________________
काण्डका २]
परिशिष्टम् । तस्मादत्रेति पात्रेष्वित्यन्ये । तदपि कर्कादिभिरनादृतम् । अर्थानन्तरं विप्रपूजनस्य विहितत्वात् । तथा च वृद्धयाज्ञवल्क्यः-दत्त्वार्धं पूजयेच्छत्त्या गन्यधूपानुलेपनैः । मात्स्येऽपि-या दिव्येत्यर्घमुत्सृज्य दद्याद्गन्धादिकं ततः । इति । तस्मादत्रेति काण्डानुसमयमचे संसूच्य गन्धादिदाने पदार्थानुसमयं द्योतयति । ततश्चान गन्धादिदानं देवपूर्व भवतीत्यर्थः । तथा च वैजवापःतस्योपरि कुशान्दत्वा प्रदद्यादेवपूर्वकम् । गन्धं पुष्पं च धूपं च दीपं वनोपवीतकम् । इति । गन्धश्चन्दनादिः । तथा च-चन्दनागरुकर्पूरपद्मकं कुङ्कुमं तथा । कस्तूरिकादयो गन्धाः पितृणां तुष्ट्रिकारकाः । पुष्पाणि मल्लिकादीनि । तथा च स्मृतिचन्द्रिका-मल्लिकामालतीश्वेतयूथिका चम्पर्क शुभम् । पिण्डीत कुडकुमं च पद्मानि जलजान्यपि । उत्पलादीनि देयानि वर्णगन्धयुतानि च । मल्लिका विचकिलः । पिण्डीतको मरुवकः । मार्कण्डेयः-जात्यश्च सर्वा दातव्या मल्लिका श्वेतचूथिका । जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् । इति । ब्रह्माण्डेऽपि शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च । गन्धरूपोपपन्नानि यानि चान्यानि कृत्लश: । जातीविषये विरोधः । जात्यश्च सर्वा दातव्या इति । तथा च-श्राद्धे जात्यः प्रशस्तास्युमल्लिका श्वेतयूथिका । तगरं मातुलुई च पितणां दत्तमक्षयम् । ऋतुस्तु निपेयति-असुराणां कुले जाता जाती पूर्वपरिग्रहे । तस्या दर्शनमात्रेण निराशाः पितरो गताः । अथिरा अपि-न जातीकुसुमानि न कदलीपत्रमिति । अत्रके विकल्प इत्याहुः-विप्रपूजादौ विधिः पिण्डदानेनिषेधः पीतजातीविषयो वा निपेयः इति व्यवस्थेत्यस्मन्मतिः । तथा च वृद्धयाज्ञवल्क्यः-कुन्दं शम्मोस्तु नो दद्यान्नोन्मत्वं गरुडध्वजे । पिण्ड जातिं च नो दद्यादेवाचार्क न पूजयेत् । जातीपुष्पं तथा वा किंशुकं करवीरकम् । पितृमूर्यनि यो दद्यात्स एव पितृघातकः । इति । वान्याह मत्स्यः-पद्मविल्वकवत्तूरपारिभद्राटरूपकाः । न देयाः पितृकेष्विति । पारिभद्रो मन्दारः । अटरूपो वाशकः । शत्रोऽयि-उपगन्धीन्यगन्धीनि चैत्यत्रक्षोजवानि च । पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि चेति । रक्तवर्णानि जलोद्भवन्यतिरिक्तानि । जलोद्भवानि देयानि रक्तान्यपि विशेषतः । इति तेनैवोक्तत्वात् । विष्णुः-वर्जयेदुगन्धीन्यगन्धीनि कण्टकिजातानि रक्तानि पुष्पाणि सितानि सुगन्धीनि कण्टकिजान्यपि दयादिति । जवादिकुसुमं झिंटी रूपका: सकुरुण्टकाः । पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः । जब इन्द्रपुपम् । आदिशब्दाच्छलाल्यादिरक्तानि । रूपिकार्कवर्णः । कुरुण्टिका पीताम्लानः । स्मृतिमञ्जूषायाम्-शिरीपविल्वधत्तूरकाञ्चनाराटरूषकम् । क च पारिभद्रं च पीतां जातिं च वर्जयेत् । धूपो गुगुलादिः । तथा च विष्णुधर्मोत्तरे-धूपो गुग्गुलको देयस्तथा चन्दनसारजः । अगश्च सकर्पूरः सतुरुष्कस्तथैव च । तुरुष्कः सिहकः । त्वमवकं मरीचिः । चन्दनागुरुणी चोभे तमालोशीरपन्नकम् । धृतात मधुनातं च गुग्गुलं धूपमेव च । तथा-तुरुष्कं गुग्गुलं चैव घृतातं युगपदहेन् । घृतं न केवलं दद्यादृष्टं वा तृणगुग्गुलम् । तृणगुग्गुलः सर्जरसः । घृतधूपं च यो दद्यान्निराशाः पितरो गताः । कात्यायन:-श्राद्धे धूपं प्रयलेन दशाई मधुमिश्रितम् । यद्याद्गुरुजं वापि पद्मकं देवदारुजमिति । वान्याह विष्णु:-जीवजं च सर्वन्न धूपार्थ इति । जीवजं कस्तूर्यादि। दीपो घृतादिद्रव्येण । तथा च मरीचि:-घृताद्वा तिलतैलाद्वा नान्यद्न्यात्तु दीपकम् । नान्यद्रव्येति वसादिद्रव्यनिपेवो न कुसुम्भादितैलानाम् । घृतेन दीपो दातव्यस्त्वयवाऽप्यौपवीरसैः । वसामेदोहवं दीपं प्रयत्नेन विवर्जयेदिति वचनात् । वासः कार्पासादि । तया चकौशेयं क्षौमकार्पासं दुकूलमहतं तथा । श्राद्धेप्वेतानि यो दद्यात्कामानाप्नोति पुष्कलानिति । चकारो यज्ञोपत्रीततुलस्यादिपत्रसमुच्चयार्थः । तथा च-चम्पर्क शतपत्रं च मृङ्गराजं च वालकम् । तुलसीमालतीपनं पितॄणां तुष्टिकारकम् । तुलसी निषिद्धति स्मृत्यर्थसारः । तत्रार्यादौ निपेवः, पिण्डार्चायां विवि