________________
४४६
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
इति हविर्यज्ञकाण्डे श्रुतिः । एषामन्यतमेषु चमसेपु अनन्तर्गर्भसामप्रादेशमात्रकुशद्वय सहितेषु शन्नो देवीरभिष्टय इत्यनेन एकैकस्मिन्नपो निषिश्चेत् । चमसानां लक्षणं चोक्तं यज्ञपार्श्वे । चमसानां वक्ष्यामि दण्डाः स्युश्चतुरङ्गुलाः । त्र्यङ्गुलन्तु भवेत्खातं विस्तारश्चतुरङ्गुलः । वैकङ्कतमयाः क्षणास्त्वग्विलाश्चमसाः स्मृताः । अन्योन्यावपि कार्याः स्युरिति । तत्रैवोक्तम् । प्रादेशायामा इति च । पवित्रलक्षणं छन्दोगपरिशिष्टे । अनन्तर्गर्भिणं सायं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचिदिति । अत्र देवपात्रे द्वे पवित्रे पितृपात्रे त्रीणि त्रीणि भवन्ति । तदुक्तं चतुर्विंशतिमते । द्वे द्वेला देवानां तिस्रस्तिनस्तु पार्वणे । एकोद्दिष्टे शलाकैका श्राद्धेष्वर्थेषु निक्षिपदिति । अत्र याज्ञवल्क्यवचनेनावाहनार्थपूरणदानानां यद्यपि काण्डानुसमयः प्रतीयते, तथापि पदार्थानुसमयो बोद्धव्यः । तुल्यसमवाये सामान्यपूर्वमानुपूर्व्ययोगादिति परिभाषितत्वात् । अस्यार्थः । तुल्यानां प्रधानानां समवाये एकप्रयोगानुष्ठाने यत्साधारणमङ्गजातं तत्सर्वेषां पूर्व भवति, तथासत्यानुपूर्येण पदार्थाः कृता भवन्ति । यथा । श्राद्धे पित्रादिपड्यागा एकत्र प्रयोगे क्रियन्ते तत्र निमन्त्रणादयः सर्वेषां क्रमेण पदार्था अनुष्ठिता भवन्ति । अन्यथा एकैकस्य पित्रादेः सर्वयागस्य परिसमाप्तौ द्वितीयोपक्रमे क्रमभङ्गः स्यात् । प्रथमस्य विसर्जने द्वितीयस्यामन्त्रणमापद्येत, तथासत्यानुपूर्वीभङ्गः प्रसज्येत । तच्च निषिद्धम् । तस्मादेकैकं पढ़ार्थजातं सर्वेपामपि निर्वाह्य द्वितीयादिनिर्वाहः कार्यः । एवमपि बहुभिः पदार्थैव्र्व्यवधानं भवति, तच्च न दोपाय । न हि सजातीयैर्व्यवधानमिष्यते । तस्मात्सर्वेषां निमन्त्रणपाद्यादि । एवमावानेऽपि, आवाहनावकिरणजपसमुदायरूपम् । जपेऽप्यायन्तुन इति मन्त्रलिङ्गात् । अत एव हि एकोद्दिष्टतीर्थश्राद्धनित्यश्राद्धसांकल्पिकश्राद्धेपु आवाहननिवृत्तौ त्रयमपि निवर्तते । कात्यायनस्य पदार्थानुसमय एवाभिमतः, देवावाहनानन्तरं पित्रावाहनोक्तेः । एककस्मिन्नप आसिञ्चतीति सर्वपात्रेषु जलप्रक्षेपावगमात् । तदनन्तरमेकैकस्मिन्नेव तिलानावपतीति विधानात् । अत एकैकत्रार्धपात्रे जलादिपुष्पान्तं प्रक्षिप्यार्घदानान्तं वा निर्वर्त्य पात्रान्तरपूरणमिति मतं न युक्तम् । किच पदार्थानां क्रमानुरोधादपि पदार्थानुसमय एवार्हति । अतो निमन्त्रणादावपि पदार्थानुसमय एव । 'एक' 'स्वाहेति' तिलोसीत्यनेन एकैकस्मिन्पात्रे तिलानावपति प्रक्षिपति आदौ देवपात्रे प्रक्षिप्य ततः पितृपात्रेषु प्रक्षेपः । ननु एकैकस्मिन्नित्यनुवर्तमाने पुनरेकैकस्मिन्निति ग्रहणं किमर्थम् । उच्यते । तिलोऽसीति मन्त्रे पितॄन्प्रीणाहीति बहुवचनान्तेन पितृशब्देनैकद्रव्यत्वादनुहितः सकृन्मन्त्रः प्राप्नोति, तन्माभूदित्येकैकस्मिन्निति पुनर्ग्रहणम् । 'सौवर्ण" विद्यन्ते' उदुम्बरं ताम्रमुच्यते । उदुम्बरवृक्षस्य तु यज्ञियवृक्ष चमसेष्वित्यनेनैवोक्तत्वात् । मणिमयानि शङ्खशुक्तिस्फटिकादिपात्राणि । एषां मध्ये एकस्य पात्राणि क्रियन्ते यानि वा विद्यन्ते इति निषिद्धेतराणि मृन्मयादीन्युच्यन्ते । तथा च छन्दोगपरिशिष्टे – आसुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् । पितरस्तस्य नानन्ति दशवर्षाणि पश्च च । कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् । तदेव हस्तघटितं स्थाल्यादि दैविकं भवेदिति । राजतं तु पित्र्य एव । तदुक्तं वायुपुराणे । तथाऽर्धपिण्डभोज्येषु पितॄणा राजतं मतं । अमङ्गल्यं तु यत्नेन देवकार्येषु वर्जयेदिति । 'पत्रपुटेषु वा ' वा शब्दो विकल्पार्थः । पूर्वसूत्रोक्तविहितप्रतिषिद्धनिपेधार्थ इति श्राद्धकाशिकाकारः । पूर्वोक्तानामलाभे पालाशा दियज्ञियवृक्षपत्रपुटेषु वाऽधै पूरयेत् । तथाचोक्तं ब्रह्मपुराणे । अथ पत्रपुटे दत्वा मुनीनां वल्लभो भवेदिति । तानि च पात्राणि पितृभ्यो मातामहेभ्यश्च त्रीणि त्रीणि क्रियन्ते । यत आह । 'एकैकतेऽर्घ इति ' अत्र 'सुपां सुलुक्पूर्वसव - र्णाच्छेयाडाड्यायाजाल:' इति चतुर्थ्यर्थे षष्ठी विभक्ति: । एकैकस्य पित्रादेः संबन्धित्राह्मणहस्ते
1
1
1
१ अन्येभ्योऽपि हि कार्याः स्युरिति क्वचित्पाठः ।
५४.
८