________________
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
तर्पयत पितृनित्यादि । तस्य पित्रादिपु मातामहादिपु मातृभ्रातृपितृव्यादिषु च तुल्यत्वान्नोद्यते । अतः पितृनावाहविष्य इत्येवावाहनप्रश्नः । अवकीर्य जयन्तुन इति जपेत् । यज्ञियवृक्षचमसा: पालाशवैकङ्कतकाश्मर्यवैल्वखादिरौदुम्बराणामन्यतमाः । तेषु प्रत्येकं पवित्रान्तर्हितेषु शंनोदेवीरित्यनेन मन्त्रेणाप आसिञ्चति । 'एकैकस्मिन्नेव तिलानावपति तिलोऽसीति । अनेन मन्त्रेण प्रत्येकं पात्रेषु तिलानावपति । दैवे पात्रे केचिद्यवानावपन्ति । तदयुक्तम् उक्तहेतुत्वात् । यदि स्मृत्यन्तरे स्पष्टं वचनं भविष्यति, ततो विकल्पेन भवितव्यम् । न पुनरेकान्तेन यवानामावपनमिति । 'सौवर्णराजतौदुम्यरखड्गमणिमयानां पान्त्राणामन्यतमेपु यानि वा विद्यन्ते ' उदुम्बरं ताम्रमुच्यते प्रायोवचनात् धातुमत्सन्निधानाच्च । तेनावार्यमौदुम्बरम् । तस्य तु यज्ञियत्वादेव प्राप्तत्वात् यज्ञियवृक्षचमसेष्वित्यनेन । तस्मादौदुम्बरं ताम्रमुच्यते । यानि वा विद्यन्ते, मृन्मयादीन्युच्यन्ते । ' पत्रपुटेषु वेति' अर्थात्पत्रपुटा मृन्मयादिपु विकल्पन्ते । तानि च पात्राणि पितृभ्यो मातामहेभ्यश्च त्रीणि त्रीणि क्रियन्ते । यत आह 'एकैकस्यैकैकेन ददाति ' एकैकस्य पित्रादेः, यत्संबन्धि दानं तदेकैकेन पात्रेण निर्वर्त - यितव्यम् । केचिद्वैश्वदेविके ब्राह्मणसंख्यया पात्राणि कुर्वन्ति । तदयुक्तम् । यतो न ब्राह्मणसंवन्धेन vratri rai, किं तर्हि देवतासंवन्धेन । तस्मादेकदेवताकत्वादेकमेव दैविकं पात्रमिति । 'सपवित्रे हस्तेषु या दिव्या आप असावेप तेऽर्घ ' इत्येवमन्तं सूत्रम् । ब्राह्मणहस्तेषु सपवित्रेषु ददाति या दिव्या आप इत्यनेन । पवित्राणि यान्यन्तर्धायोदकमासिक्तं तानि प्रकृतत्वाद्भवन्ति केचित्कृतप्रयोजनत्वादेव तेभ्योऽन्यान्युत्पादयन्ति । तदयुक्तम् । स्मर्थते हि दर्भाणामन्यत्र विनियुक्ता - नामन्यत्रापि विनियोगः । तस्मात्प्रकरणात्तान्येव भवन्ति । आसावित्यत्र यथादैवतं नामादेशः । एकदेवतासंबन्धेन यावन्तो ब्राह्मणास्तावतां हस्तेषु तत्पान्नगतोऽर्घः प्रतिपाद्यः । तत्र केचि - त्सकृन्मन्त्रवचनमिच्छन्ति । एकद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवचनं कृतत्वादित्यनेन न्यायेन यत्रैकद्रव्यविपयः कर्माभ्यासः तत्र सकृन्मन्त्रवचनं कृतत्वादभिवानस्य, मन्त्रेण च देवता द्रव्यं कर्माभिधेयम् । तदभिहितं सकृदप्युच्यमाने न पुनरभिधानमपेक्षते । स चायं या दिव्या इति द्रव्याभिधायको मन्त्रः अनेन द्रव्यमभिधीयते तच्च सकृद्रव्यमभिहितमेव भवति तस्मारसकृन्मन्त्र इति । तदेतदन्याय्यम् । एकदेशप्रतिपत्तेः एकदेशो ह्यस्य द्रव्यस्य प्रतिपाद्यते । प्रतित्राह्मणं यावत् प्रतिपाद्यते तावन्मन्त्राभिधानेन संस्क्रियते । तस्मात् प्रत्यर्धमयं मन्त्रो ग्रहणवत् । अत्र केचित् दैवपात्रं पूरयित्वा तदनन्तरभ्व दत्त्वा ततः पितॄपात्रजातस्य पूरणादि कुर्वन्ति । तदसत् । नहि काण्डानुसमयस्यात्र प्रमाणमस्ति पदार्थानुसमयोऽयम् । तस्मात्समानं पूरणम् । ततो दानम् । स्मृत्यन्तर संभवेऽपि प्रवाहो यदि त्वस्ति ततो विकल्प इति । ' प्रथमे पात्रे स ंस्रवान्त्समवनीय पितृभ्यः स्थानमसीति न्युब्जं पात्रन्निदघाति' संस्रवाः पात्रसँलग्ना: । 'अत्र गन्धपुष्पधूपदीपवाससाश्च प्रदानम् ' अस्मिन्नवसरे विप्रेभ्यो गन्धादिदानम् । केचित्प्रकृतत्वात् अत्रेति सर्वनाम्नो निर्देशात्पात्रे गन्धादीनीच्छन्ति । तदसत् । अदृष्टप्रसङ्गात् । तस्मादत्रशब्दोऽवसरार्थी द्रष्टव्यः ॥ २ ॥
1
॥ * ॥
४४४
1
॥ * ॥
( गदाधरः ) ~~' दैवपूर्वं श्राद्धम्' आ उपस्पर्शनादित्यनुवर्तते निमन्त्रणादि आचमनपर्यन्तं श्रद्धे यत्किचित्क्रियते तत्सर्वं दैवपूर्वकं कर्तव्यमित्यर्थः । तथा च देवलः । यद्यत्र क्रियते कर्म पैतृकं ब्राह्मणान्प्रति । तत्सर्वं तत्र कर्तव्यं वैश्वदेवस्य पूर्वकमिति । ' पिण्डपितृयज्ञवदुपचारः पित्र्ये 'पितृकर्मणि पिण्डपितृयज्ञवत्करणं भवतीत्यर्थः । अनेनापसव्यदक्षिणामुख वामजानुपाताद्यतिदिष्टम् । अतश्च नीवीवन्धनादिपिण्डोत्थापनपर्यन्तं पिण्डपितृयज्ञोक्तधर्मो भवतीति । एतदपवादः - अपसव्येन कर्तव्यं सर्व श्राद्धं यथाविधि । सूक्तस्तोत्रजपं मुक्त्वा विप्राणां च विसर्जनम् । अपि च । सूक्ततो