________________
४५०
पारस्करगृह्यसूत्रम्
[ श्रद्धसूत्र
स्मीति वदेद्विप्रैर्वाच्यं कुरुष्व च । देवताभ्यः पितृभ्यश्चेत्यादि । देवताभ्य इत्यस्यादिमध्यावसानेषु जपः आदिमध्यावसानेषु त्रिरावृत्तं जपेद्बुधः इति वचनात् । एवं परिभाष्य 'कर्मोपक्रमे आसनेषु दर्भानास्तीर्च' पादासनदीपोपलक्षणं चैतत् । तथा च कात्यायनः — विष्टरार्थ कुशान्दद्याद्विप्राणा पादमूलतः । ब्राह्म च — पृथक् पृथग् वासनेषु तिलतैलेन दीपकाः । अविच्छिन्नार्चिषो देयास्ते तु रक्ष्या द्विजोत्तमैः ॥ इति । आसनान्याह स्मृतिः । शमीकाप्मर्यशल्लाश्च कवो वरणस्तथा । पश्चासनानि शस्तानि श्राद्धे देवार्चने तथा । श्रीपर्णीवरणक्षीरिजम्बूकाम्रकदम्वजम् । सप्तमं वाकुलं पीठं पितॄणां दत्तमक्षयमिति । ततश्च सदीपेष्वासनेषु पादासनं दत्वाऽसनेषु दर्भान्दद्यादित्यर्थः । द्वितीयमेतदास्तरणम् अतोऽस्मात्पूर्वमपि दर्भानास्तीर्योपवेशयेदिति । तथा च देवीपुराणम् -कुशोत्तरे तिलास्तीर्ण आसने लोहवर्जिते । दाता च स्वासने पूते विप्रानावेशयेत्सुधीरिति । नन्वास्तृतेषु पुनरास्तरणं किमर्थम् । तत्रैके पूर्वास्तरणस्य धर्ममान्त्रत्वादित्याहुः । अपरे पुनरन्त्र नासिकां संकोचयन्तो विप्रानुत्थाप्य कर्तव्यमित्यास्थिपत । तदहद्यम् । उपवेशितानामुत्थापनापत्तेः । तस्मात्पूर्वमास्तरणमात्रमिह तु तद्दानमित्यपौनरुक्त्यम् । अतश्चास्तीर्य दन्त्वेत्यर्थः । संकल्पपरत्वात् । तथा च शांवपुराणम् -- कृत्वाद्भिः शौचमाचम्य सूपविष्टान्यथाविधि । दद्याद्दर्भासनं तेभ्यो वैश्वदेवत्यपूर्वकम् । आसनेष्विति हस्ते कुशान्न दद्यादिति सप्तम्यर्थः । दर्भाचैवासने दद्यान्न तु पाणौ कदाचनेत्युक्तेः । एते च वैश्वदेवे दक्षिणतः पित्र्ये वामतो द्रष्टव्याः । पितॄणामासनं दद्याद्वामपार्श्वे कुशान्सुधीः । दक्षिणे चैव देवानां सर्वदा श्राद्धकर्मणि । इति वचनात् । अथैक आसनदाने स्वधां प्रयुञ्जते स्वधाशब्दस्य प्रवर्तकत्वात् । तदयुक्तम् । तस्यासनादौ निषिद्धत्वात् तथा च हेमाद्रिपद्धतौ । पितृभ्यो निखिलं दद्यात्स्वथाकारेण धर्मवित् । अक्षय्यमासनं चैव वर्जयित्वा - र्धमेव च । धर्मप्रदीपेऽपि — आसनाह्वानयोरर्थे तथाक्षय्येवनेजने । क्षणे स्वाहास्वधावाणी न कुर्यादनवीन्मनुः । तेनास्मत्पितुर मुकशर्मणोऽमुकसगोत्रस्य वसुरूपस्येदमासनमस्त्विति प्रयोगः । अत्रैके सकारवर्जे गोत्रमुच्चरन्ते । तदयुक्तम्-तत्सहितस्यैवोक्तत्वात् । तथा च - सकारेण हि वक्तव्यं गोत्रं सर्वत्र धीमता । सकारः कुतपो ज्ञेयस्तस्माद्यत्नेन संवदेदिति ।' विश्वान्देवानावाहविष्य इति पृच्छति' स्पृष्टमेतत् । एतच्च यवानादायोङ्कृत्य निरडुष्टं द्विजहस्तं गृहीत्वा कर्तव्यम् । तथा च यमः --- यवहस्तं ततो देवाविज्ञाप्यावाहनं प्रति । शाट्यायनोऽपि - आवाहनं द्विजेचोंकारपूर्वकम् । गोभिलोऽपि यवानादायोंकारं कृत्वेति । अत्रैकेङ्गुष्ठं गृहीत्वाऽऽवाहयन्ति । तदयुक्तम् । निरङ्गुष्टं गृहीत्वा तु विश्वान् देवान् समाह्वयेदिति ब्रह्माण्डोक्तः । ततश्च सन्योदड्मुखो दक्षिणं जान्वाच्य ऋजुकुशानादायोमित्युक्त्वा पुरु रवार्द्रवादिविप्रयोगं कुर्यादित्यर्थः । अत्रैतत्संदिह्यते । किमर्घान्पूरयित्वावाहयेदुतावाह्य पूरयेदिति । उभयथा वचनदर्शनात् । तथा हि उमामहेश्वरसंवादे - कुशाम्बुनाभ्युदय गृहं दत्त्वासनमनुक्रमात् । निवेश्य तत्र विप्रान्वै कुर्यादर्घाभिपूरणम् । शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवानपि । गन्धपुष्पं च तूष्णी स्यादथ देवान्समाह्वयेदिति पुराणसमुच्चयेऽप्यर्धपूरणं कृत्वाऽऽवाहनमुक्तम् । याज्ञवल्क्यस्त्वावाह्यार्घान्पूरयति । पाणिप्रक्षालनं दत्त्वा विष्टरार्थान्कुशानपि । आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा । यवैरन्त्रत्रकीर्याथ भाजने सपवित्रके । शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथेति । या दिव्या इति मन्त्रेण हस्तेष्वर्षं विनिक्षिपेत् । अपसव्यं ततः कृत्वेत्यादि । सूत्रकारोऽयावाह्यार्घ पूयति । अत्र विरोधः स्मृतिपुराणयोः । स्मृतेः प्राबल्यात्सूत्रोक्तत्वाच्चावाह्यार्धपूरणमित्येके । तदपरे न क्षमन्ते । स्मृतावेवार्थपूरणस्य पूर्वमुक्तत्वान् । तथा च क्रमपरा वृद्धयाज्ञवल्क्यस्मृतिः । पृच्छाद्यासनमर्घपूरणमतश्चावाहनायें क्रमादिति । एवं च सति दर्भानास्तीयं विश्वान्देवानावाहयिष्य इति सूत्रयता याज्ञवल्क्यवचकवाक्यतां सूचयता मुनिनासनार्घदानानन्तरं याज्ञवल्क्योक्तकाण्डानुसमय. स्त्रीकृतोऽन्यत्र पदार्थानुसमय इति ज्ञापितम् । अन्यथा वाजसनेयिपरया वृद्धयाज्ञवल्क्यस्मृत्या सूत्रं विरुद्धयेत । तथा
1
I