________________
कण्डिका २]
श्राद्धसूत्रम्। पात्राणामन्यतमेषु' । मणिमयानि शङ्खशुक्त्यादीनि। एषां मध्ये येषु केषुचिदित्यर्थः । तथा च ब्रह्मपुराणे, सौवर्णरौप्यताम्राणां स्फटिकं शङ्खशुक्तयः । भिन्नान्यपि नियोज्यानि पात्राणि पितृकर्मणि । हारीतोऽपिकाञ्चनेन तु पात्रेण रजतौदुम्बरेण वा । दत्तमक्षयतां याति खड्वेनार्यकृतेन तु । आर्याजैवर्णिकाः । प्रमाणं चाह बृहस्पतिः---अष्टाङ्गुलं भवेत्पात्रं पितृणां राजतं शुभम् । दशाङ्गुलं तु देवानां सौवर्ण ताम्रमेव चेति । औदुम्बरं ताम्रमयं संनिधानसामर्थ्यात् । तदुक्तम्-प्रसिद्धार्थस्य सांनिध्ये योऽसिद्धार्थ उच्यते । यत्संनिधानसामर्थ्यात्तज्जातं योऽनुगम्यते(१) । इति वार्षीयस्य तु यज्ञियत्वेनैव सिद्धत्वात् । अत्र सुवर्णादिभ्यो विकारार्थेऽमयटौ । राजतं तु पित्र्य एव । तथा च वायुपुराणम्तथाऽपिण्डभोज्येषु पितॄणां रजतं मतम् । अमङ्गल्यं तु यत्नेन देवकार्येषु वर्जयेत् । तथा-शिवनेत्रोद्भवं यस्मादतस्तपितृवल्लभम् । अमङ्गल्यं तु यत्नेन देवकार्येषु वर्जितमिति । 'यानि वा विद्यन्ते । वाशब्दः सौवर्णाद्यभावविकल्पे । सौवर्णादिविहिताभावे विहितप्रतिषिद्धानि कांस्याश्ममृन्मयादीनीत्यर्थः । तेपां यानि वा विद्यन्ते इति सानुशयमभ्यनुज्ञानात् । विहितप्रतिषिद्धत्वं च तेषां स्मृतिषु विस्पष्टमुक्तम् । तथा हि ब्रह्मपुराणे-कांस्यभाण्डानि वाणि पितृदेवतकर्माण । इति पैठी नसिः । लोहसीसकांस्यपाषाणहीनपात्राणि भग्नपात्राणि वजेयेदिति । तथा कांस्यरजतपर्णताम्रपात्राणि भोजनार्थमर्धार्थ चोपकल्प्याणि । बैजवापोऽपि-अश्ममन्मयानि स्युरपि पर्णपुटास्तथेति । यानि वा विद्यन्त इति प्रतिपिद्धतराणीति वा । एवं विहितप्रतिषिद्धानि पूर्वपक्षयित्वा सिद्धान्तमाह-पत्रपुटेषु वा वाशब्दः पूर्वसूत्रोक्तविहितप्रतिषिद्धनिषेधार्थः । तथा च वृद्धयाज्ञवल्क्य:----मृदुश्मनी तथा कांस्यमारकूटादिसंभवम् । त्रपुसीसकलोहानामर्षपात्रं विवर्जयेदिति । धर्मप्रदीपेऽपि मृत्पात्रगतमधैं च मृत्तिकागन्धलेपनम् । घृतधूपं च यो दद्यानिराशाः पितरो गताः । कात्यायनोऽपि-आसुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् । पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्चचेति । ततश्च विहितप्रतिषिद्धेभ्यः पत्रपुटपात्राण्येव श्रेयस्कराणीत्यर्थः । यत्तु कर्कोपाध्यायैर्मुन्मयमचे गृहीतं तद्धस्तघटितविषयम् । कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् । तदेव हस्तघटितं स्थाल्यादि दैविक भवेदिति वचनात् । 'एकैकस्यैकैकेन ददाति सपवित्रेषु हस्तेपु या दिव्या इति' एकैकस्येति पित्रादिनिर्देश एककेनेति च पात्राणाम् । एकैकस्येत्येतावत्युक्ते एकेनवार्येण त्रयाणां दानं प्रसज्यते तन्निवृत्त्यर्थमाहैकैकेनेति । अतश्चैकैकस्यैकैकेनेति न तंत्र इत्यर्थः । तथा च कात्यायनः-अघे क्षय्योदकेचैव पिण्डदानेऽवनेजने । तन्त्रस्य विनिवृत्तिः स्यात्स्वधावाचनिके जपे । एवं च सति त्रयाणामेकद्विजोपवेशन एकस्य वा त्रयोपवेशनेऽर्घपात्राणि त्रीण्येव न द्विजसंख्ययेत्युक्तम् । तथा च स्मृतिः-अर्घः स्यात्यार्थहेतुत्वादातुः स्वपितृसंख्यया । पूरयेदर्घपात्राणि न विप्राणां तु संख्यया । अपि च वैजवापः-स्ता पितृणां त्रीण्येव कुर्यात्पात्राणि धर्मवित् । एकैकस्मिन्वा बहुषु वा ब्राह्मणेषु यथाविधीति । स्तीर्खा पवित्रादिकमिति शेषः । अत्रैतत्संदिह्यते-वैश्वदैविक एकाघः किं वा द्वाविति । उभयथा वचनदर्शनात् । तथा हि-यज्ञियवृक्षचमसे सपवित्रक इति शाट्यायनेनैकमुक्तम् । याज्ञवल्क्येनापियवैरन्ववकीर्याथ भाजने सपवित्रके इत्येकमेव । मत्स्यपुराणे तु-विश्वान् देवान् यवैः पुष्पैरभ्यासनपूर्वकम् । पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रके इति द्वयमुक्तम् । प्रचेतसाऽपि–एकैकस्य तु विप्राणां संख्यया विप्रस्य अर्धे पात्रे विनिक्षिपेत् । यवोऽसीति यवान् की| गन्धपुष्पैः सुपूजितमिति द्वयमेव । अत्रैके कर्काय आहुः--एकदेवताकत्वादेकमेव पात्रं दैवमिति । अन्ये तु मातामहश्राद्धे वैश्वदेवस्य पृथक्पात्रयमिति । तदेतद्विचारणीयं किमत्र विकल्पः किं वा व्यवस्थेति ? । तत्र व्यवस्थेति ब्रूमः । तथा हि-वैश्वदेवश्राद्धे पक्षद्वयमुक्तम् । तन्त्रपक्षो भेदपक्षश्चेति । तत्र यदि भिन्नपक्ष एकमित्युच्येत तदा मत्स्यपुराणवचनमनर्थकं स्यात् । अथ तन्त्रपक्ष एकमिति तदोभयवचनसार्थक्यं