________________
४४० पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रच मनुः-प्रत्ययो धर्मकायेंपु सद्भिः श्रद्धेत्युदाहृतेति । सा च स्मृत्युक्तधर्मोपलक्षणम् । अतस्तद्धमें युक्तः श्राद्धं कुर्यात् । विधिहीनमनुष्ठानं मत्रहीनमदक्षिणम् । अश्रद्धया कृतं दत्तं तद्वै रक्षांसि भुजते । तथा--विभक्तिभिस्तु यत्किंचिद्दीयते पितृदैवते । तत्सर्वं सफलं ह्याहुर्विपरीतं निरर्थकमिति । अत्र श्रद्धा अस्ति यत्र तच्छ्राद्धमिति श्राद्धग्रहणेनैव तदन्वितत्वे लन्धे श्रद्धान्वितग्रहणं पितृकार्येषु स्मृत्युक्तधर्माणामत्यादरजापनार्थम् । तथा च मनु:-देवकार्याद्विजातीनां पितृकार्य विशिष्यते । इति । अतश्च पितृकार्येषु स्मृत्युक्तधर्मादरेण प्रयोगकुगलः स्यादिति । एतदुक्तं भवति । संवन्धनामगोत्ररूपाणां यथावत्प्रयोगेण पुत्रादिदत्तं हविः पितृणां तृप्तिकरं भवतीति । तथा चनामगोत्रं स्वकं शर्मप्रापकं हव्यकव्ययोः । इति । ज्ञातिश्रेष्ठयमवाप्नोति प्रयोगकुशलो नरः । इति च । नामादिप्रयोगो धर्मप्रदीपे-~आवाहनाय॑संकल्प पिण्डदाने तिलोदके । अक्षये चासने पाये नामगोत्रे प्रकाशयेत् । अत्रैतच्चिन्त्यते-कि संवन्धादीनामुच्चारणक्रमोऽस्ति नवेति । तत्रैक आहुः-- संवन्धादीनां हविःप्रापकत्वमेव नोच्चारक्रम इति । अन्ये त्वाहुरमुकगोत्रास्मत्पितरमुकशर्मन्निति क्रम इति । वसुरुद्रादिध्यानमेव नोच्चार इत्यपरे । तत्र नाद्यः-स्मृत्युक्तक्रमस्य वैयर्थ्यात् । न द्वितीयः-गोत्रप्रयोगस्यादावविहितत्वात् । नापि तृतीयः-वस्वाद्युञ्चार इत्यस्यैवोक्तत्वात् । तथा च-संवन्धं प्रथमं ब्रूयान्नामगोत्रमतः परम् । रूपं ततो विजानीयादेप धर्मः सनातनः । अन्यच्चमृतनाम समुच्चार्य तस्य गोत्रमुदीरयेत् । वृहस्पतिरपि-आसनेचार्घदाने च पिण्डदानेऽवनेजने । संवन्धनामगोत्राणि यथार्हमनुकीर्तयेत् । वसू रुद्रस्तथाऽदित्यः पित्रादित्रितये क्रमात् । मातामहादिमात्रादित्रये च स्मृतिमहतीति । तथा च वसुरुद्रादित्यरूपान्छ्राद्धार्थ तर्पयेत्पितन् । नामगोत्रे समुच्चार्य तिलस्तीर्थेपु संयतः इति । तीथै पितृतीर्थम् । ततश्चास्मत्पितरमुकशर्मनमुकगोत्रवसुरूपति प्रयोगः । पाये तु विरोध आभासते । विधिनिषेधयोर्दर्शनात् । तथा च पाये नामगोत्रे प्रकाशयेदियुक्तम् । तथा च आसनावाहने पाये अन्नदाने तिलोदके । अक्षय्ये पिण्डदाने च नामगोत्रे प्रकीर्तयेदिति । मनुस्तु निपेधति बहिर्मण्डलभूमेस्तु गोत्रमुच्चारयेद्यदि । अकृतं तद्भवेद पितृणा नोपतिष्टते इति । अत्र व्यवस्था स्वागतार्थे गोत्रादिनिषेधः । पादाचे तु विधिरित्यविरोधः । अस्ति च स्वागतार्थ्यविधिः पादाात्पूर्वभावी । तथा च वृद्धयाज्ञवल्क्यः-दत्त्वार्घ क्षालयेत्पादावाचभ्य क्षालयेत्पुनः । पूजयेत्पुनराचम्य विप्रानभ्यन्तरे विशेत् । पुराणसमुच्चयेऽपि-दत्त्वाचे क्षालयेत्पादौ विष्टरेषु निवेशयेत् । पूर्व यः क्षालयेत्पादौ पादा च ततो नयेत् । विप्रपादोदकोद्भूता पितृतृप्तिं निहन्ति सः इति । तस्माद्विपानाहूय सव्येन तूष्णीं स्वागतार्थ दत्त्वा पादौ प्रक्षाल्याचम्य मण्डले उपवेश्य यथाविधि पुनः प्रक्षाल्याचम्य पादार्चे गोत्राद्युच्चार्य दद्यादिति । नामगोत्रादिकं च कया विभक्त्या कुत्र प्रकाश्यत इत्युच्यते । तत्र संवन्धे च भवेत् षष्ठी चतुर्थी संप्रदानतः इति सामान्येन पष्टी चतुर्योः प्राप्तयोर्विशेपमाह स्मृतिः-पृच्छाक्षय्यासने षष्ठी चतुर्थी चैव कल्पने । आवाहने द्वितीया च शेषाः संबुद्धयः स्मृताः इति । कल्पने संकल्पे । एतच्चान्नसंकल्पादन्यत्र । तथा च ब्रह्माण्डपुराणे-पितृभ्यश्च ततो दद्यादन्नमामन्त्रणेन तु । अमुकामुकगोत्रैतत्तुभ्यमन्नं स्वधानमः । इति । शाङ्खायनोऽपि-अन्नं वासे(?) च तत्त इत्युद्दिश्य भोजयेदिति । आमन्त्रणे प्रतिज्ञायामक्षय्ये दक्षिणाविधौ । संपूर्णपृच्छासनयोः पष्टीं कुर्यात्सदैव हि । इति । आसने चतुर्थी विकल्पिता । तथा पृच्छाक्षय्यासने पष्टी चतुर्थी वासने मता | अर्घावनेजनपिण्डसन्न(1) प्रत्यवनेजनम् । संबुद्धथैतानि कुर्वीत शब्दशास्त्रविशारदः । व्यासोऽपि-चतुर्थी वासने नित्यं संकल्पे च विधीयते । प्रथमा तर्पणे
प्रोक्ता संवुद्धिमपरे जगुरिति । देशभेदेन चतुर्थी व्यवस्थितेति रत्नावलीकारः । यत्तु संग्रहकार• वचनम् । अक्षय्यासनयोः पष्टी द्वितीयावाहने स्मृता । अन्नदाने चतुर्थी स्याच्छेपाः संवुद्धयः स्मृताः।