________________
कण्डिका २]
परिशिष्टम्। सपवित्रेषु या दिव्या इति मन्त्रेण अमुकशर्मन् एष ते अर्घ इति अर्घ दद्यात् । असावित्यत्र यथादेवतं नामग्रहण कार्यम् । असावित्यपनोदे । इति परिभाषायामुक्तत्वात् । तस्यायमर्थः-यत्र मन्त्रमध्ये असावित्येवं सर्वनामपदं पठितं भवति तत्र तत्सर्वनामपदमपनोदे अपनये वर्तते, तस्यापनोदमपनयं निष्कासनं कृत्वा तस्य स्थाने यद्विवक्षितं तस्य नान्नः प्रक्षेपः कार्यः । सपवित्रेष्वित्यनेन तन्त्रेण सर्वत्राह्मणहस्तेषु सूचितम् । न प्रतिहस्तं मन्त्रावृत्तिः । एकैकस्येत्यनेन प्रतिपुरुपं हस्तार्घदानमिति सूचितम् । अत्राह कात्यायन:--अर्चेऽक्षय्योदके चैत्र पिण्डदानावनेजने । तन्त्रस्य तु निवृत्तिः स्यात्स्वधावाचन एव चेति । अनायं प्रकारः-पितुर्यावन्तो ब्राह्मणास्तेपां सपवित्रेषु ज्येष्ठोत्तरहस्तेपु पितुरेकस्यैकोऽधों दातव्यः । एवं पितामहप्रपितामहयोः । मातामहानामप्येवं ज्ञेयम् । पवित्राणि यान्यन्त योदकमासिक्तं तान्येव भवन्ति, प्रकृतत्वात् । अत्रैके पवित्रान्तरमुत्पादयन्ति । एषामेकत्र विनियुक्तानां विनियोगान्तराभावात् । तदयुक्ततरम् ॥ यथा मन्त्राणां क्रियया पुनः पुनर्विनियोगः, एवं कुशानामपि । तथाहि । दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणाश्च विशेषतः । न ते निर्माल्यतां यान्ति योज्यमानाः पुनः पुनरिति । तस्मात्तान्येव भवन्ति । अत्र केचिदे. कद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवचनं कृतत्वादितिन्यायेन सकून्मन्त्रवचनमिच्छन्ति । कर्कमते तु प्रतिप्रक्षेपं मन्त्री ग्रहणवत् । तथाऽस्माकमपि । अत्र केचिदैवं पूरयित्वा तदनन्तरं चाघे दत्वा ततः पित्र्यस्य पात्रजातस्य पूरणादि कुर्वन्ति । तदसत् । नहि काण्डानुसमयस्यात्र प्रमाणमस्ति, पदार्थानुसमयोऽयम् , तस्मात् समानं पूरणम् । ततो दानम् । स्मृत्यन्तरसंभवेऽपि प्रवाहो यद्यस्ति ततो विकल्पोऽयमिति । अत्रके 'पूरयेत् पात्रयुग्मं तु' इति मत्स्यपुराणोक्तेः 'एकैकस्य तु विप्रस्य अर्धे पात्रे विनिक्षिपेत् । इति प्राचेतसोक्तेश्च वैश्वदेविके ब्राह्मणसंख्यया पात्राणि कुर्वन्ति । कर्कमते त्वेकमेव पात्रं देवे । केचिद् द्विजहस्तधृतं पवित्रं पुनरर्यपात्रे गृहन्ति । तदतीव मन्दम् । इत्तस्योपादाने प्रमाणाभावात्।यादिव्या इत्यस्यार्थः-आपः पानीयानि पयसा संबभूवुः सङ्गमना वभूवुः । माधुर्यशीतत्वादिना एकीभूताः । कस्ता आपः या दिव्याः दिघि स्वर्गे भूताः उत अपि या आन्तरिक्षाः आकाशे भूताः। उत अपि पार्थवीयर्याः पृथिव्यां भूताः उतशब्द उभाभ्यां संवध्यते । किंभूताः हिरण्यवर्णाः हिरण्यं रजतं तत्समानवर्णाः शुक्लवर्णा इत्यर्थः । पुनः किभूताः यज्ञियाः यज्ञाः । ता आपः नः अस्माकं शिवाः क्षेमा भवन्तु व केवलं क्षेमाः, अपि शं कल्याण्यो भवन्तु । स्योनाः सुखदा भवन्तु । सुवाः सुष्ट ब्राह्मणहस्ते कृता भवन्त्वित्यनेनैव संवन्धः । स्योना इति सुखस्य नाम इति यास्कः । एकैकमुभयत्र वेत्यस्मिन्पक्षेऽपि पित्र्यपात्रत्रयं कार्यम् । 'प्रथमे 'धाति' संञवशब्देनार्घपात्रलग्ना अबवयवा अभिधीयन्ते । सञवो ह्येव खलु परिशिष्टो भवतीति श्रुतिवाक्यात् । प्रथमे पात्रे पितुः प्रथमे अर्धपात्रे संस्रवान् समवनीय निक्षिप्य पितृभ्यः स्थानमसीत्यनेन मन्त्रेण तत्प्रथमं पात्रं न्युजमधोमुखन्निध्यात् । अत्राह यमः । पैतृकं प्रथमं पात्रं तस्मिन्पैतामहं न्यसेत् । प्रपितामहं ततो न्यस्य नोद्धरेन्न विचालयेत् । पैतामहं संस्रवमित्यर्थः । पुराणे विशेपा:-आसिच्य प्रथमे पात्रे सर्वपात्रस्थसंस्रवान् । ताभिरद्भिर्मुखं सिञ्चद्यदि पुत्रमभीप्सति । चतुर्विंशत्तिमते-संत्रवान्प्रथमे पात्रे, निर्णीयाद्भिर्मुखं स्पृशेत् । अद्भिर्मुखस्पर्शनस्य पुरुषार्थत्वाद्विकृतावप्रवृत्तिः । तच्च न्युजीकरणं पित्र्यब्राह्मणस्य वामपार्थे । तथा मत्स्यपुराणे-या दिव्येत्यर्घमुत्सृज्य दद्याद्गन्धादिकं ततः । वस्त्रोत्तरं चानुपूर्व दत्वा संस्रवमादितः । पितृपात्रे प्रदायाथ न्युजमुत्तरतो न्यसेदिति । उत्तरशब्दो वामवचनः, स चाचाराद् भोक्तुरेव । ब्राह्मणहस्तगलिता!दकानि पितृपात्रे प्रसिच्य दक्षिणाग्रेषु कुदोपु पितृभ्यः स्थानमसीति सपवित्रं न्युजं कृत्वा तस्योपर्यय॑पात्रपवित्राणि क्षिप्त्वा तिलपुष्पादि क्षिप्त्वा तत्पात्रमासमाप्तेनं चालयेत् । मातामहेषु चैवमिति स्मृत्यर्थसारे । 'अत्र गन्धपुष्पधूपदीपवाससां