________________
ण्डिका २ ]
परिशिष्टम् ।
दैवपूर्व श्राद्धं पिण्डपितृयज्ञवदुपचारः पित्र्ये हिगुणास्तु दर्भाः पवित्रपाणिर्दद्यादासीनः सर्वत्र प्रश्नेषु पङ्क्तिमूर्द्धन्यं पृच्छति सर्वान्वासनेषु दर्भानास्तीर्य विश्वान्देवानावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञातो विश्वेदेवास आगतेत्यनयाऽऽबाह्यात्रकीर्य विश्वेदेवाः शृणुतेममिति जपित्वा पितॄनावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञात उशन्तस्त्वेत्यनयाऽऽवाद्यावकीर्यायन्तु न इति जपित्वा यज्ञियवृक्षचमसेषु पवित्रान्तर्हितैष्वेकैकस्मिन्नप आसिञ्चति शन्नोदेवीरित्येकैकस्मिन्नेव तिलानावपति तिलोऽसि सोमदैवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भिः पृक्तः स्वधया पितल्लोकान् प्रीणाहि नः स्वाहेति सौवर्णराजतौदुम्बरखङ्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्र - पुटेषु वैकैकस्यैकैकेन ददाति सपवित्रेषु हस्तेषु या दिव्या आपः पयसा संबभूवर्या आन्तरिक्षा उत पार्थवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः शस्योनाः सुहवा भवन्त्वित्यसावेषतेऽर्घ इति प्रथमे पात्रे सत्रवान्त्स - मवनीय पितृभ्यः स्थानमसीति न्युब्जं पात्रं निदधात्यत्र गन्धपुष्पधूपदीप - वाससां च प्रदानम् ॥ २ ॥
(कर्कः ) – 'देवपूर्वं श्राद्धम्' यत्किचित्क्रियते तत्सर्वे देवपूर्वम् । 'पिण्डपितृयज्ञवदुपचारः पित्र्ये' पित्र्ये पिण्डपितृयज्ञवत् क्रिया । अपसव्यं दक्षिणामुखेन कर्तव्यं दक्षिणसंस्थमिति यावत् । 'द्विगुणास्तु दर्भा: ' प्रकृतत्वात्पित्र्य एव । ' पवित्रपाणिद्यादासीनः सर्वत्र ' यद्ददाति तत्सर्वमासीनः पवित्रपाणिश्च दैवे पित्र्ये च सर्वत्रग्रहणात् । ' प्रश्नेषु पङ्क्तिमूर्द्धन्यं पृच्छति सर्वान्वा ' प्रश्नेषु पराद्यः प्रष्टव्यः सर्वे वा । आद्ये पक्षे सामर्थ्यात्तस्यैव प्रतिप्रश्नः । ' आसनेषु दर्भानास्तीर्थ ' तच्चास्तरणं सामर्थ्यात्पूर्वमुपवेशनाद् द्रष्टव्यम् । तत्र केचिदस्मिन्नेवावसरे विप्रानुत्थाप्य दर्भास्तरणं कुर्वन्ति तदयुक्तं प्रागास्तरणादुपवेशनस्य धर्ममात्रप्रसङ्गात् । प्रथमं यदुपवेशनं तस्माददृष्टं परिकल्पयेत् । न च तत् । तथाच स्मृत्यन्तरे । कुशोत्तरेष्वासनेषु उपवेशयेदिति । 'विश्वान्देवानावाहविष्य इति पृच्छति' पङ्क्तिमूर्द्धन्यं सर्वान् वा । ' आवाहये "देवीरिति ' आवाहयेत्यनुज्ञातः सन् विश्वेदेवास आगतेत्यनया आवाहयेत् । अवकिरणं प्रकिरणम् । तच्च तिलैः कर्तव्यम् । दैवे केचिद्यवैः कुर्वन्ति । तदयुक्तम् । अनुपदेशात् । न च तिलैः क्रियमाणमदैवं भवति, तस्मात्प्रकरणानुग्रहात्तिलैरेव कर्तव्यं दैवेऽपीति । विकरणानन्तरं विश्वेदेवाः शृणुतेममिति जपेत् । तत् उदङ्मुखान् पितृनावाहयिष्य इति पृच्छति, पङ्क्तिमूर्द्धन्यं सर्वान्वा | आवाह्येत्यनुज्ञात उशन्तस्त्वेत्यनया आवाहयेत् । अत्र पितृन् पितामहान् प्रपितामहानावाहयिष्य इति पितॄणां मातामहानामप्येवमित्यतिदेशाच मातामहान् प्रमातामहान् वृद्धप्रमातामहानावाहयिष्य इत्युक्तं पितृभूतिना । तदयुक्तम् । पितृशब्दस्तु सपिण्डीकरणान्तसंस्कारजन्यपितृभावापत्तिरूपः । यथा पितृभ्यो दद्यात् पितृनावाहयिष्ये, पितृन्हविषे अत्तवे, आयन्तुनः पितर इति, अत्र पितरो मादयध्वमिति, अमी मदन्तपितर इति, नमोवः पितर इति, एतद्वः पितर इति,
४४२