________________
परिशिष्टम् 1.
४३९
ause १ ]
पितरो यान्ति शुद्धयन्ति च गयाशिर इति । मण्डलादिकरणं गोमूत्रेणाह वृहस्पतिः -- गोमूत्रमण्डले कृत्वा दक्षिणे चोत्तरे शुभे । श्राद्धीयाहनि संप्राप्ते रेणुभिर्न जलेन च । गृहकुड्यादिलेपेपु गोमूत्रे रेणुरुच्यते । इति । ' प्राङ्मुखानुपवेश्य दैवे युग्मानयुग्मान्यथाशक्ति पित्र्य एकैकस्योदङ्मुखान् ' यथाशक्त्येकैकस्येति पदे उभयत्र संवध्येते । युग्मा द्विचतुरादयः । अयुग्मास्त्रिपञ्चादयः । ततश्चैकैकस्य पित्रादेर्देवश्राद्धे यथाशक्ति युग्मान् प्राड्मुखान् पित्र्येऽप्येकैकस्य पित्रादेरयुग्मान् यथाशक्त्युदड् - मुखान्विप्रान्वामेनासनं स्पृष्ट्वा दक्षिणकरेण द्विजकरं धृत्वा भूर्भुवः स्वः इदमासनमास्यतामित्युक्त्वोपवेश्य श्राद्धं कुर्यादिति शेषः । तथा च कात्यायनः - सव्येनैवासनं धृत्वा दक्षिणे दक्षिणं करम् । ओं भूर्भुवः स्वरित्युक्त्वा आसनेपूपवेशयेत् । तथा-- आस्यतामिति तान् ब्रूयादासनं संस्पृशन्नपि । समस्ताभिर्व्याहृतिभिरासनेषूपवेशयेत् । इति । एवं चात्र प्रतिपुरुषं दैवश्राद्धं भवतीति अवगम्यते । यथाशक्तीतिपदस्यानियतवाचकत्वात् । अयुग्मत्वं च नवभ्योर्वाग्वेदितव्यम् । तथा च गौतमः - नवाव - राम्भोजयेदयुजो यथोत्साहं चेति । ब्रह्मांडेऽपि सामर्थ्येऽपि नवभ्योर्वाग्भोजयीत सति द्विजान् । नो कर्तव्यमित्याहुः केचिद्दोपस्य दर्शिन इति । एवं वहुतरप्राप्तौ संख्यामाह - 'द्वौ वा देवे त्रीन्पित्र्ये' वाशब्दः प्रतिपुरुपं दैवश्राद्धं निपेधति । देवे द्वौ पित्र्ये त्रीनिति पितृपङ्कौ दैवे द्वावेव पित्र्ये प्रतिपुरुपं त्रिकत्रिकभेदेन नव । एवमुभयेत्राप्येकादशैवेत्यर्थः । अतश्च प्रतिपंक्त्येव दैवश्राद्धं न प्रतिपुरुपमिति पूर्वसूत्रापवादः । तथा च वृद्धयाज्ञवल्क्यः -- दशैकं पञ्च वा विप्रान्पार्वणे विनियोजयेत् । द्वौ देवे प्रागुदपत्राद्येकैकस्यापि ते त्रयः । एवमेकादश प्रोक्ता यथोक्ता एकपार्वणे । इति । अथ चैकादश पञ्च वेति पक्षद्वयावधारणार्थो वा शब्दः । विस्तरस्य निषिद्धत्वात् । तथाच स एव द्वौ देवे पितृकृत्ये त्रीन्पंच चैवं प्रकल्पयेदिति । मनुरपि । सत्क्रियां देशकालौ च द्रव्यं ब्राह्मणसंपदः । पंचैतान्त्रिस्तरो हंति तस्मान्नेहेत विस्तरम् | बृहस्पतिरपि एकैकमथवा द्वौ श्रीन्दैवे पित्र्ये च भोजयेत् । सत्क्रियाकालपात्रादिर्न संपद्येत विस्तरम् । ब्राह्मेऽपि यस्माद्ब्राह्मणवाहुल्याहोपो बहुतरो भवेत् । श्राद्धनाशो मौननाश: श्राद्धतंत्रस्य विस्मृतिः । उच्छिष्टोच्छिष्टसंसगों निंदा दातृपु भोक्तृपु । वितंडया चापवादो जल्पास्ते ते पृथग्विधाः । इति । 'एकैकमुभयत्र वा ' वाशब्दोऽभावे । ततश्च देशकालधनाद्यभावे दैवे पित्र्ये चैकैकं ब्राह्मणद्वयमेवोपवेशयेदित्यर्थः । तथा च वृद्धयाज्ञवल्क्यः -- एक दैवे तथा पित्र्ये धनविप्राद्यभावतः । योजयेच्छ्राद्धदाने च पितृयज्ञं न लोपयेदिति । नन्वेवं सति न त्वेकैकं सर्वेषामिति निषेधोऽनुपपन्न इति । मैवम् । संभवविषयत्वान्निषेधस्येत्यदोपः । तथा च त्राह्मणा विप्रसंपत्तावेकैकस्य त्रयस्त्रयः । एको वैकस्य भोक्तव्यस्त्रयाणामेक एव चेति । अत्र दैवे पित्र्ये चेत्यनुवृत्तौ उभयत्रेतिग्रहणं सर्वत्र समविभागार्थम् । समं स्यादश्रुतत्वादिति न्यायात् । 'मातामहानां चैवं' मातामहानामप्येवं सर्वे पक्षा भवेयुरित्यर्थः । अतश्च मातामह श्राद्धमपि पितृश्राद्धवन्नित्यमित्युक्तम् । विज्ञानेश्वरस्तु-~~-~-मातामहादिभिर्मातुः सापिंड्य एव मातामह श्राद्धं नित्यमन्यथा नेत्याह । अत एवातिदेशान्न पृथक्कार्यमित्यन्ये । तदेतत्कर्कादिभिरनादृतमित्युपेक्षणीयम् । तथा च स्कंदपुराणेपार्वणं कुरुते यस्तु केवलं पितृहेतुतः । मातामह्यं न कुरुते पितृहा चोपजायते । चकारो नवद्वादशदैवत्ये मातृमातामह्योरतिदेशार्थः । वैश्वदेवे विशेपमाह -- 'तंत्रं वा वैश्वदेविकम् ' विश्वेदेवाः संत्यत्रेति वैश्वदेविकं श्राद्धं तंत्रमुभयपंक्त्योरेकं भवेदिति शेषः । अत इनिठनौ । साधारणं भवेत्तंत्रमिति वचनात् अयं च पक्षः सर्वपक्षेषु त्रिकल्पेनावतिष्ठते । ततश्चैकप्रयोगापूर्वसाधकत्वं भिन्नप्रयोगापूर्वसाधकत्वं च वैश्वदेवश्राद्धस्य भवतीत्यर्थः । अत्रावसरे चमसं पूरयित्वाऽभिमंत्रयेत् । तथा च कात्यायनः - कूमांडमंत्रसूतेन कुर्यात्तोयाभिमन्त्रणम् । अन्नानि प्रोक्षयेत्तेन तेनैव श्राद्धमाचरेदिति । कूश्मांडमंत्रा यद्देवादेवहे - नमित्यादयस्त्रयः । श्रद्धान्वितः श्राद्धं कुर्वीतेत्यर्थः । श्रद्धा धर्मकार्येषु फलावाप्तिनिश्चयः । तथा
·