________________
कण्डिका १] परिशिष्टम् ।
४४१ इत्यन्नदाने चतुर्थी विधानं तच्छेपान्नदानविपयम् । शेपाः संकल्पव्यतिरिक्तार्घदानावनेजनादयः संकल्पे चतुर्थ्या एव विधानात् । तथा च धर्मप्रदीपे-गोत्राणामासनेऽक्षय्ये गोत्रानावाहने तथा । अर्धे गोत्रपितस्तद्वत्पिण्डदानेऽवनेजने । अन्नसंकल्पने गोत्रा महाः शर्माण एव च । त्यागे दाने च गोत्रेभ्यो दैवेऽप्येतदुदाहृतमिति । त्यागे संकल्पे । दाने दक्षिणायाः। एतदुपरिष्टात्तदवसरे वक्ष्यामः । अपरं स्मृत्तिभ्य उपलब्धव्यमतः श्रद्धान्वितः इत्युक्तमलं वहुना । ' शाकेनापि नापरपक्षमतिकामेत् । अनेनावश्यं श्राद्धमपरपक्षे कुर्यादित्यर्थः । तथा च पुराणोचये-नहि पिण्डप्रदानेन श्राद्धं भवति केवलम् । पत्रं पुष्पं फलं तोयं यच्चान्यदपि किंचन । पितृनुद्दिश्य कर्तव्यं श्रद्धया पितृतत्परैः। तत्सर्वं श्राद्धमित्युक्तं श्रद्धया श्राद्धमुच्यते । इति । एवं च सति पक्षश्राद्धमुपक्रम्य सूतकादौ कर्तव्यमुत नेति-तत्रैके नेत्याहुः, अन्ये प्रतिज्ञातत्वात्कुर्वीतेति वदन्ति । तत्रैवं विचार्यते । यदि नेति तदारम्भानियमो दोपश्चापरिसमाप्तावित्यस्य वैयर्थ्यमुपक्रमभङ्गश्च स्यात् । अथ कुर्यादिति तर्हि द्रव्याघशुद्धौ द्विजभुक्तादिवैपम्यायेनैवारम्भस्तेनैव समाप्तिरिति न्यायवाधश्च स्यात् । तस्मात्सूतकादिव्यतिरेकेण मया पक्षश्राद्धं कर्तव्यमिति प्रतिज्ञातेन सूतकाद्यन्ते कर्तव्यम् । अथ गृहसाधारणद्रव्येभ्यः पक्षश्राद्धपर्याप्तद्रव्यमुद्धृत्य कृतनियमेन मया कर्तव्यमेवेति ज्ञातेन सूतकादिमध्ये श्राद्धं कर्तव्यमित्युक्तम् । यथारब्धपाके निमन्त्रितेपु च करणं यथा वा नवरात्रे कृतप्रतिज्ञेन सूतकमध्येऽपि पूजादि कर्तव्यमेवमेवेहापीति । तथा च पुराणसमुच्चये-पक्षश्राद्धे समारब्धे सूतकं निपतेद्यदि । समाहूता हि पितरः सूतकान्ते विसर्जयेत् । अथ वा केचनेच्छन्ति श्राद्धं तु मृतसूतके । जन्मसूतकमासाद्य पश्चाच्छ्राद्धं समाचरेत् । यदि नैवं नरः कुर्यात्सूतकान्ते समापनम् । प्रारदत्तानि मनुष्येण श्राद्धान्यसुरतृप्तये । इति । इदं चाशौचान्ते तन्मध्ये वा समापनं पूर्वोक्तविषयकल्पनेन व्यवस्थेयमित्यविरोधः । आवश्यकत्वे हेतुमाह-मासि मासि वोशनमिति श्रुतेः । प्रजापतिः पितनाह स्म वो युष्माकं प्रतिमासमशनं दत्तमतोऽपरपक्षेऽवश्यमेव कर्तव्यतेत्यर्थः । तथा च श्रुतिः-अथैनं पितरः प्राचीनावीतिन. सव्यं जान्वाच्योपासीदस्तानत्रवीन्मासि मासि वोशनं स्वधा वो सनोजवो वश्वन्द्रमा वो ज्योतिरिति । अनेन श्रुत्युक्तहेतुनाऽपरपक्षेऽमावास्यायामवश्यकर्तव्यमुक्तम् । तेनापरपक्षातिक्रमोऽपि नेत्यर्थाटुक्तम् । तदतिक्रमे चोभयातिकमात्प्रत्यवायस्मृतेः । तथा च-एतान्येव हि हिंसन्ति पञ्चमं यो व्यतिक्रमेत् । तस्मान्नातिक्रमेद्विद्वान् पञ्चमे पितृमेधिकम् । एतानि पुत्रायुधनधान्यादिफलानि । पञ्चममपरपक्षं पैतृमेधिकं श्राद्धं, तथा निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः । इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः । इति । विधिनिषेधमाह-'तदहः शुचिरकोधनोऽत्वरितोऽप्रमत्तः सत्यवादी स्यादध्वमैथुनश्रमस्वाध्यायान्वर्जयेत् । तदहरिति पूर्ववदिति भावः । श्राद्धदिने एतौ सूत्रोक्तविधिनिषेधावनुतिष्ठेदित्यर्थः । शुचिर्वाह्याभ्यन्तरवमनविरेकरक्तस्रावाद्यशुद्धिरहितः । अथवा शुचिः शुक्छवासाः स्यात् । कपायादेः प्रतिपिद्धत्वात् । तथा चाह मरीचि:शुचयः शुचिवाससः स्युरिति । शङ्खोऽपि-शुचिशुक्लवासा दर्भहस्तः स्वागतमिति ब्रूयात् । श्राद्धकृच्छक्लवासाः स्यादिति च । पुराणोचयेऽपि-एकवासास्तु यः कुर्यात्पिण्डनिर्वपणं नरः । कापायवस्त्रसंवीतस्तद्वै रक्षांसि भुञ्जते । धर्मप्रदीपे-कापायं खण्डवखं च रक्तवस्त्रं तथैव च । एवंविधानि वस्त्राणि वर्जयेच्छ्राद्धकर्मणि । अप्रमत्त इति स्मृत्युक्तकालादिपु सावधानः । तथा च कालहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत् । पात्रहीनं च यच्छ्राद्धं भागं तं राक्षसं विदुः । इति । स्वाध्यायः श्राद्धमन्त्रजपादिव्यतिरिक्तपाठः, मैथुनं पूर्वदिनेऽपि । शेपं स्पष्टम् । नेयं विधिनिषेधेयत्ताऽपितु प्रदर्शनम् । अतोऽन्यदपि विधिनिषेधरूपं स्मृत्युक्तं ग्राह्यमित्यर्थः । तथा च दातृभोकोर्नियमः । न चाश्रु पातयेजातु न शुक्ला()गिरमीरयेन् । न चोदीक्षेत मुखानं नं च कुर्वीत मत्सरम् । न दीनो.