________________
४५४ पारस्करगृह्यसूत्रम्
[श्राद्धसूत्रस्यात् । ततश्च 'तन्त्रपक्ष एक भिन्नपक्षे द्वयमिति व्यवस्थापनेन निवन्धकर्तृणामविरोध इति सिद्धम् । सपवित्रेष्विति. अर्घपवित्राण्येवोच्यन्ते । हस्तपवित्राणां तु पवित्रपाणयः सर्व इति स्मृत्यैव प्राप्तत्वात् । असाविति संबुध्यन्तनामाद्युपलक्षणम् । एप तेऽर्थ इति प्रयोगं दर्शयता स्वधानिषेधो दर्शितः । एतम्वोक्तमासनदाने । 'ततश्च यथाविहितसव्यादिना वामहस्ते अर्धे धृत्वा पवित्रे प्रागने देवद्विजकरे दुत्त्वा. पादप्रमृति मूर्धान्तं प्रदक्षिणं पूजां कृत्वा यादिव्या मन्त्रेण पुरूरवावसनामानो विश्वेदेवा एष वोघों नमम इत्यर्घ दत्त्वा, एवं पिन्येपि दक्षिणामपवित्राणि द्विजकरे दत्त्वा शिरप्रभृतिपादान्तमप्रदक्षिणं पूजयित्वा या दिव्या इति मन्त्रेणार्य पितृतीर्थेन संबन्धनामादिभिः पितरं संवोध्य दक्षिणहस्तेनैष ते अर्थोऽस्विति अर्घ ' दद्यादित्यर्थः । तथा च प्रचेता:दत्त्वा हस्ते पवित्रं तु कृत्वा पूजां च पादतः । पादप्रभृतिमूर्धान्तं देवानां पुष्पपूजनम् । या दिव्या इति मन्त्रेण हस्तेष्वधं विनिक्षिपेत् । ततो वामेन हस्तेन गृहीत्वा चमसान् क्रमात् । शिरःप्रभृतिपादान्तं नमो व.इति पैतृके । पितृतीर्थेन तत्तोयं दद्याद्दक्षिणपाणिनेति । अत्रैक एकद्रव्यत्वादर्घदानकर्मावृत्तौ। सकृन्मन्त्रमिच्छन्ति । तत्ककोपाध्यायनिराकृतमिति उपेक्षणीयम् । 'प्रथमे पाने संत्रवान्समवनीय पितृभ्यः स्थानससीति न्युन्जं पात्रं निदधाति' प्रथमं पात्रं पितृपात्रं त्रिदैवतम् । तथा च स्मृतिः-प्रथमे पितृपात्रे तु सर्वान्संभृत्य संसवान् । पितृभ्यः स्थानमित्युक्त्वा कुर्याद्भूम्यामधोमुखम् । दैवपात्रमिति केचित् । तन्न । पितृपात्र इति शेषात् । कात्यायनोऽपि-पितृपात्रं तदुचानं कृत्वा विप्रान्विसर्जयेत् । इति । संखवः पात्रलग्ना अवशिष्टोदकादयः । तथा च श्रुति:-स स्रवो ह्येष खलु परिशिष्टो भवतीति । बहुत्वं कुशतिलाद्यपेक्षम् । अत्रैके देवपानं पितृभ्यः स्थानमसीति उत्तानं निधाय पितृपात्रं न्युजं विधेयमित्याहुः । अन्ये तु पितृपात्रमेवेति । तदेतद्विचारणीयम् । किं प्रतिश्राद्धं पात्रन्युब्जीकरणमुत पितृश्राद्ध एव इति । तत्र यदि प्रतिश्राद्धं तदा द्वादशदैवत्ये पात्रपञ्चकं मन्त्रविरोधश्च स्यात् । अत्र मन्त्रीहेनाविरोध इति तर्हि पितृपात्रविधानमनर्थक स्यात् । यत्तु-प्रथमं पैतृकं पात्रं तस्मिन् पैतामहं न्यसेत् । प्रपितामहं ततो न्यस्य नोद्धरेन्न विचालयेदिति यमवचने पात्रत्रयस्यैवकीकरणं तन्मातामहश्राद्धाभावपक्षविषयम् । दृश्यते च शाखाभेदे तच्छ्राद्धम् । तथा च विष्णुपुराणम्-प्राङ्मुखान् भोजयेद्विप्रान् देवानामुभयात्मकान् । पितृमातामहानां च भोजयेचेदुदङ्मुखान् । पृथक्तयोः केचिदाहुः श्राद्धस्य करणं नृप । एकत्रैकेन पाकेन वद्न्त्यन्ये महर्षय इति । तदेतच्छाखाभेदेन व्यवस्थितम् । तस्मात्पितृश्राद्ध एव सर्वसंसावशब्दस्यासंकुचितवृत्तित्वेन सर्वसंस्रववाचकत्वात्पितृभ्यः स्थानमसीति पितृशब्दस्य पितृविपयत्वाञ्च पितृपात्रमेकमेव न्युजमिति सिद्धम् । ततश्च पितृपात्रे देवादिसर्वपात्राणां संस्रवानिक्षिप्य पितृद्विजवामपार्श्वे पवित्रोपर्यधोमुखं निदध्यादित्यर्थः । तथा च वृद्धयाज्ञवल्क्यः-सपवित्रं पितुः पात्रं दक्षिणाधोमुखं न्यसेत् । कात्यायनोऽपि-कुशावत्यां भूमावधोमुखं कुर्यात्तस्योपरि च कुशानिति । शौनको. ऽपि-नोद्धरेत्प्रथमं पात्रं पितॄणां यच्च पातितम् । आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽत्रवीत् । इति । उद्धरेद्यदि तत्पानं ब्राह्मणोऽज्ञानदुर्वलः । अभोज्यं तद्भवेच्छ्राद्धं क्रुद्धे पितृगणे गत इति । मत्स्यपुराणे-पितृपानं निधायाथ न्युजमुत्तरतो न्यसेत् । अत्रोत्तर इत्युत्तरस्यां दिशि इति कल्पतरुः । तन्न । उत्तरशब्दस्य वामवाचकत्वात् । तथा च लिङ्गम् । उत्तरतआयतना हि स्त्रीति । अपि च कात्यायनः-कुर्यान्युज तिलैर्युक्तं दक्षिणायमतः परम् । पितृपानं निध्यात्तु देवपित्रोच मध्यतः । इति । अनाहोशनाः-तद्वन्धादिभिः पूजयेदिति तन्युजपात्रम् । वैजवापोऽपितस्योपरि कुशान् दत्त्वेति । 'अत्र गन्धपुष्पधूपदीपवाससां च दानम् अत्रेति, कोऽथः । तत्रार्थान्तरांसंभवादवसरार्थ इति कर्कादयः । तत्कथं संगतम्, । अवसरस्य पाठादेव लन्धेः ।