________________
कण्डिका २]
परिशिष्टम् !
४४९
तिलैः सह कुशत्रयम् । तर्जयन्तीह दैत्यानां यथा नृणामयस्तथेति । नन्वेवमपि - नीवीकार्येत्यत्र वचने सदाशब्दान्नैवं विषय इति चेत् । नैवम् । नीवीबन्धस्य रक्षोघ्नत्वाद्देवपितृमानुषकर्मसु यथोचितं गोपनस्य विहितत्वेन सदाशब्दस्यैवमर्थत्वात् । तथा च श्रुतिः --- दक्षिणत इन हीयं नीविरिति लिङ्गम् । लिङ्गादेरपि विधेय इति वचनात् । न च श्रुतिविरुद्धा स्मृतिः प्रमाणम् । श्रुतिस्मृतिविरोधे तु श्रुतिरेव बलीयसीति वचनात् । तस्मादक्षिणाङ्ग एव नीवीबन्ध इति सिद्धम् । पिण्डब्राह्मणभाष्यका - रोऽपि, अथ नीवीमुद्धृत्य नमस्करोतीति कण्डिकाव्याख्याने नाभेर्दक्षिणत एव नीवीस्थानमित्यमंस्त । तद्बन्धमन्त्रश्च पाराशरोक्तः । यथा --- निहन्मि सर्वे यदमेण्यकृद्भवेद्धताञ्च सर्वेऽसुरदानवा मया । यक्षांसि रक्षांसि पिशाचगुह्यका हता मया यातुधानाश्च सर्वे । ' द्विगुणास्तु दर्भाः ' सर्वसामयुपलक्षणं चैतत् । तथा च पुराणम् -- उपमूलसकृल्लूनान्कुशांस्तत्रोपकल्पयेत् । यवांस्तिलान्वृसी: कांस्य - मपः शुद्धौ समाकृत (?) । पार्णराजतताम्राणि पात्राणि स्युः समिन्मधु । पुष्पधूपसुगन्धादि क्षौमसूत्रं व मेक्षणमिति । वृसीरासनानि । एतदाहरणमाह - उदपात्रं च कांस्यं च मेक्षणं च सुवादिकम् । आहरेदपसव्येन दावै दक्षिणतः शनैः । इति । दर्भाः समूलकुशाः स्मृत्युक्ताः । तथा च यमः --- सुमूलस्तु भवेद्दर्भः पितॄणां श्राद्धकर्मणि । मूलेन लोकाश्जयति शक्रस्य तु महात्मनः । हारीतोऽपि दक्षिणां दिशं गत्वा समूलान् कुशानाहरेदिति । तुशब्दो विशेषार्थः । तेन पिण्डाधस्तरणकुशवर्ज समूलद्विगुणाः कुशाः पित्र्ये, दैवप्रेतश्राद्धयोस्तु ऋजवो भवन्तीत्यर्थः । तथा च श्रुतिः - अथ सकदाच्छिन्नान्युपमूलानि भवन्ति । स्मृतिरपि - उपमूलं सकृल्लूनं बर्हिः पिण्डेषु शस्यते । कात्यायनोऽपि ---सपि - ण्डीकरणं यावजुदर्भैः पितृक्रिया सपिण्डीकरणादूर्ध्वं द्विगुणैर्विधिवद्भवेत् । देवानामृजवो दुर्भाः पितॄणां द्विगुणाः स्मृताः । इति । 'पवित्रपाणिर्दद्यादासीनः सर्वत्र ' पवित्रमुपग्रहोपलक्षणम् । सर्वत्रेति दैवे पित्र्ये च । तेनोभयत्र पवित्रोपग्रहणपाणिरासीनश्च दद्यादित्यर्थः । तथा मनुः -- पित्र्यमा निधनाकार्य विधिवद्दर्भपाणिनेति । अथ वा पवित्रपाणिरासीनत्वं च स्मृतिप्राप्तमेवात्र सार्थकत्वेनानुवदति । तेन वामहस्ते कुशादानमावाहने चासीनत्वं निषेधतीत्यर्थः । तथा च पठन्ति - त्रामहस्ते यदा दर्भा गृहे रंगबलिस्तथा । ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः । इति । किं चावाहने चागच्छत्सु पितृपु कर्तुरासीनत्वं न युक्तम् । तथा च पिण्डदानावाहने पुराणोक्तलिङ्गम् । अथ प्राञ्जलिरुत्थाय स्थित्वा चावाहयेत्पितॄनिति । मन्त्रार्थानुग्रहोऽपि -- ' आयन्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः' इति । अपि चासीनो दद्यात् इति दाने आसीनत्वं न पुनरावाहनाद्युपस्थानेऽपीति सूत्रार्थः । 'प्रश्ने पक्तिमूर्धन्यं पृच्छति सर्वान्वा ' पङ्क्तिमूर्धन्यः पित्र्ये प्रथमो विप्रः । लिङथें लट्, वाशब्दो व्यवस्थितविकल्पे तुल्यस्याष्टदोषदुष्टत्वात् । पृच्छातृत्याशीः प्रार्थनादिषु सर्वेन्यत्र पङ्क्तिमूर्धन्य इत्यर्थः । तथा च पुराणम् - हस्तौ युग्मतः कृत्वा जानुभ्यामन्तरे स्थितौ । सप्रश्रयश्चोपविष्टः सर्वान्पृच्छेद्विजोत्तमानिति । तुल्यविकल्प एवायमिति कर्कादयः । अत्र प्रश्नेषु पङ्क्तिमूर्धन्यः सर्वे वेत्येतावति वाच्ये पृच्छतीति गौरवं स्मृत्यन्तरोक्तक्रम विध्यर्थं प्रश्नेनैव तल्लब्धेः । तथा च वृद्धयाज्ञवल्क्यः -- पृच्छाद्यासनमर्धपूरणमतश्चावाहनाचें क्रमान्न्युजं चार्चनभाजनान्निवहनं शेषो जपः कल्पनम् । दत्त्वान्नं जपतृप्तिपिण्डयजने सुप्रोक्षिताक्षय्यके आशीः पुण्ड्रकवाचनार्घ चलनं दानं विसर्गः स्तुति: (?) इति | आदिशब्देन देशकाल - गोत्रादिस्मरणम् । पिण्डयजनं विकरादि पिण्डार्चनपर्यन्तम् । अत्रान्योऽपि स्मृत्युक्तक्रमो ज्ञेयः । वचनस्य मापेत्त्वात् (?)। तथा च श्राद्धारम्भे गयां ध्यात्वा ध्यात्वा देवं जनार्दनम् । स्वपितृन्मनसा ध्यात्वा ततः श्राद्धं समारभेत् । अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् । तथा बर्हिपदः पान्तु याम्यां ये पितरः स्थिताः । प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः । रक्षोभूतपिशाचेभ्यस्तथैवासुरदूषकाः । सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु ते । प्राणायामं ततः कुर्याद्रायत्र्याः स्मरणं तथा । श्राद्धं कर्ता
1
५७