1)1 छिन्द्यात्प्रादेशमानं तु पवित्रं विष्णुदैवतम् । इति। एकैकस्मिन्नेव तिलानावपति तिलोऽसीति । तिलानिति गन्धाधुपलक्षणम् । एकैकस्मिन्निति प्रतिपात्रं तिलोसीति मत्रेण तिलानावपेदित्यर्थः । अत्र यवानामनुपदेशात्तिलप्रक्षेपो दैवपानेऽपीति कर्कोपाध्यायाः । नन्वेककस्मिन्नित्यनुवर्तमाने पुनरेकैकस्मिन्ग्रहणं किमर्थम् । उच्यते । तिलोऽसीति मन्त्रो पितन्प्रीणाहीति बहुवचनान्तेन पितृशब्देनैकद्रव्यत्वादनूहितः सकृन्मन्त्रः प्राप्नोतीति तन्माभूदित्येककस्मिन्निति पुनरुक्तम् । तथाच-शन्नो देव्या पयः क्षिप्त्वा तिलोऽसीत्यावपेत्तिलान् । आवृत्तिः प्रतिपात्रं स्यान्मन्त्रस्यात्रोह इज्यते । अतश्च मन्त्रोहोऽपि स्यादिति । निश्चितमेतदित्येवंशब्दार्थः । न च गन्धादिप्रक्षेपोऽपि मन्त्रेणेति वाच्यम् । गन्धं पुष्पं च तूष्णीं स्यादितिवचनात् । अत्र मन्त्रस्य स्वाहान्तत्वात्पित्रेऽपि स्वाहा प्रयोगः । एवमभिनदारुपात्रायुक्तवा मिनप्रतिप्रसवार्थमपि धातुमयपात्राण्याह-'सौवर्णराजतौदुम्बरखड्गमणिमयाना