________________
४४२
पारस्करगृह्यसूत्रम् ।
[ श्रद्धसूत्रे
Sपि न वा क्रुद्धो न चैवान्यमना नरः । एकाप्रमाधाय मनः श्राद्धं कुर्यात्सदा बुधः । इत्यादि । अत्रैतच्चि - न्त्यते--- विधवापररुयादीनां श्राद्धपाके कर्तुश्च तिलके किमधिकारः स्यादुत नेति । तत्रैक आहु:समाचारत्वादधिकारइति । तदयुक्तम् । स्मृतिविरुद्धाचारस्याप्रमाणत्वात् । तथा च व्यासः - - गृहिणी
चैत्र 'सुनाता पाकं कुर्यात्प्रयत्नतः । निष्पन्नेषु च पाकेपु पुनः स्नानं समाचरेत् । रजस्वलां च पापण्डी पुंश्चली पतितां तथा । त्यजेच्छूद्रां तथा वन्ध्यां विधवा ( ? )मन्यां तथैव च । रजस्वला त्रिदिनादूर्ध्वमनिवृत्तरजस्काम् । यत्तु ब्रह्मपुराणवचनम् - व्यङ्गकर्णा चतुर्थीहस्नातामपि रजस्वलाम् । वर्जयेच्छ्राद्धपाकार्थममातृपितृवंशजाम् । इत्यन्यस्त्रीविपयं तदंत्या संभवविपयम् (?) । अत एव पठन्ति - मातृष्वसा वधू कन्या शूद्राग्नौ च परस्त्रियः । पितृपाकं न कुर्वीत निराशाः पितरो गताः । तथा श्राद्धस्यपाके विधवा स्त्री न तृप्तिमन्तः पितरो न देवा इत्यादि । व्यङ्गकर्णा त्रुटितकर्णी । तिलके तु आपस्तम्बः । ललाटे पुण्ड्रकं दृष्ट्ा स्कन्धे माल्यं तथैव च । निराशाः पितरो यांति शापं दत्वा सुदारुणम् । इति । एवं च सकलशिष्टाचारविरोधमवलोक्य केचिदाहुः --- पुण्ड्रकमिति वर्तुलतिलकं निपेधति । तदपरे न क्षमन्ते । तिर्यक्पुण्ड्रं तथा दृष्टा स्कन्धे माल्यं तथैव च । निराशाः पितरो यान्ति दृष्ट्वा च वृपलीपतिम् । इति वचनात् । अतस्तिर्यक् पुण्ड्र निषेध इत्यन्ये । तदपि न सामान्येन तिलकमात्रनिषेधात् । तथा च पठति --- वामहस्तेपु ये दर्भा गृहेरङ्गवलिस्तथा । ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः । इति । रङ्गबलिश्चतुष्कम् । स्मृत्यन्तरम् - ललाटे तिलकं दृष्ट्वा स्कन्धे मालांकितं तथा । कांस्यपात्रे हवि - दृष्ट्रा निराशाः पितरो गताः । सत्यनतोऽपि वर्जयेतिलकं भाले श्राद्धकाले कदाचन । तिर्यग्वाप्यू - पुण्ड्रं वा धारयेच्छ्राद्धकर्मणि । एवं च सति श्राद्धदिने तिलकमात्रस्यैव निपेध इति युक्तम् । प्रयोगेcarशी प्रार्थनानन्तरं तिलकविधानस्य दृश्यत्वात् । तथा च याज्ञवल्क्यः — याचितारश्च नः सन्तु मारम यातिष्म कंचन। ततस्तु तिलकं कुर्यान्मन्त्रेणानेन भक्तितः । नित्यानुष्ठानसंनिष्ठाः सर्वदा यज्ञबुद्धयः। पितृमातृपराः सन्तः सन्त्वस्मत्कुलजा नराः । इति । न चानालोचितपरंपरानुष्ठान ग्राह्यम् । तथा चतुविंशतिमतम् -- स्मृतिर्वेदविरोधेन परित्याज्या यथा भवेत् । तथैव लौकिकं वाक्यं स्मृतिवाधात्परित्यजेत् । अपि च पठन्ति ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा चन्द्राकारमथापि वा । श्राद्धकर्त्री न कर्तव्यं यावत्पिण्डान्न निर्वपेत् । इति । यच भस्मीभवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम् इति । सन्ध्यादिकर्मविपयं तिलकं तच्छ्राद्धदिनादन्यत्र वेदितव्यमित्यविरोधः । ' आवाहना दिवाग्यत ओपस्पर्शनात् ' आ उपस्पर्शनादिति छेदः । ततश्चावाहनमारभ्य चुलुकदानपर्यन्तं मन्त्रवर्ज श्राद्धकृद्वाग्यमनमाचरेदित्यर्थः । तल्लोपे तु -- वैष्णवमन्त्रजपो वा विष्णुस्मरणं प्रायश्चित्तम् । 'आमन्त्रिताश्चैवम्' आमन्त्रिता विप्रा अप्येवं कर्तेवाक्रोधादिस्मृत्युक्तविधिनिषेधानाचरेयुरित्यर्थः । तथा च शङ्खः -- हुङ्कारेणापि यो ब्रूयाद्धस्ताद्वापि गुणान्वदेन् । भूतलाच्चोद्धरेत्पात्रं मुध्वद्धस्तेन वा पिवेत् । प्रौढपादो वहिः कृच्छ्रो वहिर्जानुकरोऽथवा । अङ्गुष्ठेन विनाश्नाति मुखशब्देन वा पुनः । पीतावशिष्टं तोयादि पुनरुद्धृत्य वा पिवेत् । खादितार्थ पुनः खादेन्मोदकानि फलानि च । मुखेन वाधमेदन्नं निष्ठीवेद्भाजनेऽपि वा । इत्थमन्नं द्विजः श्राद्धं हत्वा गच्छत्यधोगतिम् । पवित्रपाणयः सर्वे ते च मौनव्रतान्विताः । उच्छ्रिष्टोच्छिष्टसंसर्ग वर्जयन्तः परस्परम् | न स्पृशेद्वामहस्तेन भुञ्जानोन्नं कदाचन । न पादौ न शिरो नास्थि नपदा भाजनं स्पृशेदित्यादि । एवमित्यतिदेशेन भोक्तृणामपि कर्तृवन्मन्त्रोच्चारे प्राप्ते तन्निषेधार्थश्वकारः । तथा च - आसनेषु समारूढो मन्त्रमुच्चरते द्विजः । स चौरः स च पापिष्टो ब्रह्महा स च उच्यते । तथा-आसनस्थो यदा विप्रो मन्त्रमुचरते यदि । त्रयस्ते नरकं यान्ति दाता भोक्ता पिता तथेति । अत्र मन्त्रोच्चार निषेधाद्करणादि कुरुवेत्यादिप्रतिवचनमनुज्ञातम् ॥ १ ॥