________________
पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रच प्रदानम् । अत्राम्मिन्नवसरे विप्रेभ्यो गन्धादिकं दद्यात् । गन्धादीनां स्मृत्यन्तरोक्तो विशेपो द्रष्टव्यः । चन्दनकुडकुमकर्पूरागुरुपद्मकाष्ठान्यनुलेपनार्थे इति विष्णुनोक्तम् । पुष्पे पद्मोत्पलमल्लिकायूथिकाशतपत्रचम्पकानि गन्धरूपरांपन्नान्यपि श्वेतानि, धूपे घृतमधुसंयुक्तं गुग्गुलं श्रीखण्डागुरुरसादि दद्यात् । प्राण्यमु सवै धूपार्थे न दद्यात् । दीपे शहः-घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः । वसामेदोद्भव दीपं प्रयत्नेन विवर्जयेत् । वस्त्रे । शुलं शुद्धमहतं सदशं वस्त्रं दद्यात् । चकारीअनुक्तसमुघयार्थः । तेन सत्यां संपत्तौ सूत्रोक्तेभ्योऽन्यदपि दातव्यम् । तथा वायुपुराणे । लोके श्रेष्ठतमं सर्वमात्मनश्चापि यत्प्रियम् । सवै पितृणां दातव्यं तदेवाक्षयमिच्छतेति । यज्ञोपवीतं यो दद्याच्छ्राद्धकाले तु धर्मवित् । पावनं सर्वविप्राणां ब्रह्मदानस्य तत्फलम् । दानं च पितृसंप्रदानकम् । प्रतिपत्तिस्तु ब्राह्मणेषु । अत्र यद्यपि गन्धपुष्पधूपदीपाच्छादनानां मिलितानां प्रदानं प्रतीयते, तथापि स्मृत्यन्तरदर्शनाद् गन्धादीनामेकैकं देवादिमातामहाद्यन्तमुत्सृज्य दद्यात् । तथा च छन्दोगपरिशिष्टे गन्धोदकं च दातव्यं संनिकर्पक्रमेण तु । गन्यान्ब्राह्मणसात्कृत्वा पुष्पाण्यतुभवानि च । धूपं
चैवानुपूयण अग्नौ कुर्यादतः परमिति । वस्त्राभावे मूल्यं वा अलामे उत्तरीयं यज्ञोपवीतं वा दद्यादिति स्मृत्यर्थसारे । अस्मिन्नवसरे ब्राह्मणाने भोजनानि निधाय मण्डलानि कुर्यात् । अत्राह शङ्खःचतुःकोणं द्विजाग्र्यस्य त्रिकोणं क्षत्रियस्य तु । मण्डलाकृति वैश्यस्य शुद्रस्याभ्युक्षणं स्मृतमिति । ब्रह्मापुराणे । मण्डलानि च कार्याणि नैवारैश्चूर्णकैः शुभैः । गौरमृत्तिकया वापि प्राणीतेन च भस्मना । प्रणीत आवसण्याग्निस्तदीयेन भस्मना । तत्र मन्त्रः-यथा चक्रायुधो विष्णुस्त्रैलोक्यम्परिरक्षति । एवं मण्डलभस्मैतत्सर्वभूतानि रक्षत्विति । द्वितीया कण्डिका ॥२॥ ॥ॐ॥
(श्राद्धका० ) इदानी प्रयोगमुपक्रममाणः परिभापते । 'दैवपूर्व श्राद्धम् परिभाषेयमपवाव्यत्तिरिक्तेष्ववतिष्ठते । श्राद्धमिति पित्र्यं कर्म । दैवपूर्वमिति पदार्थानुसमयोक्तिः । अतश्च स्मृत्यन्तरोक्तः काण्डानुसमयोऽस्यानभिप्रेतः । एवं च सति सोऽजर्थक इति चेत् । न । पदार्थानुसमयानुक्तिविपयत्वेन सार्थकत्वात् । आह च-सकलो गुणकाण्डम्वेदेकैकरय प्रयुज्यते । सहत्वप्रापको नैव प्रयोगवचनो भवेदिति । अतश्चानापवादवजै पादप्रक्षालनादि सर्वे कर्म दैवपूर्व भवतीत्यर्थः । तथा च देवपूर्व भवेच्छ्राद्धं वर्जयित्वा विसर्जनम् । प्रश्नं च दक्षिणां चैव भुक्ते चाचमनं विना । तथा-हस्तोच्छिष्टापनयनमाह्वानं च विसर्जनम् । दक्षिणां सौमनस्यं च विनान्यदैवपूर्वकम् । धर्मप्रदीपेऽपि, विसर्गश्चुलुकाश्चाग्नौकरणं पतिवाचनम् । करशुद्धिरपोशानं पितृपूर्वाणि पड् भवेदिति । देवलोऽपि-यत्रयत्कियते कर्म पैतृकं ब्राह्मणान्प्रति । तत्सर्वं तत्र कर्तव्यं वैश्वदेवस्य पूर्वकमिति । 'पिण्डपितृयज्ञवदुपचारः पित्र्ये पितरो देवताऽस्येति पित्र्यं वाव्यूतुपित्रुषसो यदिति यत्प्रत्ययः । ततश्च पितृकर्मणि पिण्डपितृयज्ञवत्करणं भवतीत्यर्थः । अनेनापसव्यदक्षिणामुखवामजानुपाताद्यतिदिष्टम् । अतश्च नीवीवन्धनादि पिण्डोत्थापनपर्यन्तं पिण्डपितृयज्ञोक्तधर्मो भवतीति । तत्रैतत्संदिह्यते । किं नीवीवन्धनं वामाङ्गे दक्षिणे वेति । तत्रोभयथाचारदर्शनाद्यथासंप्रदाय व्यवस्थेति पारिजातः । तदेतद्विचारणीयम्कि नीवी दैविक कर्म पित्र्यं वेति । यदि दैवं तदा पिण्डपितृयज्ञेऽनुष्टानविरोधः । अथ पित्र्यं त पवीसक्दपसव्याग उचितेति । तथा च मनुः-प्राचीनावीतिना सम्यगपसव्यमन्द्रिणा । पित्र्यमानिधनास्कार्य विधिवदर्भपाणिनेति। अन्न प्राचीनावीतिनत्यपसव्यत्वे प्राप्ते अपसव्यग्रहणं नीवीवन्धनवामजानुपातादिधर्मप्रात्यर्थम् । अपि च सर्व कर्मापसव्येन दक्षिणादानवर्जितमिति स्मृतिः। पिण्डपितृयज्ञातिदेशोऽपि । यत्तु कात्यायनवचनम-जीवीकार्या दशागुप्तिर्वामकुक्षौ कुशैः सदा। पितृकर्मणि चैवोक्ता वेदवेदाङ्गवेदिभिरिति । तदाभ्युदयिकविषयकम् । तथा च पठन्ति-दशासंगोपनं नीवी साराग्रे(?) मानुपी स्मृता । पितृणां दक्षिणे पाचँ विपरीता च दैविके । वृद्धयाज्ञवल्क्योऽपि दक्षिणे कदिदेशे तु