________________
कण्डिका २] परिशिष्टम् ।
४४५ त्रजपं मुक्त्वा पिण्डावाणं च दक्षिणाम् । आह्वानस्वागते चैव विना च परिवेषणम् । विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा । विप्रप्रदक्षिणाश्चैव स्वस्तिवाचनकं विना । पित्र्यमन्यत्प्रकर्तव्यं प्राचीनावीतिना सदेति जमदग्निः । द्विगुणास्तुदर्भाः पित्र्ये इत्यनुवर्तते, तु पुनः पित्र्ये हविरुत्सर्गादौ द्विगुणीकृता दर्भा भवन्ति, अर्थादेवे ऋजव इति । अत्राह बौधायनः, प्रदक्षिणं तु देवानां पितृणामप्रदक्षिणम् । देवानामृजवो दर्भाः पितृणां द्विगुणाः स्मृताः। कात्यायनस्मृतौ विशेपः, सपिण्डीकरणं यावजुदमः पितृक्रिया । सपिण्डीकरणादूर्वं द्विगुणैर्विधिवद्भवेदिति । दर्भलक्षणं चोक्तं यज्ञपार्श्वेकीदशा यजिया दर्भाः कीदृशाः पाकयज्ञियाः । कीदृशाः पितृदेवत्याः कीदृशा वैश्वदेविकाः । हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञियाः । समूला पितृदेवत्याः कल्मापा वैश्वदेविकाः । अप्रसूताः स्मृता दर्भाः प्रसूतास्तु कुशाः स्मृताः । अमूलाः कुतपा ज्ञेया इत्येषा नैगमी श्रुतिः । प्रादेशादधिका दर्भास्निपत्रादियुताश्च ये । कुशास्ते याज्ञिकैः प्रोक्ताः स्नानादिपु पवित्रकाः । दर्भाः किमर्थं दीयन्ते श्राद्धकालेषु किं तिलाः । किमर्थ वेदविच्छ्राद्धे किमर्थ यतिरुच्यते । रक्षन्ति राक्षसान्दर्भास्तिला रक्षन्ति चासुरान् । वेदविद्रक्षयेच्छ्राद्धं यतीनां दत्तमक्षयमिति । दर्भाभावे काशादि गृहीत्वा कर्म कुर्यात् । तथा च स्मृतौ-दोभावे तु काशाः स्युः काशाः कुशसमाः स्मृताः । काशाभावे ग्रहीतव्या अन्ये दर्भा यथोचिताः । दर्भाभावे स्वर्णरूप्यतानः कर्मक्रिया सदा । कुशकाशशरा दूर्वा यवगोधूमवल्वजाः । सुवर्ण रजतं तानं दश दर्भाः प्रकीर्तिताः । साने दाने तथा होमे स्वाध्याये तर्पणेऽपि च, इति । 'पवित्रपाणिर्दद्यादासीनः सर्वत्र सर्वत्रग्रहणाईवे पित्र्ये च यत्किचिदाति तत्सर्वमासीनः पवित्रपाणिः सन्दद्यात् । पवित्रपाणिः कुशपाणिः पवित्रशब्दोऽत्र कुशवचनः पवित्रस्थ इति मन्त्रलिङ्गात् । अथ वा स्मृतिप्राप्तं पवित्रपाणित्वमासीनत्वं चात्र सार्थकत्वेनानुवदति । तेन वामहस्ते कुशादानं पितृणामावाहनेष्वासीनत्वं निषेधतीत्यर्थः । तथा च पठन्ति-वामहस्तधृतान्दर्भान गृहे रडवलींस्तथा । ललाटे तिलकं दृष्ट्वा निराशाः पितरो गता इति । किंचावाहनेनागच्छत्सु 'पितृपु कर्तुरासीनत्वं न युक्तम् । तथा च पुराणोक्तं लिङ्गम् । अथ प्राञ्जलिरुत्थाय स्थित्वा चावाहयेपितनिति । 'प्रश्नेषु पङ्खिमूर्द्धन्यं पृच्छति सर्वान्वा' वाशब्दो विकल्पार्थः, वक्ष्यमाणेयु आवाहनादिप्रश्पु पत्रिमूर्द्धन्यं पलेराद्यं ब्राह्मणं पृच्छेत् सर्वान्वा पृच्छेत् । तुल्यविकल्पस्याष्टदोषदुष्टत्वाद् व्यवस्थितविकल्पोयमिति श्राद्धकाशिकाकारः । तुल्यविकल्पएवायमिति कर्काचार्यादयः । 'आसनेषु दर्भानास्तीर्य विश्वान्देवानावाहयिष्य इति पृच्छति । आसनेऽत्र पीठेपु दर्भानास्तीर्याच्छादनं कृत्वा विश्वान्देवानावाहयिष्ये इति पृच्छेत् पतिमूर्द्धन्यं सर्वान्वा । आसनान्याह स्मृतिः-शमीकाष्मर्यशल्लाश्च कदम्बो वारणस्तथा । पञ्चासनानि शस्तानि श्राद्धे वा देवतार्चने । तथा च " श्रीपर्णी वरुणक्षीरी जम्बूकाम्रकदम्बजम् । सप्तमं वाकुलं पीठं पितॄणां दत्तमक्षयमिति" आसनेपु दर्भानास्तीयति वदता हस्ते विष्टरवदानं निराकृतम् । कर्काचार्यास्त्वेवमाहुः--एतदास्तरणं सामर्थ्यात्पूर्वमुपवेशनाद् द्रष्टव्यम् । पाठक्रमादर्थक्रमस्य वलिष्ठत्वात् । 'आवाह''पृच्छति । ततो ब्राह्मणैरावाहयेत्यनुज्ञातो विश्वेदेवास आगतेत्यनया ऋचा आवाह्य वैश्वदेवव्राह्मणपुरतो यवान्प्रादाक्षिण्येनावकीर्य विश्वेदेवाः शृणुतेममितीमं मन्त्रं पठित्वा पितृनावाहयिष्य इति पृच्छति । अत्र तिलैरवकिरणमिति फर्काचार्या आहुः । अन्ये तु यवैरन्ववकीयेति याज्ञवल्क्यवचनाद्यवैः कुर्वन्ति । द्विजानेकत्वेऽपि न प्रतिद्विजमावाहनावृत्तिः, सकृदावाहनेनैवानेकब्राह्मणाधिष्टाने देवताध्यासनसंभवात् । 'आवाह"देवीरिति । आवाहयेति ब्राह्मणैरानापित उशन्तस्त्वेति मन्त्रेण पितृनावाह्य पितृव्राह्मणानामग्रतस्तिलानप्रादक्षिण्येनावकीयायन्तु नः पितर इति पठेत् । यज्ञमहन्तीति यज्ञियाः पालाशादयः, यज्ञलिग्भ्यां घखनाविति धप्रत्ययः । ते वै पालाशाः स्युरित्युपक्रम्य एते हि वृक्षा यज्ञिया